सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

९०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
इति गौपवनश्रुतिः ॥ ५९ ॥
—-::-—
३८. अधिकरणम् ॥
( १ ) सू—ॐ ॥ नाना शब्दादिभेदात् ॥ ॐ ॥ ६० ॥
शब्दोऽनुमा तथैवाक्षो योग्यताभेदतस्सदा ।
ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥
अतः पूर्णत्वमीशस्य नानैवैषां प्रदृश्यते ।
अतः फलस्य नानात्वं नानैवोपासना यतः ॥
त्यर्थोऽभिमतः । स च सूत्राक्षराणां बह्वर्थत्वाभिप्रायेण तट्टीकायामु
क्तः ॥ ३७ ॥
॥ इति भूमाधिकरणम् ॥
—
—
३८. अधिकरणम् ॥
( १ ) अत्राधिकरणेऽधिकारिणां भूमगुणस्य नानाप्रकारेण प्रती-
तिः समर्थ्यते भूमत्वे विशेषकल्पनायोगाद्भूमगुणः सर्वेषामेकप्रकारे-
णैव प्रतीयत इति प्राप्ते सिद्धान्तयितुं सूत्रं पठति—नानेति ॥ अत्र भू-
म्न इत्येतत् प्रथमान्ततया विपरिणम्यानुवर्तते । नानेति भावप्रधानम्,
नानात्वेनेति । उपास्यते इति शेषः । एवं च प्रतिज्ञावाक्यसिद्धौ तत्र हे-
तुरुक्तः—शब्दादिभेदादिति । भूमगुणप्रत्यायकैः शब्दानुमाप्रत्यक्षप्र-
माणैः अधिकारियोग्यताभेदात् भूम्नो नानारूपेण प्रतीतेरिति तदर्थ
इति भावेन अस्मिन्नर्थे प्रमाणोदाहरणपूर्वकं सूत्रं व्याचष्टे—शब्देति ।
प्रथमं तत्त्वनिर्णयोऽथ वेदार्थनियमोऽथापरोक्षज्ञानमिति कार्यक्रमानु-
सारेण स्मृतौ शब्दादीनां क्रमेण निर्देशः । एवं सूत्रेऽपि । शब्दः आग-
मः । अक्षः प्रत्यक्षम् । तथाशब्दः समुच्चये । आहत्यैते 'योग्यताभेदा-
त्' योग्यताविशेषात्सदा ब्रह्मादीनामेकैक मर्थं पूर्णत्वादिरूपं 'बहुधा'
अवान्तरविशेषवत्त्वेन 'दर्शयन्ति' ज्ञापयन्ति 'हि' यतोऽतः 'एषां'
ब्रह्मादीनामीशस्य पूर्णत्वं नानैव 'प्रदृश्यते' प्रतीयते उपासनकाले ।
यतः नानाप्रदृश्यतेऽतो नानाप्रकारेणैव पूर्णत्वोपासनं भवेत् । यतो ना-
नोपासनमतः फलस्य 'नानात्वं' तारतम्यमुपपद्यत इति योजना ।
न चोपास्यभूमत्वप्रतीतेः शब्दानुमानसाध्यत्वेऽपि कथं प्रत्यक्षसाध्य

[ अधि - ३९. - सू - ६१. ] दीपिकासहितम्. ९०९
इति ब्रह्मतर्के । अतो भूमत्वमपि नानैवोपास्यते ॥ ६० ॥
----------------- 𑁍 -----------------
३९. अधिकरणम् ॥
(१) सू—ॐ ॥ विकल्पो विशिष्टफलत्वात् ॥ ॐ ॥ ६१ ॥
स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्य चिदुपा
त्वमिति वाच्यम् । योगिनां मनसाऽपि तत्प्रतीतिसम्भवेन तस्यास्त्रित
यसाध्यत्वोपपत्तेः । ब्रह्मतर्क इत्यस्य यतः शब्दादिभेदान्नाना प्रतीयते
भूमत्वमतो नानैवोपास्यतेऽपीत्युक्तमित्यन्वयः । न केवलं नाना प्रतीय
तेऽपि तु नानैवोपास्यतेऽपीति सिद्धमित्यन्वयः । नानैवोपास्यतेऽपि ना
नैव फलप्रदमपीत्यपेरर्थः । न च भूमत्वविशेषानुपपत्तिः । अतीतवत्स
राणां मासानां चानन्त्ये समेऽपि वत्सरानन्त्यान्मासानन्त्ये विशेषव
त् अधिकारियोग्यताविशेषात् प्रतीते । पूर्णत्वेऽपि विशेषसम्भवादि
ति भावः ॥ ३८ ॥
॥ इति नानाशब्दाधिकरणम् ॥
----------------- * -----------------
३९. अधिकरणम् ॥
( १ ) अत्र नये बिम्बातिरिक्तरूपोपासनस्याकर्तव्यता निरस्यते ।
स्वयोग्यरूपातिरिक्तरूपविशेषविषयमुपासनं मुमुक्षुणा न कर्तव्यम्,
मोक्षानुपयुक्तत्वात् । प्रत्युतक्रियमाणमपि तदुपासनं स्वयोग्योपास
नविघ्नायैव भवेदिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य सामान्योपासन
स्येति पदाध्याहारेण व्याचष्टे—विकल्प इति ॥ अपिः समुच्चये । त
था च न केवलं स्वयोग्यस्य, किन्तु तदतिरिक्तस्य ‘ सामान्यस्य ’ वै
ष्णवत्वेन बिम्बसमानतया वर्तमानस्य कस्यचित् नृसिंहरामकृष्णा
दिरूपविशेषस्याप्युपासनं स्वयोग्योपासनानन्तरं मुमुक्षोः ‘ विशिष्टफ
लापेक्षया ’ उत्तमफलापेक्षया ज्ञानादिप्रतिबन्धकदुरितविशेषनिवृ
त्तिलक्षणमोक्षोपयोगिफलेच्छया निमित्तभूतया ‘ विकल्पेनैव भवति ’
प्रकारद्वयोपेतमेव न तु एकप्रकारोपेतमिति योजना । स्वयोग्योपास
नानन्तरमिति सामान्योपासनस्य मोक्षार्थोपासनानन्तरभावित्वकथने
न प्रत्युतेत्युक्तदोषो निरस्तः । सूत्रे विशिष्टफलत्वादित्यनेन विकल्पे
निमित्तं सूचितम् । तदपेक्षोपलक्षकत्या विवृतं—विशिष्टफलापेक्षये
ति । ते न मोक्षानुपयुक्तत्वादिति दोषो निरस्तः । अनेन मुमुक्षोः वि

९१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
सनं विकल्पेन भवति विशिष्टफलापेक्षया ।
(२) मुक्त्यर्थमात्मयोग्यं हि कार्यमेव ह्युपासनम् ।
नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये ॥
उपासते यथायोगं न वा फलविभेदतः ।
इति ब्रह्मतर्के ॥ ६१ ॥
——
शिष्टफलत्वादिति बहुव्रीहिः । इच्छोपलक्षकमेतत् । ल्यब्लोपनिमित्ता
पञ्चमी, विशिष्टफलापेक्षत्वमपेक्ष्येति भावेन विशिष्टफलापेक्षयेत्याह ।
विशिष्टफलापेक्षया सामान्योपासनस्य कर्तव्यतायां यस्य मुमुक्षोः दु-
रितमस्ति तन्निवृत्तिरूपविशिष्टफलापेक्षा चास्ति तेन कर्तव्यम् । य-
स्य तु मुमुक्षोर्न दुरितमस्ति तत्सत्त्वे वा स्वयोग्यतीव्रोपासनेनैव दु-
रितादिनिवृत्तिसिद्धेस्तदनिच्छा तेन न कर्तव्यमिति । अत एव न वै-
फल्यदोषः ॥
(२) अत्रार्थे स्मृतिमाह—मुक्त्यर्थमिति ॥ 'आत्मयोग्यं' स्वयो-
ग्यरूपविषयकमुपासनं यतो मुक्त्यर्थं 'हि' प्रसिद्धं, अतः कार्यमेवेत्य-
र्थः । नृसिंहादिकमन्यच्चेति विशेषणविशेष्यभावः । रूपमिति शेषः ।
चः समुच्चये । दुरितं दुरदृष्टम् । प्रथमादिशब्देन कृष्णरामहयशीर्षादि
वैष्णवरूपं गृह्यते । द्वितीयेन अज्ञानमिथ्याज्ञानकामक्रोधादि । 'यथा-
योगं' यथायोग्यमुपासते मुमुक्षव इति शेषः । केचित् नरसिंहादिरू-
पं नैवोपासत इति । उपास्यत इति पाठे तु मुमुक्षुभिरिति शेषः । कु-
तो विकल्पः ? 'फलविभेदतः' दुरितादिनिवृत्तिरूपफलविशेषाकांक्षा-
भावात् । यद्वा—स्वयोग्योपासनाफलात् नृसिंहाद्युपासनाफलस्य
भिन्नत्वात् भेदात् भेदमपेक्ष्येत्यर्थः । केषां चित्तीव्रस्वयोग्योपासनादे-
व दुरितादिनिवृत्तिरूपफलसिद्धेर्न तदपेक्षेति भावः । यद्यपि नृसिं-
हादिकमपि केषां चित्स्वयोग्यं रूपं, तथाऽपि तदतिरिक्ताधिकारिणां
तत्सामान्यं, तेषामेव सामान्योपासने विकल्प उक्त इति न कुचोद्या-
वकाशः । ब्रह्मतर्के उक्तत्वादिति शेषः । अस्य विकल्पेन भवतीति पू-
र्वोक्तेनान्वयः ॥ ३९ ॥
॥ इति विकल्पाधिकरणम् ॥
—
**—

[ अधि - ४०. सू - ६२. ] दीपिकासहितम्. ९११
४०. अधिकरणम् ॥
( १ ) सू—ॐ ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्व
हेत्वभावात् ॥ ॐ ॥ ६२ ॥
( २ ) यस्य यस्य हि यः कामः तस्य तस्य ह्युपासनम् ।
४०. अधिकरणम् ॥
( १ ) अत्राधिकरणे ज्ञानसाधनोपासनस्यैव आवश्यकत्वं, न का-
मसाधनभगवद्रूपगुणविषयोपासनस्येति समर्थ्यते । ज्ञानसाधनार्था-
दिसाधनत्वेन पूर्ववन्मोक्षोपयोगिफलत्वान्न काम्योपासनमवश्यं कर्त-
व्यमिति प्राप्ते सिद्धान्तयत्सूत्रं पठति—काम्या इति ॥ तुशब्दो नृसिं-
हाद्युपासनादस्य विशेषद्योतकोऽवधारणे च । इतिशब्दोऽध्याहार्यः ।
विकल्प इत्यनुवर्तते । अत्र कामशब्दो घञन्तः काम्यपरः । कामस्येदं
रूपं काम्यं, कामस्येमे गुणाः—
वसुपूर्णकरं रत्नपर्वतस्थं विभावयन् ।
वसुसिद्धिमवाप्नोति ॥
इत्युक्ताः काम्याः । षष्ठ्यर्थसम्बन्धश्च साध्यसाधनभाव इति केचित्।
वस्तुतस्तु काम्यत इति काम्यं रूपं, काम्यन्त इति काम्या गुणा इति
विग्रहः । रूपगुणयोः काम्यसाधनत्वात्काम्यत्वम् । तथा च ‘काम्या
स्तु’ काम्यसाधनरूपे श्रीकरादौ कामसाधनभगवद्गुणास्तु ‘यथाका-
मं’ स्वस्ववित्तादिकामं मोक्षादिकामं वाऽनतिक्रम्य तदनुसारेण ‘स-
मुच्चीयेरन्’ उपसंहियेरन् । न वा विषयलम्पटैरमुमुक्षुभिरुपसंहर्त-
व्याः, तद्रहितैर्मुमुक्षुभिस्तु नोपसंहर्तव्या इति व्यवस्थितविकल्प एव
स्यात्, न तु नियतिः । मुमुक्षुभिर्नेति कुतः ? ‘पूर्वहेत्वभावात्’ मुमु-
क्षातः पूर्वकालीनो यो वित्तादिकामाख्यो हेतुस्तदभावात् । यद्वा—मुमु-
क्षुभिरेव यथाकाममिच्छारूपेश्वरप्रसादम नतिक्रम्य तदर्थमुपसंहार्याः
वित्तादिकाममनुरुध्य तदर्थे नोपसंहार्या इति विकल्पः स्यात् । नेति
कुतः ? ‘पूर्वहेत्वभावात्’ पूर्वसूत्रोक्तदुरितादिनिवृत्तिरूपफलविशेषा-
ख्यप्रबलहेतोरभावात् । मुमुक्षापूर्वकालीनान्यकामाख्यहेत्वभावात्, अ-
र्थादिकं विना ज्ञानाभावाख्यहेत्वभावाच्चेति सूत्रार्थः ॥
( २ ) अत्रैव स्मृतिमाह—यस्येति ॥ अत्र प्रथमयच्छब्दौ अधिका-
रिपरौ । तच्छब्दौ काम्यपरौ । न तु तावेकविषयौ । प्रथमान्तयच्छब्द

९१२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.]
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥
अकामत्वान्मुमुक्षूणां न वा तेषा मुपासनम् ।
तुष्ट्यर्थमीश्वरस्यैव नैधोपासा विदुष्यति ॥ इति बृ-
हत्तन्त्रे ॥ ६२ ॥
४१. अधिकरणम् ॥
( १ ) सू-ॐ ॥ अङ्गेषु यथाऽऽश्रयभावः ॥ ॐ ॥ ६३ ॥
स्यावृत्तिः । कामशब्दः सविषयेच्छार्थः । असावसाविति ग्राह्यम् । वा
शब्दो व्यवस्थितविकल्पार्थः । तथा च यस्य यस्य पुंसोऽधिकारिणः
यो यो वित्तादिकामोऽस्ति, असावसौ मुमुक्षुः तस्य तस्य तत्तत्काम्य-
प्रदभगवद्रूपस्योपासनं 'प्रकल्पयेत्' कुर्यात् । 'हि' प्रसिद्धम् । न के-
वलमुपासनं, किन्तु 'तादृशानां' कामसाधनानां गुणानां 'समाहारं'
एकबुद्ध्यारोपणं च प्रकल्पयेत् । 'मुमुक्षूणामुपासनं नेति वा । कुतः ?
तेषां 'अकामत्वात्' अन्यकामनारहितत्वात् । एवमधिकारिभेदेन
विकल्पमभिधायेदानीं मुमुक्षुष्वेव विकल्पमाह-तुष्ट्यर्थमिति । एव-
कारो भिन्नक्रमः । चोऽवधारणे । तथा च ईश्वरस्य 'तुष्ट्यर्थं' प्रसा-
दार्थमेव तस्य रूपस्य गुणानां चोपासनं नैव विदुष्यति । अन्यकामा-
र्थं तु दुष्यति । तदर्थं तैर्नकार्यमित्यर्थः । तत्त्वप्रदीपे तु-यस्य यस्य
यो धनैश्वर्यादिकामो भवति । तस्य तस्य तदर्थमुपासनं कार्यं, स
चोपासकस्तादृशानाममुक्त्यर्थानां गुणानामुपसंहारं च प्रकल्पयेत् ।
न वा मुमुक्षूणां काम्योपासनं, तेषामकामत्वात् । अतोऽत्यन्तमापद्येव
काम्यरूपगुणोपासनं तेषां, तदपि नान्यकामनया, किन्त्वीश्वरस्य तु-
ष्ट्यर्थमेव तदपि ह्याह-तुष्ट्यर्थमिति । 'सकामेभ्योऽमितगुणा या का-
मैस्तु कृता क्रिया' इत्यन्यत्र चाहेत्येवमेव व्याख्यातम् । इति बृहत्त-
न्त्रे सूत्रार्थ उक्त इति शेषः ॥ ४० ॥
॥ इति कामाधिकरणम् ॥
—:*:—
४१. अधिकरणम् ॥
( १ ) अत्राधिकरणे अङ्गाश्रितत्वेन देवतोपासनस्य कर्तव्यता स-
मर्त्यते । द्विविधमङ्गदेवतोपासनं-परिवारत्वेन भगवदङ्गाश्रितत्वेन

[ अधि - ४१. सू - ६४. ] दीपिकासहितम्. ९१३
अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वम् । ' च-
क्षोस्सूर्यो अजायत ' (ऋ. १०-९०-१३.) इत्यादि, तथा
भावना कर्तव्या ॥ ६३ ॥
( २ ) सू—ॐ ॥ शिष्टेश्च ॥ ॐ ॥ ६४ ॥
यस्मिन्‌यस्मिन् यो हि चाङ्गे निविष्टः
चेति । तत्राद्यं सर्वमुमुक्षुसाधारणं ' अङ्गावबद्धाः ' इत्यत्रोक्तम् । द्वि-
तीयं देवतामात्राधिकारिकमत्र समर्थ्यते इति विवेकस्तत्त्वप्रदीपेऽभि-
हितः । ब्रह्मादिदेवानामीश्वराङ्गाश्रितत्वेनोपासनं न कर्तव्यम्, नि-
राधिकारिकत्वात् । न तावत्तत्सर्वाधिकारिकम् । ' आनन्दादयः '
इत्युक्तचतुर्गुणनियमव्याघातात् । नापि देवाधिकारिकम्, ' ब्रह्मा शि-
रसि ललाटे रुद्रः ' इत्यादितत्प्रकरणेषु देवानामेतदुपासनमित्यनु-
क्तेरिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अङ्गेष्विति ॥ अ-
त्राङ्गेष्वित्यावर्तते । तत्रैकं षष्ठ्यन्ततया विपरिणतं देवतावाचि । द्वि-
तीयं प्रकृतपरमाङ्गवाचि । यथेत्यप्यावर्तते । तथा तथेति च लभ्यते ।
उक्त इति कर्तव्य इति शेषः । भाव इतिशब्दो बुद्ध्या विविक्त उपा-
सनापर्यायभावनावाची । तथा च ' चक्षोः सूर्यो अजायत ' इत्या-
दीनामङ्गानां सूर्यादिदेवानामाश्रयिणां भगवतोऽङ्गेषु ' आश्रयभावः '
आश्रयत्वं यथा यथोक्तः ' तथा तथा ' तेन तेन प्रकारेण तेषां ' भावः '
उपासनं कर्तव्य इति योजनामभिप्रेत्य सूत्रं व्याचष्टे—अङ्गेति । परमे-
श्वराङ्गाश्रयत्वमिति बहुव्रीहिः । अङ्गदेवतानामित्यस्य परमेश्वराङ्गाश्र-
यत्वमित्यनेन भावनेत्यनेन च सम्बन्धः । उक्तमिति शेषः । इत्यादीति
लुप्तविभक्तिकं निर्देशः । इत्यादिनेत्यर्थः । यद्यपि श्रुतावङ्गजत्वमे-
वोक्तं, न तु तदाश्रितत्वं, तथाऽपि 'ददाश्रिताश्च ते सर्वे' इति वचना-
द्यत्र जन्म तत्रैव स्थितिरिति न दोषः । कर्तव्येति सावधारणम् । अ-
त्र हेतुस्तु उत्तरसूत्रे चशब्देन अत्रापि उक्त इत्याध्याहृतपदेन च सू-
चितः अन्यथा तदुक्तिवैयर्थ्य प्रसङ्गादित्येवंरूपो द्रष्टव्यः ॥
( २ ) अत्रैव युक्त्यन्तराभिधानाय सूत्रम्—शिष्टेश्चेति ॥ तद्वयाच-
ष्टे—यस्मिन्निति । यो यो देवः ' परस्य ' विष्णोः यस्मिन् यस्मिन् अ-
ङ्गे 'निविष्टः' प्रविष्टः आश्रितः । 'हि' प्रसिद्धः । स सः 'तथा तथा'
तत्तदङ्गनिविष्टत्वेन 'चिन्त्यः' उपास्य इत्यर्थः । 'शिष्टेः' शिक्षावि-
धायकश्रुतिरिति फलितार्थ इति भावेनाह—श्रुतेरिति । श्रुतेरित्यनन्त-
११५

४. चतुर्थाध्याय: फलाध्याय (कर्म-विमुक्ति, अर्चिरादि मार्ग, नित्य-आनन्द व उपसंहार)

९१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
परस्य चिन्त्यः स तथा तथैव ।
इति पौत्रायणश्रुतेः ॥ ६४ ॥
( ३ ) सू-ॐ ॥ समाहारात् ॥ ॐ ॥ ६५ ॥
अङ्गैः पराद्ये हि देवा विसृष्टास्तत्तद्गुणान् परमे संहरेत ।
तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं
व्रजेत ॥ इति काषायणश्रुतौ समाहारवचनाच्च ॥ ६५ ॥
रं सूत्रानुसारतः समुच्चयार्थकश्चशब्दोऽध्याहार्यः । अनेन—न केवलं
'चक्षोः' इत्यादावङ्गाश्रयत्वेनोक्तमन्यथाऽनुपपत्त्या तथा भावः कर्त-
व्यः, किन्तु 'शिष्टेः' 'यस्मिन्' इति श्रुतौ तथा विधानाच्चेति सूत्रार्थ
उक्तो भवति ॥
( ३ ) ननु निरधिकारित्वात्तद्विधानादिवैयर्थ्यस्यैवोचितत्वाच्च
नाङ्गदेवतोपासनं युक्तमित्याशङ्कायां सूत्रं—समाहारादिति ॥ अत्र
समाहारपदं सम्पूर्वकहृधातुयुक्तश्रुतिसूचकं 'अस्यैव च' इति सूत्रे
ऊष्मेतिपदवदिति भावेन समाहारपदसूचितश्रुत्युदाहरणपूर्वकं सूत्रं
व्याचष्टे—अङ्गैरिति । क्रियासमुच्चये चः । कर्मसमुच्चयेऽपिशब्दः । त-
था च 'परात्' परमात्मनः चक्षुराद्यङ्गैः करणैः ये ये देवाः 'विसृष्टाः'
विविधप्रकारेण सृष्टाः 'हि' प्रसिद्धाः 'तत्तद्गुणान्' तत्तद्देवसूर्यसो-
मादिमहाप्रकाशाह्लादकरत्वादीन् गुणान् 'परमे' परमाङ्गे 'संहरे-
त' उपसंहरेत । न केवलं गुणानङ्गेषु, किन्तु 'तांस्तान्' तत्तदङ्गा-
न् देवानपि 'तत्रैव' तत्तज्जनकाङ्गेष्वेव विचिन्तयीत । न चास्य फ-
लाभावः । यत एवं विचिन्त्य 'परमं स्थानं' सायुज्यरूपं व्रजेत 'मु-
मुक्षुः' देवत्वयोग्य इति तत्त्वप्रदीपदिशा श्रुत्यर्थः । समाहारवचनादि-
ति । अत्रापि समाहारपदं श्रुतिसूचकम् । तथा च काषायणानां समा-
हारश्रुतिवचनादित्यर्थः । चस्समुच्चये । अनेन-सूत्रेऽपि चशब्दोऽनुषञ्ज-
नीय इति सूचितम् । अस्य तथा भावना कर्तव्या इत्यनेनान्वयः । अ-
नेन संहरेतेति समाहारपदघटितश्रुतेरङ्गदेवतोपासनस्य परमस्थानरू-
पसायुज्यप्राप्तिफलकत्वावगमात्, अत एव देवताधिकारकत्वावगमा-
च्च निरधिकारकत्वं न वा तद्विधानादिवैयर्थ्यं कल्प्यमिति सूत्रार्थ उ-
क्तो भवति । तत्त्वप्रदीपे तु न केवलमङ्गेषु तत्तद्देवतानां भावनयाऽधि-
कारी पूर्यते पूर्णफलभाग्भवति, किन्तु हरेरङ्गेषु चक्षुर्मनआदिषु त

श्रुत्यर्थः । श्रुतेश्चेत्यस्य त- Wait,इति श्रुत्यर्थः: भागं विहाय यथाशक्ति सर्वे समाहार्या इति श्रुत्यर्थः । श्रुतेश्चेत्यस्य त-`
Matches.

  • था भावना कर्तव्येति पूर्वेणान्वयः । तच्चाङ्गाश्रितत्वेन देवतोपासनं दे-
    Check:
    था भावना कर्तव्येति पूर्वेणान्वयः । तच्चाङ्गाश्रितत्वेन देवतोपासनं दे-
    Matches.

  • वताश्रयत्वेन तद्गुणबिम्बगुणवत्त्वेन च परमात्मोपासनं समनियतं, अ-
    Check:
    वताश्रयत्वेन तद्गुणबिम्बगुणवत्त्वेन च परमात्मोपासनं समनियतं, अ-
    Notice comma after समनियतं,! Yes.

  • तः 'समाहारात् , गुणसाधारण्यश्रुतेः, दर्शनाच्च' इत्येतेषां विरोधो
    Check:
    तः 'समाहारात्, गुणसाधारण्यश्रुतेः, दर्शनाच्च' इत्येतेषां विरोधो
    Matches.

  • `न शङ्

९१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहा
श्रवणात् ॥ ६७ ॥
(२) सू--ॐ ॥ दर्शनाच्च ॥ ॐ ॥ ६८ ॥
सत्यो ज्ञानः परमानन्दरूप आत्मंत्यवं नित्यदोपास
नं स्यात् ।
नान्यत्किञ्चित्समुपासीत धीरस्सर्वैर्गुणैर्देवगणा उपा
संते ॥
प्राप्तकर्तव्यत्वशङ्कानिरासेन कर्तव्यता समर्थ्यते । सूत्रमुपन्यस्यति—
न वेति ॥ अत्राधिकारिविशेषानिर्देशेन गूढाभिसन्धिना सूत्रकृतोक्तं
न वेति प्रतिज्ञांशं व्याचष्टे—न वेति । अङ्गेषु भगवदङ्गेषु अङ्गदेवतोप
संहारः तासामुपसंहृत्योपासनं न कर्तव्यं वेत्यर्थः । अनेन सूत्रे 'अङ्गेषु
यथाश्रयभावः' इत्यस्यानुवृत्तिः सूचिता भवति । कुतो नेत्यतः अतत्स
हभावध्रुतेरिति हेतुवाक्यं व्याचष्टे—उपसंहारस्येति । उपसंहारपूर्व
काङ्गदेवतोपासनस्येत्यर्थः । सहेति । सर्वशाखागतोपासनसहभावेने
त्यर्थः । अनेन तच्छब्दस्य तेनेत्यावृत्तिः सूचिता । अश्रवणादित्यनेन
सूत्रे नञो व्यत्यासेनान्वय उक्तो भवति । अनेन क्वचिदेवोक्तत्वात् स
र्वशाखास्वनुक्तत्वात् देवैः कर्तव्यं न वा अन्यैरित्यभिसन्धिः प्रकटितो
भवति । तथा च अङ्गेषु देवानां यथाऽऽश्रयभावोऽस्ति तथा भावरूपोपा
सना देवैः कर्तव्या । कुतः ? क्वचित्सहभावश्रुतेः । न कर्तव्या वा देवा
न्यैः । कुतः ? 'अतत्सहभावध्रुतेः' तथोपासनस्य सर्वशाखागतोपासने
सह सर्वत्र सहभावस्याश्रुतत्वादिति सूत्रार्थ उक्तो भवति ॥
(२) देवैरेव तथोपासनं कर्तव्यं, नान्यैरित्येतमेवार्थं युक्तिसिद्धं
श्रुत्याऽपि समर्थयत्स्रत्रं पठित्वा तां श्रुतिमुदाहरति—दर्शनाच्चेति ॥ न
केवलं युक्तेः, किन्तु 'सत्यो ज्ञानः' इति श्रुतेश्च अङ्गदेवतोपसंहारे
देवैः कार्यः, इतरैर्न वेति सूत्रार्थः । 'नित्यदा' योग्यसर्वकाले स्यात्
सर्वमुमुक्षूणामिति शेषः । 'नान्यत्किञ्चित्' गुणादि 'सर्वैः' योग्यस
र्वैः 'देवगणाः' ब्रह्मारुद्रादिदेवसमुदायाः । देवानां गणोऽनेकत्वद्यो
तनाय गणा इति बहुवचनम् । कमठश्रुतौ दर्शनादुक्तेश्च न वाऽङ्गदेव

[ अधि - ४२. सू - ६८. ] दीपिकासहितम्. ९१७
इति कमठश्रुतौ ॥ ६८ ॥
—: ☼ :—
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य
तृतीयः पादः
—: ☼ :—
॥ ॐ ॥
—
तोपसंहारो देवेतरैः कार्यः, किन्तु देवैरित्यन्वयः ॥ ४२ ॥
॥ इति नवाधिकरणम् ॥
— ☼ —
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना-
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका-
यां तृतीयाध्यायस्य तृतीयः पादः
— ☼ —
॥ ॐ ॥
—

९१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
१. अधिकरणम् ॥
(१) ज्ञानसामर्थ्यमस्मिन् पाद उच्यते ॥
सू--ॐ ॥ पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ ॐ ॥ १ ॥
यद्दर्शनार्थमुपासनोक्ता तस्माद्दर्शनात्सर्वपुरुषार्थप्रा-
प्तिरिति बादरायणो मन्यते ।
(२) यंयं लोकं मनसा संविभाति
विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तंतं लोकं जयते तांश्च कामान्
१. अधिकरणम् ॥
(१) एतत्पादार्थं दर्शयति—ज्ञानेति ॥ यदर्थं पूर्वपादे उपासनो-
क्ता तस्य ब्रह्मापरोक्षज्ञानस्य ‘सामर्थ्यं’ महिमा ‘अस्मिन्’ आरभ्य-
माणे चतुर्थे ‘उच्यते’ अनुवर्ण्यत इत्यर्थः। तत्र ज्ञानिनां मोक्षेतरपुरु-
षार्थेषु विरक्तत्वेन तदिच्छाया एवाभावात्, इच्छाभावेऽपि तत्प्राप्तौ
पुरुषार्थत्वहान्यापत्तेः ज्ञानस्य मोक्षमात्रे साधनत्वं, न सर्वेषु पुरुषा-
र्थेषु इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति—पुरुषार्थ इति ॥ अत्र अ-
तः पुरुषार्थ इति प्रतिज्ञाभागे सङ्गतिसूचकस्य अत इत्यस्यार्थमाह—
यद्दर्शनार्थमिति। यस्य ब्रह्मदर्शनस्यार्थमित्यर्थः। ‘तस्मात्’ अतो द-
र्शनात् । तत्त्वप्रदीपे तु यस्य विष्णोर्दर्शनार्थं उपासनोक्ता ‘तस्मात्’
तस्य प्रसादात् सञ्जाताद्दर्शनादित्यर्थ उक्तः। पुरुषार्थ इत्यस्यार्थमा-
ह—सर्वेति। पुरुषैरर्थ्यमानं यावच्छुभं तस्य सर्वस्यैव प्राप्तिर्भवति,
न तु मोक्षमात्रस्येत्यर्थः। ब्रह्मदर्शन इति शेषः। अधिकारिणः फलस-
म्बन्धबोधनाय प्राप्तिपर्यन्तधावनम्। यद्यपि सूत्रे सर्वशब्दो न श्रूयते।
तथाऽपि पुरुषैरर्थ्यमानत्वरूपधर्माक्रान्तसर्वपुरुषार्थवाचिपुरुषार्थशब्द-
पर्यालोचनया तल्लाभ इत्याशयेन सर्वेत्युक्तम्। इति बादरायणो मन्यत
इत्यस्य शब्दादित्यनन्तरमन्वयः। वादे ज्ञाने रतानामधिकतया आश्रय-
त्वेन भगवत्तमो वेदेश्वर उच्यत इति तत्त्वप्रदीपोक्तरीत्या बादरायण-
शब्दार्थो ज्ञातव्यः ॥
(२) ज्ञानात्सर्वपुरुषार्थ इत्येतत्कुत इत्यतः शब्दादिति हेत्वंशं व्याच-
ष्टे-यमिति ॥ यस्मात् ‘विशुद्धसत्त्वो’ निर्मलान्तःकरणो ब्रह्मज्ञानी ‘यं
यं लोकं’ स्वर्गादिरूपं मनसा ‘संविभाति’ इच्छति, प्राप्तुमिति शे-
षः ‘यांश्च कामान्’ काम्यान् ‘कामयते’ इच्छति तंतं लोकं तान्

[ अधि - १. सू - २. ] दीपिकासहितम्. ९१९.
तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः (मु. ३-१-१०.)॥
इति शब्दात् ॥ १ ॥
( ३ ) सू—ॐ ॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमि-
निः॥ ॐ ॥ २ ॥
अस्त्येव मोक्षसाधनत्वं ज्ञानस्य स्वर्गादिषु तत्साधन-
कर्मशेषत्वेन ।
( ४ ) स्वर्गे धनादेर्हतो वै गृहाच्च
कामांश्च 'जयते' प्राप्नोति । तस्मादेवं परमात्मज्ञानस्य सर्वपुरुषार्थ-
साधनत्वात् तत्सिद्ध्यर्थं 'आत्मज्ञं' ब्रह्मज्ञानिनं 'भूतिकामः' 'स वेदं
तत्' इत्युत्तरवाक्योक्तसर्वपुरुषार्थकामो जनः 'अर्चयेत्' पूजयेदित्य-
र्थः । तत्त्वप्रदीपे तु धातूनामनेकार्थत्वाभिप्रायेण 'संविभाति' मनुते,
भा ज्ञान इति धातोरिति व्याख्यातम् । इतिशब्दादिति । इत्याथर्वण-
[L14

९२० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
प्राप्स्यन्ति धीरा न त्वधीराः कुतश्चित् । इति वदति
जैमिनिः ॥ २ ॥
(५) सू--ॐ ॥ आचारदर्शनात् ॥ ॐ ॥ ३ ॥
ज्ञानिनामेव देवादीनामाचारदर्शनात् ॥ ३ ॥
(६) सू--ॐ ॥ तच्छ्रुतेः ॥ ॐ ॥ ४ ॥
'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यव-
स्तदुत्तरत्वेन प्रवृत्तं शेषत्वात्पुरुषार्थवाद इत्यंशमावर्त्य यथाऽन्येष्वि-
त्यत्राप्यन्वयमभिप्रेत्य व्याचष्टे-स्वर्गे धनादिति । अन्येष्विति सम्बध्य-
ते । तथा च ' स्वर्गे धनात् ' ( ) इति श्रुतौ ज्ञानकर्मभ्यां
' अन्येषु ' धनादिषु स्वर्गसाधनकर्मशेषत्वेन प्राधान्यप्रयोगवदित्यर्थः ।
' धनात् ' बहुवित्तव्ययात् ' देहतः ' शरीरात् तदायासादेः ' गृहात् '
गृहस्थाद्गृहस्थाश्रमात् एतत्साध्याद्यागादेरित्यर्थः । इति जैमिनिर्मन्य-
त इत्यनुषज्यते ॥
( ५ ) ननु श्रुतिबलात् ज्ञानस्यैव सर्वपुरुषार्थसाधनत्वं किं न स्या-
त्, कुतः श्रुतेरर्थान्तरपरिकल्पनेत्याशङ्कां परिहरत्सूत्रं पठति-आचा-
रदिति ॥ अत्राध्याहार्यांशं दर्शयन् सूत्रं व्याचष्टे-ज्ञानिनामेवेति । विशे-
षणसङ्गतैवकारोऽयोगव्यवच्छेदकः । तथा च ' नैव देवपदं प्राप्ताः
ब्रह्मदर्शनवर्जिताः ' इति वचनात् पदप्राप्तेः पूर्वं ज्ञानिनामेव अथ
देवादित्वं प्राप्तानां न ज्ञानरहितानामित्यर्थः । आदिपदेन प्रजापत्यादीनां
ग्रहणम् । आचारः कर्मानुष्ठानं दर्शनात् श्रवणात् ' यज्ञेन यज्ञमयज-
न्त' (तै.आ.३-१२-७.) इत्यादाविति शेषः । पूर्वपक्षिणा जैमिनिमतस्य
सर्वविषयकत्वाश्रयणाद्देवादीत्युक्तम् । सूत्रे क्वचिच्चशब्दः पठ्यते ।
तदभिप्रायेण भाष्येऽपि चशब्दप्रयोग इति केचित् । तच्चिन्त्यम् । अ-
स्य सूत्रस्य शङ्कापरिहारत्वेन हेत्वन्तरपरत्वाभावात् । आचारदर्श-
नादित्यस्य शेषत्वादेव पुरुषार्थवादः, न तु प्राधान्यादिति प्रकृतसाध्ये-
नान््वयः ॥
(६) नन्वेवमस्तु ज्ञानकर्मणोरुभयोरपि स्वर्गादिसाधनत्वं, ज्ञान-
स्य कर्मशेषत्वं कुत इत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति - तदिति ॥
अत्र तदिति व्यस्तं समस्तं च । ' तत् ' कर्म प्रति ' तस्य ' ज्ञानस्य शे-
षत्वस्य श्रुतेस्तच्छेषत्वमेव सिद्धमिति सूत्रयोजनामभिप्रेत्य सूत्राभि-

[ अधि - १०. सू - ५०. ] दीपिकासहितम्. ९२१
त्तरं भवति' (छा. १-१-१०.) इति शेषत्वश्रुतेः ॥ ४ ॥
(७) सू—ॐ॥ समन्वारम्भणात् ॥ ॐ ॥ ५ ॥
कर्मैव देहं दैविकं मानुषं वाऽ
प्यन्वारभेन्नापरस्तत्र हेतुः ।
भोगांस्तदीयांश्च यथाविभागं
ददाति कर्मैव शुभाशुभं यत् ॥
मतश्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—यदेवेति । ज्ञानस्येत्यनुवर्तते । त
था च छान्दोग्यवाक्ये ज्ञानस्य कर्मशेषत्वश्रुतेरित्यर्थः । ‘श्रद्धया’ आ
स्तिक्यबुद्ध्या युक्तया ‘उपनिषदा’ तस्य ब्रह्मण उप समीपं निषाद
यति गमयति एनमित्युपनिषत् स्वयोग्यविद्या तया ‘स्वयोग्यं तु परि
ज्ञानं यत्तस्योपनिषत्स्मृतम्’ इति छान्दोग्यभाष्योक्तेः । ‘विद्यया’ ज्ञा
नेन ज्ञानी यत्कर्म करोति तदेव ‘वीर्यवत्तरं’ अधिकफलसाधने भव
तीत्यर्थः । इयं श्रुतिः बादरायणमते मानुषविषया तत्कर्तृकज्ञानस्य शे
षत्ववादिनी प्रतिबन्धकयुक्तदेवताविषया चेति ज्ञातव्यम् ॥
(७) ननु यथा ज्ञानस्य ‘यं यम्’ (मु. ३-१-१०.) इति श्रुतमपि प्राधा
न्यं न स्वीक्रियते, किन्तु शेषत्वमेव, एवं ‘यदेव विद्यया’ (छा. १-१-१०.)
इति श्रुतमपि कर्मणः प्राधान्यं नाङ्गीकार्यं, किं नाम? ज्ञानशेषत्वं कर्मणः
साम्यं वा भवेत्, विशेषप्रमाणाभावादित्याशङ्कां परिहरत्सूत्रं पठति—
समिति ॥ अत्र समन्वारम्भणमिति विपरिणामेनावृत्तिर्वा तदित्यनुवृत्ति
र्वा । तथा च ‘समन्वारम्भणात्’ ‘कर्मैव’ इति कर्मण एव प्राधान्येन स्व
र्गाद्यारम्भकत्वश्रुतेः ‘तत्’ समन्वारम्भणं कर्मण एव स्वर्गाद्यारम्भकत्व
मिति सूत्रयोजनामभिप्रेत्य समन्वारम्भणशब्दोपलक्षितश्रुत्युदाहरणपू
र्वं सूत्रं व्याचष्टे—कर्मैवेति ॥ इतीति । एवंरूपसमन्वारम्भणवाचिमाठर
श्रुतेरित्यर्थः । चशब्दोऽवधारणे साध्यसमुच्चये वा । तेन श्रुतेरित्यस्य
समन्वारम्भणमिति साध्येनान्वयः सूचितो भवति । ननु कर्मणः स्व
र्गाद्यारम्भकत्वमेव सूचितं, न प्राधान्यं, तच्च परस्यापि सिद्धमित्या
शङ्कोत्तरत्वेन संशब्दस्यार्थमाह—समिति । ‘दर्शयति’ प्रतिपादयति
कर्मण इति शेषः । सिद्धान्ते मनुष्यविषयेयं श्रुतिः, प्रतिबन्धकयुक्तदे
वताविषया च । तथा च ज्ञानोत्तरकालीनं शुभाशुभं कर्मैव ‘दैविकं’
मनुष्याणामेव देवलोके ज्योतिर्मयदेहं मानुषं वा देहं प्रतिबन्धकयुक्त
देवानां चोभयं देहमन्वारभेत् । ‘अपरः’ कर्मातिरिक्तज्ञानादिः ‘तत्र’
११६

९२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
इति माठरश्रुतेश्च । संशब्दः प्राधान्यं दर्शयति ॥ ५ ॥
(८) सू—ॐ ॥ तद्वतो विधानात् ॥ ॐ ॥ ६ ॥
ज्ञानी च कर्माणि सदोदितानि
कुर्यादकामः सततं भवेत् ।
इति कमठश्रुतौ ज्ञानवतोऽपि विधानात् ॥ ६ ॥
(९) सू—ॐ ॥ नियमाच्च ॥ ॐ ॥ ७ ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
शरीराद्युत्पादने 'हेतुः' प्राधान्येन कारणं न भवति । किन्तु कर्मशेष
तयैव कारणं भवतीत्यर्थः । 'तदीयान्' देवमानुषीयान् भोगांश्च कर्मे
व ददाति 'यथाविभागं' योग्यायोग्यविभागमनतिक्रम्य पुण्यं शुभफ
लं पापमशुभफलमिति विभागमनतिक्रम्येति वा । कर्मस्वरूपमाह—
शुभाशुभं यदिति । पुण्यपापात्मकमित्यर्थः । तत्त्वप्रदीपे तु नापरस्तत्र
हेतुरित्यर्थः, विष्णोरितरापेक्षया ना परः पुरुषस्स्वतन्त्रहेतुरिति वा
र्थसम्भवादित्युक्तम् ॥
(८) ननु तथाऽपि न ज्ञानस्य कर्मशेषत्वं युक्तं, किन्तु स्वयमेव
पुरुषार्थहेतुः । कस्मात् ? ज्ञानिकर्मणां फलाभावात् । फलाभावेऽप्याचा
रस्तु मुक्तवल्लीलयैवेत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—तद्वत इति ॥
अत्राप्यर्थकचशब्दोऽध्याहार्य इत्याशयेन तद्वत इत्यस्यार्थमाह—ज्ञा
नवत इति । न केवलं ज्ञानरहितस्येत्यपेरर्थः । विधानादिति । कर्मण
इति शेषः । श्रुतौ विधानादिति हेतोर्न ज्ञानिनः कर्म लीलामात्रमित्यध्या
हृतसाध्येनान्वयः । श्रुतिषु 'उदितानि' उक्तानि कर्माणि 'ज्ञानी च'
ज्ञान्यपि सदा कुर्यात् । न केवलमेतावत, किन्तु ज्ञानी सततमकामश्च
भवेतेति श्रुत्यर्थः ॥
(९) इतश्च न ज्ञानिकर्म लीलामात्रमित्यभिदधत्सूत्रं पठति—
नियमाच्चेति ॥ अत्र चस्समुच्चये । नियमोऽकरणे प्रत्यवायः । तेन त
च्छ्रुतिर्गृह्यते । तथा च न केवलं विहितत्वान्न ज्ञानिकर्म लीलामात्रं,
किन्त्वकरणे प्रत्यवायश्रुतेश्चेति सूत्रार्थ इत्याशयेन तां श्रुतिमुदाहर
ति—कुर्वन्निति । इतीत्यस्य सूत्रेणान्वयः । 'कुर्वन्' इति मन्त्रार्थस्तु-
'शतं समाः' शतवर्षाणि 'इह' मानुषादिजन्मनि यावत् 'जिजीविषे
त' जीवितुमिच्छेत् तावत् 'कर्माणि' स्वोचितानि 'कुर्वन्नेव' आम
रणं भगवत्पूजात्मकानि असङ्कल्पितफलानि स्वोचितानि कर्माणि स

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे (ई. २.) ॥
इति ॥ ७ ॥
(१०) सू—ॐ ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्श
नात् ॥ ॐ ॥ ८ ॥
'ज्ञानादेव स्वर्गो ज्ञानादेवापवर्गो ज्ञानादेव सर्वे का
र्वथा कुर्यादिति यावत् । 'एवं' कर्माणि कुर्वति 'नरे' मनुष्यमात्रेऽ
पि 'कर्म' पापं 'न लिप्यते' स्वोचितेनासङ्गकर्मणा भगवत्पूजां कुर्व
न्तमल्पाधिकारिणमपि प्रागुत्तराणि पापानि न बाधन्ते । ततश्च ज्ञाना
धिकारी भवतीति यावत् । 'इतः' कर्मकरणात् 'अन्यथा' कर्माकर
णे 'न लिप्यते इति नास्ति' भगवत्पूजामकुर्वन्तं पापानि बा
धन्त एव, ततश्च नासौ ज्ञानेऽधिक्रियते, अतः कर्माणि कार्याणीति ई
शावास्यटीकायामुक्तम् । तत्त्वप्रकाशिकायां तु—'एवं' कर्मकरणे त्व
यि कर्म न लिप्यते । 'इतोऽन्यथा' अकरणे 'नरे' न क्षीयत इति नरं
ज्ञानं तद्वानपि नरः तस्मिन् ज्ञानिन्यपि त्वयि पापं कर्म न लिप्यत इ
ति नास्तीत्यर्थ उक्तः । तत्त्वप्रदीपे तु—'इह' परमेश्वरे अर्पितानि क
र्माणि कुर्वन्नेव शतं समाः जिजीविषेत् । एवं त्वयि नरे न कर्म लिप्य
ते, इतोऽन्यथा कर्म न लिप्यत इति नास्तीत्यर्थ उक्तः । सः ईशावा
स्यटीकोक्तान्न भिद्यत इति ध्येयम् ॥
(१०) एवं जैमिनिमतावलम्बनेन चोदिते स्वमतं समर्थयत्सूत्रमुप
न्यस्यति—अधिकेति ॥ अत्राधिकोपदेशादिति हेतुवाक्यं व्याचष्टे—
ज्ञानादेवेति । तथाऽपीत्युक्तेर्यद्यपीति लभ्यते । अपवर्गो मोक्षः । 'का
माः' काम्याः 'यथा यथा' यद्यत् कुरुते पुरुषः 'तथा तथा' तेन तेन
कर्मणा 'अधिको' ज्ञानफले अतिशयितो भवतीत्यर्थः । अनेनाधिकोप
देशादित्यस्य ज्ञानादेव सिद्ध्यत्सु स्वर्गादिष्वधिकभावोपदेशादित्यर्थ
उक्तो भवति । तद्दर्शनादिति हेत्वन्तरं, तत् चार्थकतुशब्दान्वयेन त
च्छब्दावृत्त्या च व्याचष्टे—युधिष्ठिरादीनामिति ॥ अन्येषां देवजातीनां
स्वर्गजुषां मध्ये 'युधिष्ठिरादीनां' धर्मादीनां राजसूयादिना फलाधि
क्यस्य लिङ्गस्य दर्शनात् दृष्टत्वादित्यर्थः । उक्तं हि—
राजसूयजितान् लोकान् अश्वमेधाभिवर्धितान् ।
प्राप्नुहि त्वं महाभाग तपसश्च महाफलम् ॥

वाक्येन परम्परयाऽन्वयः । इतिशब्दाध्याहारे" -> "साध्यवाक्येन"
Line 13:
"ण बादरायणस्येत्येतद्व्याचष्टे—इतीति । अनेन—'अधिकापदेशात्'"
Wait, look at "अधिकापदेशात्" vs "अधिकोपदेशात्":
Let's look at the letter again very carefully.
In line 13: 'अ' 'धि' 'का' 'प' 'दे' 'शा' 'त्'
Wait, look at the third character:
It's 'का' with a dot above it: 'कां'?
Wait, could it be "अधिकापदेशात्"?
Why would it be "अधिकापदेशात्"?
Notice line 14:
"कर्मणा अधिकस्य आधिक्यस्यातिशयस्य 'ज्ञानादेव' इत्यत्रोपदेशात्"
"अधिकस्य" ... "उपदेशात्" -> "अधिकोपदेशात्"!
In line 13, look at the mark above 'का':
Is it an anusvara, or is it a slant stroke for 'ओ'?
Wait, let's look at line 1:
"[ अध्या - ३. पा - ४. ]"
Look at line 3:
"तथाऽधिको भवति" -> look at 'को':
'क' has a vertical stem to its right ('ा'), and a slant stroke attached to the top of that stem.

[ अधि - १. सू - ९-१०. ] दीपिकासहितम्. ९२५
राजसूयादिकृन्नापकृतौ च सममेव तेषां विज्ञानम् ।
( १२ ) विज्ञातमेतत्सर्वेषां मुनीनां ब्रह्मदर्शनात् ।
स्यादेव मोक्षो नान्यस्मादिति तत्रापि चित्रता ॥
( १३ ) स्वर्गादयः कर्मणैव नान्येनेत्यपरे विदुः ।
ज्ञानेनाधिक्यमित्याहुजैमिन्याद्यास्तु केचन ॥
अदृष्टमेव ज्ञानेन दृष्टं नैवोपलभ्यते ।
नशब्दस्य व्याख्यानमिति द्रष्टव्यम् । न तु विषममित्येवशब्दार्थः । अ
न्यथा कर्मकरणे ज्ञानं पुरुषार्थसाधने समर्थं अकरणे असमर्थमिति
ज्ञाने विशेषस्स्यादिति भावः । ज्ञानमित्यनन्तरं यत इति शेषः । अतो
ज्ञानिकर्म न ज्ञाने अतिशयाधायकं, किन्तु ज्ञानफल इति साध्यसमर्प
कैवंशब्देन अस्यान्वयः ॥
( १२ ) नन्वेवं र्ताह भगवन्मतविरोधेन जैमिनिमतस्याप्रामाण्यं प्रस
ज्यते । न च मुनिमतस्य तद्युक्तम् । जैमिनिमतस्य प्रामाण्ये तु भगव
न्मतस्य अप्रामाण्यमित्याशङ्कां स्मृत्या परिहरति — विज्ञातमिति॥ जै
मिन्यादीनां व्यासशिष्याणां सर्वेषां मुनीनां ब्रह्मदर्शनादेव मोक्षः स्या
त्, नान्यस्मात्कर्मण इत्येव 'विज्ञातं' सम्मतमिति यावत् । ' तत्रापि '
तेषां मतेष्वपि मोक्षान्यफलविषयेऽपि 'चित्रता' आधिक्यं नानाप्रका
रमस्ति ॥
( १३ ) वैचित्र्यमेव दर्शयति—स्वर्गादय इति ॥ ' अपरे ' केचिदृ
षयः स्वर्गादयः कर्मणैव भवन्ति, न तु कर्मणोऽन्येन तच्छेषभूतेन ज्ञा
नेनेति 'विदुः' अभ्युपजग्मुः । इदं मतमपरोक्षज्ञानिष्वेव मनुष्येषु येऽ
धमाः तत्कर्तृकज्ञानविषयम् । केचन जैमिन्याद्यास्तु अपरोक्षज्ञानेन क
र्मशेषभूतेन कर्मफले सर्वत्र दृष्टादृष्टरूपे आधिक्यमित्याहुः । इदं मतमु
त्तममनुष्यविषयमिति प्राञ्चः भावबोधकाराश्च । अर्वाचीनास्तु इदं मतं
योग्यमध्यममनुष्यविषयमित्याहुः । केचित्तु कर्मशेषभूतेन ज्ञानेन 'अदृ
ष्टं' स्वर्गादिकं सर्वमेव 'उपलभ्यते' प्राप्यते, न तु दृष्टं पुत्रवृष्टिधना
दिकमपीत्याहुः । इदं मतं मध्यममनुष्यविषयमिति प्राञ्चो भावबोधका
राश्च । अर्वाचीनास्त्विदं मतं योग्येषूत्तममनुष्यविषयमित्याहुः । अत्र
यद्यपि प्राचीनपक्षे भावबोधपक्षे च स्वर्गादय इति स्मृतिक्रमभङ्गोऽ
स्ति । तथाऽपि मानुषा अपि उत्तममध्यमाधमभेदभिन्ना यथायोग्यं
विचित्रमतविषया भवन्तीति सुधोक्तेर्यथायोग्यमेव स्मृत्युक्तपक्षे यो

९२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
इति केचिद्विदः प्राहुः व्यासशिष्या इमेऽखिलाः ॥
यस्माद्व्यासमतं सर्वं सत्यमेव ततोऽखिलम् ॥
( १४ ) यथाऽऽकाशस्त्वनन्तोऽपि व्यामो हस्तावधिस्तथा ।
प्रादेशोऽपि हि सत्येन तथैतेषां मतानि तु ॥
( १५ ) स्वयन्तु भगवान् व्यासो व्याप्तज्ञानमहांशुमान् ।
अनन्ताकाशवत्पश्यन्निखिलं पुरुषोत्तमः ॥
जनीयः। न चाश्रमक्रमेण योजने स्मृत्यानुगुण्यं सुधाविरोधश्च नास्ती
ति वाच्यम् । प्रमेयबाधात् । कर्मसाध्ये दृष्टादृष्टादौ सर्वत्र ज्ञानस्यानुप्र
वेशो ह्युत्तमपक्षे। दृष्टमात्रप्रवेशो मध्यमे। अधमे तु न कुत्रापि ज्ञानस्य
प्रवेश इति तत्त्वम् । व्युत्क्रमस्यापि क्रमत्वे सुधोक्तानुक्रमविरोधो य
थायोग्यमित्युक्तिविरोधश्चेति ध्येयम् । कर्मफले विचित्रतायामपि न
मुनिमतानामसत्यत्वं शङ्क्यमित्याह—इम इति। यस्मादिमे एवं वद
न्तोऽखिलाः सर्वेऽपि व्यासशिष्याः, तस्मादुक्तं ‘सर्वं व्यासमतं’ वेद
व्यासमतान्तर्भूतं ‘ततोऽखिलं’ निश्शेषं सर्वं सत्यमेवाधिकारिभेदा
दित्यर्थः॥
( १४ ) अत्र दृष्टान्तमाह—यथेति॥ यथा आकाशोऽनन्तोऽपि ‘स
त्येन’ सत्यत्वेन वर्तते, तथा तत्प्रभेदाश्च ‘व्यामः’ पुरुषप्रमाणः बाहु
द्वयपरिमितो वा ‘हस्तावधिः’ हस्तपरिमितः प्रादेशपरिमितश्चेत्येते
सत्यत्वेन वर्तन्ते, तथा भगवन्मतं तदन्तर्गतान्येतेषां मुनीनां मतानि च
साकल्येन सत्यानीत्यर्थः । तुशब्दार्थः चस्समुच्चये । तत्त्वप्रदीपे तु—य
था आकाशः कात्स्न्र्येन गृह्यमाणोऽनन्तोऽपि परिमाणभेदापेक्षया व्या
मो हस्तप्रमाण इत्याद्युच्यते ‘सत्येन’ सत्यवचनेनैव, तथैतेषां मता
न्यधिकारिभेदापेक्षया सत्यानीत्यर्थ उक्तः ॥
( १५ ) ननु ज्ञानादेव सर्वे पुरुषार्थाः कर्मणा तु तदाधिक्यमिति भ
गवन्मतं, अन्येषां तु नैवं मतं, अतः कथमनन्ताकाशवदन्तर्भावितान्य
मतत्वं बादरायणमतस्येत्यत आह—स्वयं त्विति॥ तुरप्यर्थः। अन
न्ताकाशवदित्यस्य पूर्वेणान्वयः। भूतव्यावृत्त्यर्थं—अनन्तेति । व्याप्ते
त्यर्थः। दृष्टान्ते विधेयधर्मवैकल्यपरिहारायेदम् । तथा च पुरुषोत्तमो
भगवान् अनन्ताकाशवत् व्याप्तज्ञानमहांशुमान् ‘महायोगी’ महामु
निर्व्यासो नानाधिकारिकं निखिलं मतं पश्यन्नपि स्वमतत्वेनेति शेषः।
अपरोक्षज्ञानेनैव सर्वे स्वर्गादिकमाप्यते, ज्ञानोत्तरकृतकर्मणा तु तद्

[ अधि - १०. - सू - १०. ] दीपिकासहितम्. ९२७
ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् ।
इतिप्राह महायोगी पुमर्थानांविनिर्णयम् ॥
इति भविष्यत्पर्वणि ।
( १६ ) ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् ।
धिकं भवेदित्येवं देवतालक्षणाधिकारिविशेषविवक्षया ‘पुमर्थानांवि
निर्णयं’ षष्ठ्या अलुक्, व्यधिकरणबहुव्रीहिर्वायं, स्वर्गादिपुमर्थसाध
नविषयकनिर्णयजनकं स्वमतं पृथक्प्राहेत्यर्थः। आकाशवद्व्याप्तज्ञान
महांशुमान् व्यास इति यथाश्रुतान्वयो न सम्भवति, व्याप्तज्ञानवत्त्वरू
पविधेयधर्मस्य पक्षदृष्टान्तोभयान्वयाभावात्, किन्त्वाकाशवद्व्याप्तं
च तत् ज्ञानं चेति विधेयैकदेशेनान्वयो वाच्यः। तथा चायमनन्वय
दृष्टान्तः। अत एव टीकाकृदनन्ताकाशवदित्यनन्वयदृष्टान्त इत्युक्त्वा
तदुपपादयितुं यथाऽऽकाशो व्याप्तस्तथा ज्ञानमित्येकदेशान्वयं प्रदर्शित
तवान् । न च दृष्टान्तस्य अनेकविधत्वाभावः ।
व्यत्यासोऽनन्वयश्चैव प्रसिद्धोऽभूत एव च ।
सर्वसांहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः ॥
इत्युक्तेः । ‘रमादिवन्नास्वतन्त्रो हरिः’ इति व्यत्यासदृष्टान्तः । अनन्व
यस्य तु प्रकृतमेवोदाहरणम् । प्रसिद्धो महानसादिः, ‘यथोर्णनाभिः’
(मु. १-१-७,) इति च । अभूतस्य ‘दिवि सूर्यसहस्रस्य’ इत्याद्युदा
हरणम् । सर्वसांहारिकस्य ‘कृष्णो नारायणवत्, रामः कृष्णवत्’ इ
त्यादि । सर्वेषां नारायणकृष्णधर्माणां कृष्णे रामे चोपसंहारात् । ‘गग
नं गगनाकारम्’ इत्यादि सर्वसांहारिकस्योदाहरणमिति केचिदाहुः ।
भविष्यत्पर्वणीति । मतानां प्रामाण्यमुक्तमिति शेषः ॥
( १६ ) नन्वेवं स्मृत्या मतानां प्रामाण्योक्तावपि परस्परविरुद्धत्वा
त्कथं तत्स्यादित्यतो भगवन्मतं देवताविषयं, जैमिन्यादिमतं मनुष्य
विषयमतो न विरोध इति भावेनात्र स्मृतिमाह—ज्ञानिनामिति ॥ त
त्त्वप्रदीपे तु राजसूयादिना फलाधिक्यमित्युक्तं सममिति चोक्तम् । त
त्र प्रमाणमाह—ज्ञानिनामपीत्यवतारितम् । यद्यपि देवाः ज्ञानिनः, त
थापीत्यर्थेऽपिशब्दः । ज्ञानिनां देवानां ज्ञानेन सर्वफलसिद्धावपीति
वा । ‘विशेषः’ आधिक्यं ज्ञानफल एव, न तु ज्ञाने इति शेषः । कुत
इत्यत आह—चीर्ण इति । कर्मणि ‘चीर्णे’ अनुष्ठिते ‘अकृते’ अननु
ष्ठिते वा ‘ज्ञानस्य’ ज्ञाने ‘विशेषः’ अतिशयः पुरुषार्थसाधनसामर्थ्या