सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 90, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 90

८.] रसरत्नाकरस्य रसायनखण्डः । ८३
तत्र कूर्मोपमं लिङ्गं स्पर्शवेधकरं परम् ।
कृत्तिकायां सुपूर्णायां कृत्वा पूजां ममाहरेन् ॥ १४१ ॥
गव्यूतिद्वयतस्तस्मान्नाम्ना नीलवनं स्मृतम् ।
तत्र लिङ्गं नीलवर्णं जलं चैव तु तादृशम् ॥ १४२ ॥
अश्वाभ्रकाकसदृशाः पाषाणाः स्पर्शवेधकाः ।
सन्ति देवगृहस्यान्तः खनेज्जान्वन्तराद्धरेत् ॥ १४३ ॥
श्रीशैलस्य तु नैर्ऋत्ये नाम्ना गुण्डिग्रभा स्थिता ।
तस्याग्राद्रक्तमृद्ग्राह्या पीतवर्णा पुटैर्दहेत् ॥ १४४ ॥
तस्मान्निःसरते हेम स्फुरद्रूपं न संशयः ।
तत्रैव अमराःस्युश्च पूर्ववत्फलदायकाः ॥ १४५ ॥
तथा तम्बीपुरे नाम्नि तीर्थे च विपुले शुभम् ।
सदाफलं तु विख्यातं पूर्ववत्साधयेत्सुधीः ॥ १४६ ॥
महानन्देश्वरं नाम श्रीशैलस्य तु नैर्ऋते ।
तस्य पूर्वोत्तरे पार्श्वे गच्छेद्राजपथेन तु ॥ १४७ ॥
कालवर्णेश्वरो नाम देवस्तस्याग्रकुण्डकम् ।
इन्द्रगोपकसंकाशस्तन्मध्ये विद्यते रसः ॥ १४८ ॥
तप्तानि सप्तलोहानि तत्सेकात्काञ्चनं भवेत् ।
श्रीशैलस्य तु ईशाने देवः स्यात्तरलेश्वरः ॥ १४९ ॥
तस्योत्तरे सुविख्यातं उमापर्वत उत्तमः ।
तस्य मूर्ध्नि त्रिशूलाभा दर्भास्तिष्ठन्ति शोभनाः ॥ १५० ॥
तस्याधः कटिमात्रं तु खात्वा नीलां मृदं हरेत् ।
तां पचेदक्षजैः काष्ठैर्भागं देवाय कल्पयेत् ॥ १५१ ॥
अतिथेश्च तथाऽग्नेश्च भागं भागं प्रकल्पयेत् ।
भागमात्मनि भुञ्जीत जीवेत्कल्पायुतं नरः ॥ १५२ ॥
तत्र कोटीश्वरं ख्यातमिलेश्वरसमीपतः ।
तस्याग्रे पुष्पमात्रं तु स्पर्शवेधकरं भवेत् ॥ १५३ ॥