पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 969, कुल 1267 में से
संदर्भ में पढ़ें९२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
इति माठरश्रुतेश्च । संशब्दः प्राधान्यं दर्शयति ॥ ५ ॥
(८) सू—ॐ ॥ तद्वतो विधानात् ॥ ॐ ॥ ६ ॥
ज्ञानी च कर्माणि सदोदितानि
कुर्यादकामः सततं भवेत् ।
इति कमठश्रुतौ ज्ञानवतोऽपि विधानात् ॥ ६ ॥
(९) सू—ॐ ॥ नियमाच्च ॥ ॐ ॥ ७ ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
शरीराद्युत्पादने 'हेतुः' प्राधान्येन कारणं न भवति । किन्तु कर्मशेष
तयैव कारणं भवतीत्यर्थः । 'तदीयान्' देवमानुषीयान् भोगांश्च कर्मे
व ददाति 'यथाविभागं' योग्यायोग्यविभागमनतिक्रम्य पुण्यं शुभफ
लं पापमशुभफलमिति विभागमनतिक्रम्येति वा । कर्मस्वरूपमाह—
शुभाशुभं यदिति । पुण्यपापात्मकमित्यर्थः । तत्त्वप्रदीपे तु नापरस्तत्र
हेतुरित्यर्थः, विष्णोरितरापेक्षया ना परः पुरुषस्स्वतन्त्रहेतुरिति वा
र्थसम्भवादित्युक्तम् ॥
(८) ननु तथाऽपि न ज्ञानस्य कर्मशेषत्वं युक्तं, किन्तु स्वयमेव
पुरुषार्थहेतुः । कस्मात् ? ज्ञानिकर्मणां फलाभावात् । फलाभावेऽप्याचा
रस्तु मुक्तवल्लीलयैवेत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—तद्वत इति ॥
अत्राप्यर्थकचशब्दोऽध्याहार्य इत्याशयेन तद्वत इत्यस्यार्थमाह—ज्ञा
नवत इति । न केवलं ज्ञानरहितस्येत्यपेरर्थः । विधानादिति । कर्मण
इति शेषः । श्रुतौ विधानादिति हेतोर्न ज्ञानिनः कर्म लीलामात्रमित्यध्या
हृतसाध्येनान्वयः । श्रुतिषु 'उदितानि' उक्तानि कर्माणि 'ज्ञानी च'
ज्ञान्यपि सदा कुर्यात् । न केवलमेतावत, किन्तु ज्ञानी सततमकामश्च
भवेतेति श्रुत्यर्थः ॥
(९) इतश्च न ज्ञानिकर्म लीलामात्रमित्यभिदधत्सूत्रं पठति—
नियमाच्चेति ॥ अत्र चस्समुच्चये । नियमोऽकरणे प्रत्यवायः । तेन त
च्छ्रुतिर्गृह्यते । तथा च न केवलं विहितत्वान्न ज्ञानिकर्म लीलामात्रं,
किन्त्वकरणे प्रत्यवायश्रुतेश्चेति सूत्रार्थ इत्याशयेन तां श्रुतिमुदाहर
ति—कुर्वन्निति । इतीत्यस्य सूत्रेणान्वयः । 'कुर्वन्' इति मन्त्रार्थस्तु-
'शतं समाः' शतवर्षाणि 'इह' मानुषादिजन्मनि यावत् 'जिजीविषे
त' जीवितुमिच्छेत् तावत् 'कर्माणि' स्वोचितानि 'कुर्वन्नेव' आम
रणं भगवत्पूजात्मकानि असङ्कल्पितफलानि स्वोचितानि कर्माणि स