रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1028, कुल 1049 में से
संदर्भ में पढ़ें९५४ रामायणमीमांसा परिशिष्ट
अशोकमूले गन्धाद्यैः स्थण्डिले पूजयेत् क्रमात् ।
अशोकं च तथा कालं वसन्तं काममेव च ॥
ॐ अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशन ।
शोकार्ती हर मे नित्यमानन्दं जनयस्व मे ॥
त्रुट्यादिकालपर्यन्तः कालरूपी महाबलः ।
फलते चैव यः सर्वं तस्मै कालात्मने नमः ॥
वसन्ताय नमस्तुभ्यं वृक्षगुल्मलताप्रिय ।
सहस्रमुखसंवाह कामरूप नमोऽस्तु ते ॥
कामभस्मसमुद्भूत रतिबाष्पपरिप्लुत ।
ऋषिगन्धर्वदेवाविविमोहक नमोऽस्तु ते ॥
सङ्गृह्य दमनं पुण्यं पूजयेन्मनुनाऽमुना ।
नमोऽस्तु पुष्पबाणाय जगदाह्लादकारिणे ॥
मन्मथाय जगन्नेत्रे रतिप्रीतिप्रियाय ते ।”
अनेन मन्त्रेण दमनकमुपस्थाय परिवारसमन्वितं कामरूपिणं दमनकं पूजयित्वा धोतेन वाससाच्छाद्य घण्टा-
पुरुषसूक्तादिभिः स्वगृहमानयेत् । ततो निशायां श्रीरामस्याग्रे सर्वतोभद्रं निर्माय तत्र कुम्भं संस्थाप्य पुण्यैनाम्बुनाऽऽपूर्य
तत्र पूजयेत् । पञ्चवर्णोढ्यवितानमारोप्य महतीं पूजां कृत्वा तदधिवासनं कुर्यात् । ‘दमन त्वमिहागच्छ सान्निध्यं
कुरु ते नमः ।’ इत्यावाह्य (१) क्लीं कामदेवाय नमः (२) श्रीं ह्रीं रत्यै नमः (३) ॐ मन्मथाय रामाय क्लीं
वसन्तसखाय च । स्मराय चेक्षुचापाय पुष्पास्त्रायेति पूजयेत् । ॐ तत्स्वरूपाय विद्महे कामदेवाय धीमहि । तन्नोऽनङ्गः
प्रचोदयात् । इत्यादिभिः सम्पूज्य प्रातस्तुभ्यं दमनकं निवेदयिष्यामीति भगवन्तमामन्त्र्य प्रातर्भगवन्तं सम्पूज्य ।
“देवदेव जगन्नाथ वाञ्छितार्थप्रदायक ।
हृदिस्थान् पूरयेः कामान् मम कामेश्वरप्रिय ॥
इमं दमनकं देव गृहाण मदनुग्रहात् ।
वनमालां यथा देव कौस्तुभं सततं हृदि ॥
तद्वद् दामनकं मालं पूजां च हृदये वह ।”
इति चैत्रकृत्यम्
अथ वैशाखज्येष्ठयोः कृत्यम्—वैशाखे ज्येष्ठे च द्वादश्यां स्वर्णरौप्यादिपात्रे तोयस्थं हरिं पूजयेत् ।
अथाषाढकृत्यम् “आषाढ़शुक्लद्वादश्यां क्षीराब्धिशयनोत्सवः ।
कार्योऽन्यथा त्वनावृष्टिर्भवेत्पौराणिकवाक्यतः ॥”
अथ रामशयनविधिः—गीतवादित्रादिघोषेण शिविकया देवं जलाशयं नीत्वा पुष्पाञ्जलिं दत्त्वा पुरुष-
सूक्तादिभिः सम्पूज्य देवं तत्र तोरणाद्यलङ्कृतायां नावि शेषपर्यङ्के फणामणिगणामले स्वापयेत् ।
विविधोपचारैः सम्पूज्य—
“सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् ।
विबुद्धे च विबुध्येत प्रसन्नो मे भवाव्यय ॥”
इति प्रार्थयेत