सामग्री पर जाएँ
सर्वकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 1027, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 1027

संख्या १ रामोपासना १५३
“मत्वेवं वादयेद् वाद्यान्यर्घ्यं दद्याज्जगत्पतेः ।
फलपुष्पाम्बुसम्पूर्णं गृहीत्वा शङ्खमुज्ज्वलम् ॥
अशोकचूतकुसुमैर्युक्तं च तुलसीदलैः ।
गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितोऽनघ ॥”
इत्यर्घ्यमन्त्रः ।
“पुनः पुष्पाञ्जलिं दत्त्वा प्रतियाममतन्द्रितोऽर्चयेत् ।”
अथ दशमीकृत्यम्—दशम्यां स्नात्वा सन्ध्यादिकं कृत्वा श्रीरामं यथाविधि सम्पूज्य साज्येन पायसेनाष्टोत्तर-
शतं मन्त्रैर्हुत्वा आचार्यं भक्त्या सन्तोष्य रत्नकुण्डलाङ्गुलीयकादिभिः पूजयेत् । ततः—
“इमां स्वर्णमयीं रामप्रतिमां समलङ्कृताम् ।
चित्रवस्त्रयुगच्छन्नां रामोऽहं राघवाय ते ॥
श्रीरामप्रीतये दास्ये तुष्टो भवतु राघवः ।”
इति प्रतिमां दत्त्वा भुवं दद्यात् । अन्येभ्योऽपि यथान्यायं गोहिरण्यादिकं दद्यात् । वासोयुगं धान्यं यथा-
विभवं दत्त्वा ब्राह्मणैः सह भुञ्जीत । तेभ्यो दक्षिणां दद्यात् । अथ पारणासङ्कल्पः—
‘तव प्रसादस्वीकारः कृतं यत्पारणं मया ।
व्रतेनानेन सन्तुष्टः स्वामिन् भक्तिं प्रयच्छ मे ॥
कृत्वैवं ब्रह्महत्यादिपापेभ्यो मुच्यते ध्रुवम् ।
बहुना किमिहोक्तेन मुक्तिस्तस्य करे स्थिता ॥
कुरुक्षेत्रे महापुण्ये सूर्यपर्वण्यनेकंशः ।
तुलापुरुषदानाद्यैः कृतैर्यल्लभ्यते फलम् ॥
तत्फलं लभते मर्त्यो दानेनानेन सुव्रत ।”
अथाकिञ्चनव्रतम्— “अकिंचनोऽपि नियतमुपोष्य नवमीदिने ।
कृत्वा जागरणं भक्त्या रामभक्तैः समन्वितः ॥
स्मरन् रामं धिया भक्त्या पूजयेत् विधिवन्मुने ।”
शक्तावुद्यापनमपि कर्तव्यम् । अशक्तौ तु—
“वर्षे वर्षेऽसमर्थस्य व्रतेनैव प्रपूर्णता ।
न तस्योद्यापनं किञ्चिद् व्रतादन्यद् विधीयते ॥
सर्वव्रतस्य पूत्यर्थमिदं रामव्रतं चरेत् ।
नान्येनास्याब्धिवत्पूर्तिरनेनैवास्य पूर्णता ॥”
अथ चैत्रद्वादश्यां दमनकोत्सवः—प्रातः स्नात्वा देवेशं समभ्यर्च्य—
“गच्छेद् दमनकाराममेकादश्यां सुशोभितम् ।
क्रमेणादाय तत्रैव पूजयेच्चन्दनादिना ॥
नेष्यामि रामपूजार्थमिति सम्प्रार्थ्य तं नमेत् ।
उत्पाट्य पञ्चगव्येन प्रोक्ष्य प्रक्षाल्य वारिणा ॥