रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 352, कुल 414 में से
संदर्भ में पढ़ें३२० रसगङ्गाधरः
उदाहरणम्—
भास्करसूनावस्तं याते, जाते च पाण्डवोत्कर्षे ।
दुर्योधनस्य जीवित ! कथमिव नाद्यापि निर्यासि ॥
अत्र स्वापकर्ष-परोत्कर्षयोर्दर्शनं विभावः । जीवितनिर्याणाशंसा तदा-
क्षिप्तं वदन-नमनादि चानुभावः ।
अस्मिन्नेव च विषादध्वनौ दुर्योधनस्येत्यर्थान्तरसंक्रमितवाच्यध्वनिरनु-
ग्राहकः । न चात्र त्रासभावध्वनित्वं शंक्यम्, परवीरस्य दुर्योधनस्य त्रासलेश-
स्याप्ययोगात् । नापि चिन्ताध्वनित्वम्, युद्ध्वा मरिष्यामीति तस्य व्यवसायात् ।
नापि दैन्यध्वनित्वम्, सकलसैन्यक्षयेऽपि - विपदस्तेनागणनात् । न वा वीररस-
ध्वनित्वम्, मरणस्य शरणीकरणे परापकर्षजीवितस्योत्साहस्याभावात् ।
राज-गुरु-राष्ट्रादिकान् प्रति कृतेऽपराधे च स्वात्मनि जायमानोऽनुतापः सन्तापः, स एव
विषादसंज्ञको भाव उच्यते । यथा—
भास्करेति । कर्णे मृते निराशस्य दुर्योधनस्य स्वजीवनं प्रति उक्तिरियम् ।
भास्करसूनौ सूर्यपुत्रे अनुपमप्रतापशालिनि कर्णे अस्तं याते मृते सति, तदनन्तरं पाण्डवो-
त्कर्षे पाण्डवानां युधिष्ठिरादीनां वैरिणाम् उत्कर्षे च जाते, हे दुर्योधनस्य जीवित !
अतुलपराक्रमस्य कर्णैकप्राणस्य मम जीवन ! अद्यापि स्वकीयसर्वनाशे शत्रुदलोत्कर्षे च
जाते इदानीमपि कथमिव कथं खलु न निर्यासि निर्गच्छसि ? अवश्यनिर्गन्तव्यस्य तवाव-
स्थानं नोचितमिति भावः ।
निर्याणाशंसा प्रयाणेच्छा, तदिच्छासमये वदननमनवैवर्ण्यादिकं स्वभावसिद्ध-
मनुक्तमपि आक्षेपलभ्यम् ।
अर्थान्तरसंक्रमितेति । दुर्योधनः स्वयं वक्ता । ‘ममेति’ वक्तव्ये ‘दुर्योधनस्ये’ति
पदं साभिप्रायं प्रयुंक्ते । तेन तस्य तत्तद्गुणवत्त्वं लक्ष्यते—अतुलप्रताप-पराक्रमादियुक्तः
कर्णैकप्राणः, प्रधर्षित-पाण्डव इत्यादि । तेन दुर्योधनशब्दोऽत्र अर्थान्तरे संक्रिमितः । परन्तु
उदाहरण—
कर्ण के मर जाने पर निराश दुर्योधन की अपने जीवन के प्रति यह उक्ति है—
हें दुर्योधन के प्राण ! तुम सूर्यपुत्र कर्ण के अस्त हो जाने ( मर जाने ) पर और पाण्डवों
की उन्नति हो जाने पर भी अभी तक क्यों नहीं निकल जाते हो ?
यहाँ अपनी अवनति और शत्रु की उन्नति देखना विभाव है और प्राण निकल
जाने की इच्छा तथा उसके द्वारा आक्षेपलभ्य सिर झुकाना आदि अनुभाव हैं ।
इसी विषाद ध्वनि में 'दुर्योधनस्य' इस पद से प्राप्त अर्थान्तरसंक्रमितवाच्य-
ध्वनि सहायक है । इस उदाहृत पद्य का वक्ता स्वयं दुर्योधन ही है। वह 'मम' ( मेरा )
कहने के स्थान में 'दुर्योधनस्य' पद का साभिप्राय प्रयोग करता है, जिससे अतिप्रतापी,