रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 28, कुल 558 में से
संदर्भ में पढ़ें५
रसार्णवे
तत्र देवि स्थिरं पिण्डं यत्र स्थैर्ये रसः प्रभुः ॥ २० ॥
अचिराज्जायते देवि शरीरमजरामरम् ।
मनसश्च यथा ध्यानं¹ रसयोगादवाप्यते ॥ २१ ॥
सत्यं स² लभते देवि ज्ञानं विज्ञानपूर्व्वकम्³ ।
तस्य⁴ मन्त्राश्च सिध्यन्ति योऽश्नाति⁵ मृतसूतकम् ॥ २२ ॥
यावन्न शक्तिपातस्तु न यावत् पाश⁶कृन्तनम् ।
तावत्तस्य कुतो बुद्धिः⁷ जायते मृतसूतके ॥ २३ ॥
मद्यमांसरता नित्यं भगलिङ्गेषु ये रताः ।
तेषां विनष्टबुद्धीनां रसज्ञानं सुदुर्लभम् ॥ २४ ॥
कुलशासनहीनानां सङ्घर्षणमकाङ्क्षिणाम् ।
न सिध्यति रसो देवि पिबन्ति मृगतृष्णिकाम् ॥ २५ ॥
गोमांसं भक्षयेद्यस्तु पिबेदमरवारुणीम् ।
कुलोनं⁸ तमहं मन्ये रसज्ञमपरेऽधमाः ॥ २६ ॥
न गर्भेः संप्रदायार्थे⁹ रसो गर्भो विधीयते ।
तेनायं लभते सिद्धिं न सिद्धिः सूतकं विना ॥ २७ ॥
(1) र. चि. reads समाधानम्. (2) सत्त्वञ्च, a variant in र. चि. (3)
र. चि. reads विज्ञान ज्ञानपूर्व्वकम्. (4) सत्य, a variant in र. चि. which is
not appropriate here. (5) K reads अश्नुते in the sense of अश्नाति.
(6) र. चि. reads शक्ति, which is tautological. (7) र. चि. reads शुद्धिः.
(8) अहं तं कुलोनं कुकार्य्यलीनं कदाचारं मन्ये , कुलीनशब्दादुत्पन्नं कौलीनं लोकनिन्दा
इत्यर्थः । अन्ये अधमाः त रसज्ञं मन्यन्ते इत्यर्थः । (9) We have adopted the
reading in र. चि.