सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

८.] रसरत्नाकरस्य रसायनखण्डः । ७१
'ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल
निकल निकालय निकालय स्वाहा ठः ठः ॥'
गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् ।
पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥ ७१ ॥
तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु ।
लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः॥ ७२ ॥
'ॐ नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि
स्वाहा ठः ठः ॥'
अतितरसुखसाध्यैर्योगराजैः प्रसिद्धैः
सततसुरतयोग्यं स्तम्भनं वर्धनं च ।
निपुणरसिकरामारञ्जकं मोहकं स्या-
द्वदितमिह समस्तं भोगिनां सौख्यहेतुः ॥ ७३ ॥
इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे
वीर्यस्तम्भनलिङ्गवर्धनं नाम सप्तमोपदेशः ॥
अथाष्टमोपदेशः ।
श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयै-
स्तच्छास्त्रं शम्भुनोक्तं प्रगहनमखिलं वीक्षितं यत्तु सारम् ।
व्याहत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्य-
तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥ १ ॥
मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा ।
शिला तिष्ठति या रात्रौ स्रवते गुग्गुलुं सदा ॥ २ ॥
पालाशचाडुना ग्राह्यं क्षिपेदलाबुपात्रके ।
तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥ ३ ॥
मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् ।
तद्गुग्गुलुं द्रुते ताम्रे कोटिभागेन योजयेत् ॥ ४ ॥

७२ आयुर्वेदियग्रन्थमाला। [उपदेशः
तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् ।
वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥ ५ ॥
तद्वारे विद्यते कुण्डं तत्र घण्टा विलम्बते ।
रात्रौ कृष्णचतुर्दश्यां सोपवासैस्त्रिभिर्जनैः ॥ ६ ॥
कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितैः ।
एकस्तु स्नापयेद्देवं जलमेकस्तु वाहयेत् ॥ ७ ॥
एकस्तु वादयेद्धण्टामविच्छिन्नं निशावधि ।
ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥ ८ ॥
घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके १।
निखनेद्दृश्यते तत्र मृद्गोरोचनसंनिभा ॥ ९ ॥
सिताक्षीरैः पिबेत्कर्षं सप्ताहादमरो भवेत् ।
चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥ १० ॥
स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् ।
साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥ ११ ॥
रात्रौ जपं प्रकुर्वाणस्तत्तोयं चार्धरात्रके ।
स्पृष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥ १२॥
कृत्वा तिष्ठेद्यदा याति तज्जलं तत्क्षणात्पिबेत् ।
वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥ १३ ॥
श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः ।
देवस्योत्तरदिग्भागे चिञ्चावृक्षः समीपतः ॥ १४ ॥
विद्यते तस्य मूले तु भैरवो दृश्यते स्वयम् ।
तस्याग्रे निखनेद्भूमिं पुरुषस्य प्रमाणतः ॥ १५ ॥
दृश्यते तत्रकुण्डं तु नीलवर्णजलान्वितम् ।
चिञ्चावृक्षस्य पत्राणि सम्यग्वस्त्रेण बन्धयेत् ॥ १६ ॥


१ 'जानुमात्रकम्' ख. ।

८.] रसरत्नाकरस्य रसायनखण्डः । ७३
तस्मिन् कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै ।
संगृह्य तेन काष्ठेन पचेत्तेषां विवर्जयेत् ॥ १७ ॥
कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः ।
क्षणं मूर्च्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥ १८ ॥
छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः ।
त्रिपुरान्तकदेवस्य पश्चिमे गव्युतिद्वये ॥ १९ ॥
मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः ।
तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥ २० ॥
पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् ।
दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥ २१ ॥
आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् ।
रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥ २२ ॥
तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् ।
सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥ २३ ॥
त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् ।
विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥ २४ ॥
साधकः प्रविशेत्तत्र दशधन्वन्तरावधि ।
पाषाणाः कोकिलाकारास्तानि तिष्ठन्ति चाहरत्॥ २५॥
तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् ।
इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥ २६ ॥
क्षीरमध्ये क्षिपेत्तान् वै क्षीरं कृष्णं प्रजायते ।
आकण्ठान्तं पिबेत्तत्तु दिव्यकायो भवेन्नरः ॥ २७ ॥
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ।
छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥ २८ ॥
त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे ।
देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥ २९ ॥
७

७४ आयुर्वेदौयग्रन्थमाला । [उपदेशः
देवाग्रे भूमिकां जानुमात्रां तत्र फला इव ।
निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥ ३०॥
त्रिपुरान्तकदेवस्य पश्चिमे योजनार्थके ।
विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥ ३१ ॥
गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः ।
तत्फलानां रसं पीत्वा मूर्च्छा संजायते क्षणम् ॥३२॥
ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् ।
श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥ ३३ ॥
देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् ।
पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥३४॥
देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ ।
रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥ ३५ ॥
ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति ।
आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥ ३६ ॥
विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः ।
आदाय तान् धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥३७॥
तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः ।
तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥ ३८ ॥
पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः ।
पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥ ३९ ॥
गुञ्जा च रिष्ठकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः ।
तयोः पत्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥ ४० ॥
तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् ।
हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥ ४१ ॥


१ 'गच्छेदर्जुनवृक्षो' ख. ।

रसरत्नाकरस्य रसायनखण्डः । ७५
शिला तत्र समाख्याता स्पर्शग्राहा प्रयत्नतः ।
नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥४२॥
तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति ।
छायाछत्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ ४३ ॥
शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् ।
योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥४४॥
रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये ।
अथवा साधयेद्भूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥ ४५ ॥
कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् ।
तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्ह्लात्क्रमेण वै ॥ ४६ ॥
वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् ।
मन्त्रयेत्कालिमन्त्रेण छायाच्छत्रे निवेशयेत् ॥ ४७ ॥
तद्दंशाग्रं क्षणेकेन जायते गुटिका तु ताम् ।
साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥ ४८ ॥
तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् ।
ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूतगतम् ॥ ४९॥
वंशे बद्ध्वा क्षिपेत्खङ्गं पूर्वमन्त्रेण मन्त्रितम् ।
तत्खङ्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ ५० ॥
वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् ।
तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥ ५१ ॥
स्रोतोञ्जनं कज्जलं च क्षित्वा तत्रैव पूर्ववत् ।
तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥ ५२ ॥
पादुकां तेन योगेन क्षित्वा पद्भ्यां तु धारयेत् ।
यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ ५३ ॥
तद्वद्रक्तपटं तत्र क्षित्वा संवेष्ट्य साधकः ।
अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ ५४ ॥

७६ आयुर्वेदीयग्रन्थमाला । [उपदेशः
कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् ।
वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ ५५ ॥
श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः ।
तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥ ५६ ॥
नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् ।
देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥ ५७ ॥
ब्रह्मेश्वरस्य नैर्ऋत्ये संस्थितं तिन्तिणीवनम् ।
तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥५८॥
एकपादेन चिञ्चाधस्तद्वृक्षात्पत्रमाहरेत् ।
बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ ५९ ॥
स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते ।
तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥६०॥
भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् ।
तृतीयं साधको भुक्त्वा क्षणं भवति मूर्च्छितः ॥ ६१ ॥
तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् ।
अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ ६२ ॥
अलंपुरोत्तरे भागे ग्रामः स्याद्धीमपादुकः ।
तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्ध्रुवम् ॥ ६३ ॥
पाषाणाः सर्पवद्वक्रा ग्राह्या स्पर्शा भवन्ति ते ।
योगेश्वरीति विख्याता देवता या त्वलंपुरे ॥ ६४ ॥
देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्ध्रुवम् ।
पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥ ६५ ॥
मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् ।
मध्वाज्यसहितान् भक्ष्येत्पाषाणांस्तान्विचक्षणः ॥ ६६ ॥
श्रीशैलस्योत्तरद्वारे महेशो नाम देवता ।
भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥ ६७ ॥

८.] रसरत्नाकरस्य रसायनखण्डः । ७७
स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः ।
इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान् परित्यजेत् ॥ ६८ ॥
फलानि पाचयेत्क्षीरैः पिवेन्क्षीरं यथेष्टकम् ।
किंचिन्मूर्च्छा भवेत्तेन ततो बोधे पिवेत्पुनः ॥ ६९ ॥
एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ ७० ॥
सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः ।
तेनैवाम्रफलैकेन वर्जितभ्रमरेण च ।
सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥ ७१ ॥
क्षेपाच्चारमवाप्नोति सत्यमीश्वरभाषितम् ।
तत्फलं छिद्रितं कृत्वा उत्पाट्य भ्रमरं ततः ॥ ७२ ॥
शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् ।
क्षिप्त्वा तस्मिन्मुखं रुद्धा लिम्पेन्मृद्गोमयेन च ॥ ७३ ॥
छायाशुष्कं तदाम्रोत्थैः काष्ठैर्यामं¹ विपाचयेत् ।
स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥ ७४ ॥
मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला ।
काथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥ ७५ ॥
तारं ताम्रं भुजङ्गं वा कोटिभागेन वेधयेत् ।
कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥ ७६ ॥
लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् ।
स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥ ७७ ॥
गुञ्जामात्रं सदा खादेन्मासाद्वालो भवेन्नरः ।
जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥ ७८ ॥
विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः ।
ॐ हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥ ७९ ॥
१ 'काष्ठैर्यामं' ख. ।

७८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् ।
पश्येदिव्यविमानानि जायते प्रत्ययो महान् ॥ ८० ॥
ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः ।
गह्वरं दृश्यते तत्र प्रविशेत्पश्चिमामुखम् ॥ ८१ ॥
योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः ।
पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥ ८२ ॥
तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् ।
सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ ८३ ॥
तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् ।
ॐ ह्रीं विद्यावागीश्वराधिपतये ह्रीं ॐ स्वाहा ।
स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ॥
यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ ८४ ॥
ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः ।
चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ ८५ ॥
स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः ।
वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥ ८६ ॥
शतमायतनं तत्र कूपानां च शतं नव ।
तावत्संख्यास्तथाऽऽरामा नन्दनाख्यवनानि च ॥ ८७ ॥
तथा नवशतं वाप्यो विद्यन्ते कदलीवने ।
बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ ८८ ॥
तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता ।
सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥ ८९ ॥
ततस्तस्यै प्रवक्तव्यं दास्यामि परमेश्वरि ।
क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥ ९० ॥
सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धार्यताम् ।
यदा न मुञ्चते भूमौ तदा सिद्धयष्टकं तव ॥ ९१ ॥

८.] रसरत्नाकरस्य रसायनखण्डः । ७९
दास्येऽहं नात्र संदेहो भोजनान्तेऽथवा पुनः ।
त्यक्ते करोमि संहारं तस्माद्यत्नेन रक्षय ॥ ९२ ॥
इत्येवं साधको वीरः कुर्यात्सिद्धिमवाप्नुयात् ।
गच्छेदुत्तरदिग्भागे तत्सरो योजनार्थकम् ॥ ९३ ॥
तत्रास्ति पुष्पसंपूर्णं दिव्याख्यं नन्दनं वनम् ।
पुष्पाणां घ्राणमात्रेण क्षुत्पिपासा न विद्यते ॥ ९४ ॥
अथवा भक्षयेत्तस्मात्फलमेकं यथोचितम् ।
तेन भक्षितमात्रेण वज्रकायो भवेन्नरः ॥ ९५ ॥
सरो दक्षिणदिग्भागं गच्छेद्योजनपादकम् ।
तत्र दाडिमसंपूर्ण दृश्यते नन्दनं वनम् ॥ ९६ ॥
तत्फलं भक्षयेत्सिद्धो जीवेद्युगसहस्रकम् ।
तत्सरःपूर्वदिग्भागे गच्छेत्क्रोशार्धमात्रकम् ॥ ९७ ॥
तत्र धात्रीफलैः पूर्णं श्यामलं नन्दनं वनम् ।
फलानि भक्षयेत्तानि जीवेत्कल्पशतत्रयम् ॥ ९८ ॥
तत्सरःपश्चिमे भागे गच्छेद्योजनमात्रकम् ।
तत्र बिल्वफलैः पूर्णं दृश्यते नन्दनं वनम् ॥ ९९ ॥
तत्फलं भक्षयेद्वीरो जीवेच्चन्द्रार्कतारकम् ।
तन्नन्दनवने रम्ये लिङ्गं स्यान्नीलवर्णकम् ॥ १०० ॥
प्रविशेदुत्तरद्वारे तत्र नागो महाबलः ।
उग्रः सप्तफणाकारो दृश्यतेऽतिभयङ्करः ॥ १०१ ॥
तस्य कुर्यान्नमस्कारं हुं¹ हुं कुर्यात्समुद्धरेत् ।
तदाऽसौ वदते वाणीमदृश्यत्वं ददामि ते ॥ १०२ ॥
गच्छ त्वं पश्चिमद्वारे तत्रास्ति दिव्यकन्यका ।
गच्छेत्तत्र महावीरः साधको मन्त्रमुच्चरन् ॥ १०३ ॥


१ 'हुंकारं च समुच्चरेत्' ख. ।

आयुर्वेदीयग्रन्थमाला । [उपदेशः
हारं दास्यति सा तुष्टा नै प्रवेशं प्रयच्छति ।
तं हारं धारयेत्कण्ठे साक्षाद्वागीश्वरो भवेत् ॥ १०४ ॥
ततस्तु दक्षिणं द्वारं गच्छेत्तत्र भयङ्करम् ।
मुक्तकेशं वक्रनेत्रं गदाहस्तं दिगम्बरम् ॥ १०५ ॥
नीलवर्णं क्षेत्रपालं दृष्ट्वा मन्त्रं समुच्चरेत् ।
ह हा हे हे हं हुंकारं फट् हुं स्वाहान्तमेव च ॥ १०६ ॥
अनेन मन्त्रपाठेन क्षेत्रपालः प्रसीदति ।
ददाति खेचरीं सिद्धिं न प्रवेशं कदाचन ॥ १०७ ॥
ततस्तु पूर्वदिग्भागे द्वारं तत्र गणेश्वरः ।
दृश्यते पूजयेतं वै साधकः प्रविशेत्ततः ॥ १०८ ॥
दृश्यते दिव्यचापं तु तथा लिङ्गं मनोहरम् ।
पूजयेच्छिवमन्त्रेण रकारेणैव नान्यथा ॥ १०९ ॥
ततस्तत्र जपं कुर्यादहोरात्रमुपोषितः ।
प्रत्यक्षो जायते रुद्रो वरं दत्ते यथेप्सितम् ॥ ११० ॥
इत्येवमादयः सन्ति सिद्धयः कदलीवने ।
अक्षैर्लिखितं द्वारे तत्र पद्मावतीबिलम् ॥ १११ ॥
सरसः पूर्वदिग्भागे योजनैकेन तिष्ठति ।
वमनं रेचनं कृत्वा प्रविशेत्तत्र साधकः ॥ ११२ ॥
धन्वन्तरं शतं यावद्गच्छेत्तत्र मृदङ्गकम् ।
दृष्ट्वा तं वादयेद्धीरः सम्यक्पद्मावती ततः ॥ ११३ ॥
आगत्य चामृतं दत्ते यत्पानादमरो भवेत् ।
ततस्तं प्रार्थयत्येव आगच्छ मम मन्दिरम् ॥ ११४ ॥
दिव्यं कन्यापञ्चशतं परिवारेण स्वीकुरु ।
अहं पत्नी भविष्यामि यावद्ब्रह्मा च जीवति ॥ ११५॥
१ 'प्रजेशत्वं' ख. ।

८.] रसरत्नाकरस्य रसायनखण्डः । ८१
तदन्ते परमं स्थानं गच्छामो नात्र संशयः ।
कदम्बेश्वरदेवस्तु आग्नेय्यां दिशि विद्यते ॥ ११६ ॥
तस्य पूर्वतटाकाग्रे स्थितो वृक्षः कदम्बकः ।
तस्य पत्राणि संगृह्य कटुतैलेन लेपयेत् ॥ ११७ ॥
तद्वृक्षबीजतैलैर्वा तत्काष्ठैः पाचयेत्सुधीः ।
मत्स्या भवन्ति ते सर्वे ताम्रपात्रे विनिक्षिपेत् ॥ ११८॥
कण्ठपुच्छशिरोवर्जं मध्वाज्याभ्यां तु भक्षयेत् ।
तत्क्षणाज्जायते सिद्धो रुद्रतुल्यो महाबलः ॥ ११९ ॥
नदीस्थाने च यो वृक्षो विद्यते कुण्डलेश्वरे ।
पूर्ववत्क्रमयोगेन सिद्धिः स्यान्नात्र संशयः ॥ १२० ॥
कपोतेश्वरदेवस्योत्तरे पुष्पगिरिः स्थितः ।
तस्य कुर्यात् प्रयत्नेन त्रिवारं तु प्रदक्षिणम् ॥ १२१ ॥
ततः शिरः समारुह्य खेचरत्वं लभेन्न

आयुर्वेदीयग्रन्थमाला । [उपदेशः
कपोतेश्वरदेवस्य वायव्ये हस्तमात्रकम् ।
खनेत्पारावतप्रख्याः पाषाणाः स्पर्शभेदकाः ॥ १२८ ॥
तिष्ठन्ति ग्राहयेदेकं देवताराधने कृते ।
मल्लिकार्जुनदेवस्य ऐशान्यां भृगुपातनम् ॥ १२९ ॥
विद्यते तत्समीपस्थं कुण्डं तस्मान्मृदाहरेत् ।
पञ्चगव्येन संमिश्रां खदिराङ्गारकैर्धमेत् ॥ १३० ॥
नीलोत्पलसमं लोहं पतत्येवाथ सेचयेत् ।
मध्वाज्याभ्यां सुतप्तं तत्सप्तवारं पुनः पुनः ॥ १३१ ॥
तद्गोलं धारयेद्वक्त्रे विष्णुतुल्यो भवेन्नरः ।
भृगुपातात् पूर्वभागे क्रोशोदधिकपाटके ॥ १३२॥
तस्याग्रे अच्छतैलाख्यः पर्वतो नाम विश्रुतः ।
तत्पश्चिमे बिलद्वारं तन्मध्ये धन्वपञ्चकम् ॥ १३३ ॥
गते तु दृश्यते कुण्डं रसो लाक्षारसप्रभः ।
अलाबुपात्रे संगृह्य कोटिवेधी भवेत्तु सः ॥ १३४ ॥
मल्लिकार्जुनदेवस्य पूर्वतो लोकविश्रुतः ।
प्राकारश्चन्द्रगुप्तस्य विद्यते तत्र मन्दिरम् ॥ १३५ ॥
तस्य पूर्वे स्थितश्चैत्यश्चैत्यपूर्वे महाशिला ।
मुद्वर्णा च सा ख्याता स्पर्शवेधकरा तु सा ॥ १३६॥
गजस्तत्रैव विख्यातस्तमारुह्य समाहितः ।
तस्य पृष्ठात्तृणं ग्राह्यं तत्सर्वं कनकं भवेत् ॥ १३७ ॥
गजस्य चोत्तरे पार्श्वे जानुमात्रं खनेद्ध्रुवम् ।
जम्बूफलसमाकाराः सन्ति ते स्पर्शवेधकाः ॥ १३८ ॥
गजस्याधः खनेद्वाऽथ जानुमात्रं लभेत्ततः ।
त्रिकोणगुटिकां सिद्धां लक्षवेधकरां पराम् ॥ १३९ ॥
श्रीशैलस्य तु वायव्ये तीर्थे देवह्रदः स्थितम् ।
तत्र कुण्डे मुद्वर्णाः पाषाणाः स्पर्शवेधकाः ॥ १४० ॥

८.] रसरत्नाकरस्य रसायनखण्डः । ८३
तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् ।
कृत्तिकायां सुपूर्णायां कृत्वा पूजां ममाहरेन् ॥ १४१ ॥
गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् ।
तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥ १४२ ॥
अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः ।
सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥ १४३ ॥
श्रीशैलस्य तु नैर्ऋत्ये नाम्ना गुण्डिग्रभा स्थिता ।
तस्याग्राद्रक्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥ १४४ ॥
तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः ।
तत्रैव अमराःस्युश्च पूर्ववत्फलदायकाः ॥ १४५ ॥
तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् ।
सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥ १४६ ॥
महानन्देश्वरं नाम श्रीशैलस्य तु नैर्ऋते ।
तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥ १४७ ॥
कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् ।
इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥ १४८ ॥
तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् ।
श्रीशैलस्य तु ईशाने देवः स्यात्तरलेश्वरः ॥ १४९ ॥
तस्योत्तरे सुविख्यातं उमापर्वत उत्तमः ।
तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥ १५० ॥
तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् ।
तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥ १५१ ॥
अतिथेश्च तथाऽग्नेश्च भागं भागं प्रकल्पयेत् ।
भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥ १५२ ॥
तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः ।
तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥ १५३ ॥

८४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
अचलेशश्च तत्रैव स्पर्शवेधकरः परः ।
दक्षिणे अचलेशस्य योजनैकेन विद्यते ॥ १५४ ॥
अमरेश्वरदेवाख्यस्तत्र स्वर्णशिला शुभा ।
तस्य पृष्ठे च गोमांसं महामांसं च वा क्षिपेत् ॥ १५५ ॥
प्रज्वाल्य बदरीकाष्ठैः प्रातः स्वर्णोपमा तु सा ।
दृश्यते रजसा स्त्रीणां भावितं वस्त्रखण्डकम् ॥ १५६ ॥
तच्छिलालोडितं कुर्याद्रक्षेद्लाबुपात्रके ।
तेन संस्पर्शमात्रेण लोहं भवति हाटकम् ॥ १५७ ॥
श्रीशैले तत्र तत्रैव पाषाणा पिण्डभूस्थिताः ।
तच्चूर्णं त्रिफलासार्धं कर्षैकं भक्षयेत्सदा ॥ १५८ ॥
मासार्धं तु जरां हन्ति जीवेदाचन्द्रतारकम् ।
नैर्ऋत्ये शैलराजस्य पटाहकर्ण ईश्वरः ॥ १५९ ॥
तस्य चेशानदिग्भागे पञ्चविंशतिधन्वके ।
द्विहस्तमात्रोर्ध्वशिला तत्र हस्तद्वयं खनेत् ॥ १६० ॥
शरावसंपुटसंकाशान् पाषाणांस्त्रिशदाहरेत् ।
कृत्वा तानग्निवर्णांश्च सिञ्चेत्कूष्माण्डजैर्द्रवैः ॥ १६१ ॥
तन्मध्यान्नवनीतं तु गृह्णाद्देवाय भागकम् ।
अतिथेर्भागमेकं तु भागैकं भक्षयेद्बुधः ॥ १६२ ॥
मूर्च्छा भवेद्दिवारात्रं प्रबुद्धो जायते नरः ।
जीवेद्वर्षायुतं वीरो वलीपलितवर्जितः ॥ १६३ ॥
तस्य देवस्य सोपानं द्वितीयं स्पर्शवेधकम् ।
तस्य देवस्य पार्श्वे तु पाषाणाः श्वेतपीतकाः ॥ १६४ ॥
सर्वस्पर्शा न संदेह एकमेव समाहरेत् ।
तस्य देवस्य पूर्वे तु कूपः स्यान्नातिदूरतः ॥ १६५ ॥
तन्मध्ये भेकसंकाशाः पाषाणाः स्पर्शवेधकाः ।
उत्तरे तस्य देवस्य विख्यातो लिङ्गपर्वतः ॥ १६६ ॥

८.] रसरत्नाकरस्य रसायनखण्डः । ८५
तस्य चोत्तरपार्श्वे तु नदी स्यात्पूर्ववाहिनी ।
नद्याः पश्चिमदिग्भागे लिङ्गं पिङ्गलवर्णकम् ॥ १६७ ॥
तत्र शैलोदकैः कुण्डं पूर्ण स्यात्क्षणवेधकम् ।
महेशाद्दक्षिणे भागे चण्डिका योजनद्वये ॥ १६८ ॥
पिण्डादेवीति विख्याता तस्या वायव्यकोणतः ।
कूपस्तिष्ठति तन्मध्ये पाषाणा मुद्रवर्णकाः ॥ १६९ ॥
तथा पथ्यानिभाश्चैव सर्वे ते स्पर्शवेधकाः ।
स्पर्शनादत्र सर्वेषां वेधयुक्तिर्विधीयते ॥ १७० ॥
स्थूलश्वेत्पेषयेच्छ्लक्ष्णं तेन मूषां तु कारयेत् ।
अष्टलोहानि तन्मध्ये समावर्त्यानि कारयेत् ॥ १७१ ॥
तत्सर्वं जायते स्वर्णमेवं कुर्याद्यथेप्सितम् ।
सूक्ष्मंश्वेदष्टलोहानां द्रुतानां यत्र कुत्रचित् ॥ १७२ ॥
तं सर्वं निक्षिपेन्मध्ये सर्वं तत्काञ्चनं भवेत् ।
मल्लिकार्जुनवायव्ये तीर्थं सर्वेश्वरं स्थितम् ॥ १७३ ॥
तस्य दक्षिणदिग्भागे जलमार्गेऽर्धयोजने ।
गते डाङ्गरिकं तत्र दृश्यते तस्य मूर्धनि ॥ १७४ ॥
धात्रीफलानि कृष्णानि विद्यन्ते तानि भक्षयेत् ।
यथेष्टानि तु सप्ताहं वज्रकायो भवेन्नरः ॥ १७५ ॥
वलीपलितनिर्मुक्तो जीवेत्कल्पशतत्रयम् ।
तस्माच्च दक्षिणे भागे काकलेरीमहानवम् ॥ १७६ ॥
तत्रास्ति स्तम्भकदली प्रविशेत्तत्र साधकः ।
गच्छेत्क्रोशार्धमात्रं तु दृश्यते रसकुण्डकम् ॥ १७७ ॥
गृहीत्वाऽलाबुपात्रे तु कोटिवेधी भवेद्रसः ।
तस्मिन् वने मयूरः स्यान्नीलवर्णशिलामयः ॥ १७८ ॥
मुखाग्रे तस्य कुण्डं तु द्वादशाङ्गुलनीलकम् ।
तन्मध्ये शुष्कवंशं तु क्षिप्त्वा स्यान्नूतनः क्षणात्॥१७९॥
८

८६ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
दिने पत्रं फलं पुष्पं जायते तस्य नान्यथा ।
तत्र पारदप्रस्थैकं क्षित्वा तावज्जलं हरेत् ॥ १८० ॥
क्षौद्रतुल्यं पिवेत्तं वै तत्क्षणान्मूर्च्छितो भवेत् ।
मुहूर्त्ताल्लब्धराज्यः स्याज्जीवेद्युगसहस्रकम् ॥ १८१ ॥
शैलस्याग्नेयभागे तु गुटिकासिद्धिकेश्वरः ।
विद्यते तस्य पुरतः पञ्चहस्तां खनेद्ध्रुवम् ॥ १८२ ॥
पाषाणा बदराकाराः सन्ति खेगतिदायकाः ।
एकमेव समाहृत्य वक्त्रे धार्यः खगामिभिः ॥ १८३ ॥
श्रीशैले सर्वयोगानामुक्तानां विधिरुच्यते ।
मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेदनु ॥ १८४ ॥
अघोरं तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् ।
क्षेत्रदेवतामावाहयेत् । तत्र खस्थे देवता प्रत्यक्षीभूय वरं ददाति।
एवं मन्त्रपरैः सुनिश्चलतरैर्भक्तैश्च तत्साधकैः
शम्भोः पूजनतत्परैः प्रतिदिनं पूजाविधेः पालकैः ।
कार्यं श्रीगिरिसाधनं जपपरैराम्नायपारंगतै-
र्नो चेत्क्लेशकरं पराकृतमहो व्यर्थं भवेन्निश्चितम् ॥१८५॥
इति श्रीपार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे
श्रीपर्वतसाधनं नामाष्टमोपदेशः ॥
समाप्तोऽयं रसायनखण्डः ।
१ श्रीशैलपर्वतस्तु दक्षिणभारते कर्णाटकदेशे वर्तते ।

रसायनखण्डपाठसंशोधनम् ।
——————
अपपाठः \qquad\qquad सुपाठः \qquad\qquad पृ० \quad पं०
दिनावधिः \qquad\qquad दिनावधि \qquad\qquad १५ \quad १
ब्रह्मीयुगंच्छति \qquad\qquad ब्रह्मायुर्गच्छति \qquad\qquad २० \quad २२
द्वन्द्वमूषायां लिप्तायां \qquad\qquad द्वन्द्वलिप्तायां मूषायां \qquad\qquad २८ \quad ७
'श्रीनित्यसिद्धनाथ' \qquad\qquad 'नित्यनाथसिद्ध' \qquad\qquad ४८ \quad २६
१ 'बलकरं' ख. । \qquad\qquad १ 'बलकरं परमं' ख. । \qquad\qquad ४९ \quad २५
'भिदामूत्रेण (?) वेष्टयेन् \qquad\qquad 'भिदामूत्रेण मर्दयेन् \qquad\qquad ५० \quad २३
गौरामलकचूर्णं \qquad\qquad गौर्यामलकचूर्णं \qquad\qquad ५५ \quad ७
शुद्धसतसमं \qquad\qquad शुद्धमूतसमं \qquad\qquad ५७ \quad ६
तद्घृतैर्यटकं \qquad\qquad घृतैस्तद्घटकं \qquad\qquad ६२ \quad २२
मदनानन्दमोदकः \qquad\qquad कामेश्वरमोदकः \qquad\qquad ६३ \quad ९
विदारि मुशली गोकण्टकेक्षुरकौ \qquad\qquad विदारिमुशलीगोकण्टकेक्षुरकं \qquad\qquad ,, \quad ११
जैसलमेरोः पत्तने \qquad\qquad पश्चिमसमुद्रस्य तटे \qquad\qquad ६८ \quad ४
स्पृष्टुं \qquad\qquad स्प्रष्टुं \qquad\qquad ७२ \quad १६
तेन \qquad\qquad तस्य \qquad\qquad ७३ \quad २
॰स्त्वानि तिष्ठन्ति \qquad\qquad ॰स्तिष्ठन्ति तांस्तु \qquad\qquad ,, \quad १८
धार्यतां \qquad\qquad धारय \qquad\qquad ७८ \quad २५
सुझते \qquad\qquad मुञ्चसे \qquad\qquad ,, \quad २६
१ ख-पुस्तके पाठान्तरं, युक्तं चैतत्; अस्मन्मित्रैः वैद्य धीरजराम करुणाशङ्कर
इत्येतैर्भावनगराधिपतीनामाज्ञया कराचीबन्दर इति प्रसिद्धनगरात् पश्चिमतः पञ्चाशन्मै-
लदूरस्थितात् गुवादर इत्याख्यस्थानात् समुद्रतीरात् आनीताः खलु वालुकामीनाः।