सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 29, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 29

प्रथमः पटलः । ५
यावन्न हरबीजन्तु भक्षयेत् पारदं रसम् ।
तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥ २८ ॥¹
मद्यमांसरताप्रज्ञा² मोहिताः³ शिवमायया ।
जल्पन्ति च वयं मुक्ता यास्यामः शिवमन्दिरम् ॥ २९ ॥
पिण्डधारणयोगे च निस्पृहा मन्दबुद्धयः ।
खण्डज्ञानेन देवेशि रञ्जितं सचराचरम् ॥ ३० ॥
स्वदेहे खेचरत्वं च शिवत्वं येन लभ्यते ।
तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥ ३१ ॥
श्रीदेव्युवाच ।
अवतारं रसेन्द्रस्य माहात्म्यं तु सुरेश्वर ।
श्रोतुमिच्छामि देवेश वक्तुमर्हसि तत्त्वतः ॥ ३२ ॥
श्रीभैरव उवाच ।
साधु पृष्टं महाभागे गुह्याद्गुह्यतरं त्वया ।
अनुग्रहकरं ध्यानं लोकानामुपकारकम् ॥ ३३ ॥
त्वं माता सर्व्वभूतानां पिता चाहं सनातनः⁴ ।
द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥ ३४ ॥
स्वैरतः सम्भवाद्देवि⁵ पारदः कीर्त्तितो महः⁶ ।
(1) र. चि. exactly quotes this śloka. (2) K reads मद्यमांसरता
प्रज्ञा, which is inc. (3) K reads मोहिता, which seems to be an error
of the scribe. (4) K reads सनातनम्, which is inc. This śloka (34th)
is also found in र. चि. (5) K reads स्वरत्सम्भवोद्देवि, which is absurd,
being gram. untenable. (6) K reads महा, which is inc.