सामग्री पर जाएँ
सर्वकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 1026, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 1026

९५२ रामायणमीमांसा परिशिष्ट
इत्युपवासनियमं गृह्णीयात् । स्वगृह्योत्तरभागे चतुर्द्वारं सुवितानं सुतोरणं मनोरमं महोत्सेधं पुष्पाद्यैः समलङ्कृतं
मण्डपं कारयेत् ।
“शङ्खचक्रहनूमद्भिः प्राग्द्वारे समलङ्कृतम् ।
गरुत्मच्छाङ्गिबाणैश्च दक्षिणे समलङ्कृतम् ।।
पद्मस्वस्तिकनीलैश्च कौबेरे समलङ्कृतम् ।
गदाखड्गाङ्गदैश्चैव पश्चिमे समलङ्कृतम् ।।
मध्ये हस्तचतुष्काढ्यं वेदिकायुक्तमायतम् ।
प्रविश्य नृत्यगीतैश्च वाद्यैश्चापि सुसंयुतम् ॥”
एवं मण्डपं प्रविश्य श्रीरामं स्मरन्नुपोष्य अष्टासु यामेषु यथाविधि पूजयित्वा इमां स्वर्णमयीं प्रतिमां
श्रीरामप्रीतये रामभक्ताय दास्ये । तेन—
“प्रीतो रामो हरत्वाशु पापानि सुबहूनि मे ।
अनेकजन्मसंसिद्धान्यभ्यस्तानि महान्ति च ॥”
इति त्रिरुच्चार्य सङ्कल्प्य
“कोमलाङ्गं विशालाक्षमिन्द्रनीलसमप्रभम् ।
दक्षिणाङ्गे दशरथं पुत्रस्येक्षणतत्परम् ।।
पृष्ठतो लक्ष्मणं देवं सच्छत्रं कनकप्रभम् ।
पार्श्वे भरतशत्रुघ्नौ तालवृन्तकरावुभौ ।।
अग्रेऽव्यग्रं हनूमन्तं रामानुग्रहकाङ्क्षिणम् ।
वित्तशाठ्यमकृत्वैव मूर्तिं कुर्यात् प्रयत्नतः ।।''
अथ पूजा—आसनोपरि संविश्य न्यासजालं विधाय शङ्खं कलशं सम्पूज्य पूजाद्रव्याणि आत्मानं च मन्त्र-
मुच्चरन् पाणिना प्रोक्षयेत् । ततः सर्वतोभद्रं निर्माय प्रथमयामपूजामारभेत । तत्प्रकारो यथा—सर्वतोभद्रमध्ये तीर्थोदकैः
पूर्णं रत्नोदरं शुभं कुम्भं चूतपल्लवपुष्पैः संयुक्तं संस्थाप्य सौवर्णादिपत्रे यन्त्रमालिखेत् । कलशोपरि वस्त्रयुगच्छन्नं यन्त्रं
स्थापयित्वा तत्र दिव्यसिंहासनं स्थापयित्वा अर्चयेत् । आवाहनादिमुद्राभिर्देवमावाह्य सम्पूज्य नानारत्नविचित्राणि
भूषणानि दद्यात् । यक्षकर्दमादिभिर्गन्धैः कह्लारकेतकीजातीपुन्नागादिपुष्पैः पूजयेत् ।
अथ कौशल्यापूजा— “रामस्य जननी चासि रामात्मकमिदं जगत् ।
अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ॥”
दशरथपूजा— “नमो दशरथायेति पूजयेत् पितरं तथा ।”
तत आवरणक्रमेण पीठदेवताः पूजयेत् । तद्यथा—
“ततोऽनुज्ञाप्य देवेशं परिवारान् समर्च्चयेत् ।
पूर्वषट्कोणकोणेषु हृदयादीनि षट् क्रमात् ॥”
एवमनुज्ञां गृहीत्वा सपरिवारं देवं पूजयेत् । द्वितीये यामे मध्याह्ने जन्म भावयेत् । उच्चस्थे ग्रहपञ्चके
सुरगुरौ सेन्दौ नवम्यां मधौ लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि । निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्या-
रणेराविर्भूतमभूतपूर्वविभवं यत्किञ्चिदेकं महः ।