पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
८१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्' (बृ. ५-
९-२८.) इति ॥ ४० ॥
(४) सू-ॐ ॥ धर्मं जैमिनिरत एव ॥ ॐ ॥ ४१ ॥
यतः फलं तदेव कर्म ईश्वराद्भवति । 'एष ह्येव साधु
श्चयः, अतः कुतोऽसौ निश्चय इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपा-
त्तश्रुतिमेवोदाहरति—श्रुतत्वाद्वेति ॥ इति श्रुतत्वादित्यन्वयः । न के-
वलं चेतनत्वादुपपत्तेरीश्वरस्य फलदातृत्वं सम्भाव्यते, किन्तु श्रुत्यु-
क्तत्वाच्च तन्निश्चीयते चेति सूत्रार्थः ।
'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ।
तिष्ठमानस्य तद्विदः' (बृ.५-९-२८.)
इति वाजसनेयवाक्ये एकवचनं समुदायापेक्षया, विशेष्यब्रह्मशब्दवि-
वक्षया आनन्दमिति नपुंसकप्रयोगः 'निर्दोषचैतन्यसुखान्तनुम्' इ-
ति विष्णुतत्त्वनिर्णयोदाहृतवाक्य इव । तथा च 'दातुः' हविःप्रदातृ-
णां यजमानानां पूजकानां 'रातिः' प्रियः । फलप्रद इति यावत् । 'ति-
ष्ठमानस्य' स्वस्मिन् मनसा वर्तमानानां 'तद्विदो' ब्रह्मज्ञानिनां 'परा-
यणं' परमप्रियं 'विज्ञानं' पूर्णज्ञानं पूर्णानन्दं ब्रह्मेत्यर्थः । यथोक्तं बृ-
हद्भाष्ये—
स प्रियः सर्वदातॄणां ज्ञानिनां परमप्रियः ।
ये तु तद्भाविता नित्यं तेषामेव परायणम् ॥ इति ॥
ब्रह्मपरत्वस्फोरणाय विज्ञानमित्याद्युदाहृतम् ॥
(४) उक्तमाक्षिपत्सूत्रमुपन्यस्य व्याचष्टे—धर्ममिति ॥ तत्कर्मैवे-
त्येवकारान्वयः । सौत्रधर्मपदमधर्मस्याप्युपलक्षकमिति भावेन तदिति
स्वपदं कर्मेति सामान्यपदेन विवृतम् । ईश्वरात् यतश्श्रुतिरित्याभ्यां अ-
त इति पदं द्वेधा व्याख्यातम् । कर्मेति सामान्योक्त्या 'एष ह्येव' इति
श्रुतिप्रतीकग्रहणेन च 'एष ह्येवासाधु कर्म कारयति' (कौ.३-८.) इ-
त्यस्याप्युदाहर्तव्यतां ज्ञापयति । जैमिनिर्मन्यत इति शेषः । श्रुतिस्तु वैष-
म्येन्वये व्याख्याता। सूत्रे नेति शेषः । तथा च यदुक्तं ईश्वर एव फल-
प्रदो, न कर्मेति तन्न, कुतः ? 'अत एव' फलस्य कर्मान्वयव्यतिरेका-
नुविधायित्वादेव । इदं तु न्याय्यं, किं तत्? यत् 'अतो' धर्माधर्मा-
ख्यकर्मत एव फलं भवति, तच्च कर्म तदीश्वराद्भवति । कुतः ? 'अ-
तः' 'एष ह्येव' इति श्रुतेरेव । यत एवमत ईश्वरोऽपि अतः एतस्मि-
-
सू - ४२. ]
or[ अधि - २०. - सू - ४२. ]. Let's just transcribe:[ अधि - २०. - सू - ४२. ] दीपिकासहितम् । ८११or with dots:[ अधि - २०. - सू - ४२. ] दीपिकासहितम्. ८११`.Let's trace all lines from top to bottom:
[ अधि - २०. - सू - ४२. ] दीपिकासहितम्. ८११
कर्म कारयति' (कौ० ३-८.) इति श्रुतेरिति जैमिनिः ॥ ४१ ॥
( ५ ) सू - ॐ ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ॐ ॥ ४२ ॥
परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म पर
प्रवर्तकम् । पर एव कर्मणः प्रवर्तकः । 'पुण्येन पुण्यं
लोकं नयति पापेन पापम्' (प्र. ३-२.) इति हेतुव्यप
ष 'रातिः' इति श्रुतिवचने एतेन फलदातृत्वेन रूपेणोपचर्यत इति । न
केवलं कर्मणः फलप्रदत्वमन्वयव्यतिरेकरूपन्यायप्राप्त
९१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
देशात् । ‘द्रव्यं कर्म च कालश्च’ इति च ॥ ४२ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य
द्वितीयः पादः.
*
॥ ॐ ॥
र्वोक्तचेतनत्वादिति हेतुः ‘द्रव्यम्’ इति स्मृतिश्च समुच्चीयत इत्युक्तं भ
वति । ‘पुण्येन’ इति श्रुतिः वैषम्यनये ‘द्रव्यम्’ इति स्मृतिश्च रचना
धिकरणे व्याख्याता । अत्र श्रुतेः पुण्येन च ज्ञानमुत्पाद्य पापं विनाशय
तस्य पुण्यपापरहितस्य ज्ञानिनः प्रसन्नः स्वयमेव फलमनन्तं हि ददा
तीत्यहो भगवतो नारायणस्याश्चर्यरूपोऽयं महिमेति तत्त्वप्रदीपोक्तार्थ
विशेषोऽपि ग्राह्यः । कर्मब्रह्मणोः स्वातन्त्र्यास्वातन्त्र्यव्युत्पादनप्रका
रश्च तत्रैवोक्तः ॥ २० ॥
॥ इति फलाधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका
यां तृतीयाध्यायस्य द्वितीयः पादः.
*
॥ ॐ ॥
[ अधि - १०. सू - १. ] दीपिकासहितम्. ८१३
१०. अधिकरणम् ॥
( १ ) उपासनाऽस्मिन् पादे उच्यते । सर्वपरिज्ञानं प्रथमत
उच्यते—
सू—ॐ ॥ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ ॐ ॥ १ ॥
१०. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति—उपासनेति ॥ जिज्ञासापरपर्यायोपास
ना 'अस्मिन्' तृतीयस्य तृतीये पादे 'उच्यते' कर्तव्यत्वेन प्रतिपाद्यत
इत्यर्थः । आद्याधिकरणतात्पर्यमाह-सर्वेति । उपासना द्विविधा । श्रव
णमननापरपर्यायशास्त्राभ्यासरूपा ध्यानरूपा चेति । तत्राद्यायाः य
थाशक्तिसर्ववेदतदर्थज्ञानरूपाया अज्ञानसंशयविपर्ययनिर्वर्तिकायाः
ध्यानाङ्गत्वात् सैव 'प्रथमतः' आद्याधिकरणे 'उच्यते' अधिकारि
भिः सम्पाद्यत्वेन प्रतिपाद्यत इत्यर्थः । अत्र भाष्यसुधाटीकासु सर्ववे
देति सर्वशाखेति च विशिष्योक्त्या मीमांसकमत इव ऋग्यजुस्साम
रूपवेदत्रयस्याध्येतव्यत्वनियमवत्तैत्तिरीयकाण्वादिरूपशाखाद्वयस्य
ध्येतव्यत्वनियमो नास्तीति न भ्रमितव्यमिति सूचितम् । अस्मन्मते
सर्ववेदसर्वशाखोक्तब्रह्मगुणज्ञानार्थं शक्तैस्सर्ववेदवत्सर्वशाखानां अ
ध्येतव्यत्वात् । तदर्थानामपि शक्तैर्ज्ञेयत्वात् । अशक्तैस्तु यथाशक्ति
अध्येतव्यत्वात् ज्ञेयत्वाच्च । अत्र किमेकैकेनैव सर्ववेदशाखोक्तं ब्रह्म
श्रवणमननाभ्यां ज्ञातव्यं उत स्वस्ववेदशाखोक्तमिति संशये स्वस्ववे
दशाखोक्तमेव ज्ञातव्यमिति पूर्वपक्षे च सति सिद्धान्तयत्सूत्रं पठति-
सर्वेति । अत्र वेदान्तपदस्योपनिषत्परत्वभ्रान्तिनिवारणाय अन्तपदं व्या
चष्टे-अन्त इति । अत्र प्रमाणमाह-उभयोरिति । 'नासतो विद्यते भावो
नाभावो विद्यते सतः' ( गी. २-१६. ) इति पूर्वार्धेन असच्छब्दितस्य
कारणस्य प्रकृतेः सच्छब्दितस्य ब्रह्मणश्चाभावः प्रागभावः प्रध्वंसश्च
न विद्यत इति वेदनित्यत्वसाधकानादिनित्यत्वव्याप्तावनेकदृष्टान्तप्रद
र्शनाय तत्रादरपूर्वकं प्रकृतिपरब्रह्मणोरनादिनित्यत्वमभिधाय अत्रार्थे
सम्प्रदायरूपप्रमाणमुच्यते—उभयोरिति । 'अनयोरुभयोः' सदस
तोरन्तो निर्णयोऽनादिनित्यत्वावधारणं 'तत्त्वदर्शिभिः' वेदार्थत
तत्त्वज्ञानिभिः 'अपिदृष्टः' कृतश्चेत्यर्थः । अपिसिञ्चेतिवत् अपिदृष्ट इति
निर्देशः । यद्वा—तत्त्वदर्शिभिरपीति भिन्नक्रमेणापिशब्दान्वयः । न
केवलं 'प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम' इत्यागमसिद्धमेत
<९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
अन्तो निर्णयः 'उभयोरपि दृष्टोऽन्तः' (गी. २-१६.)
इति वचनात् सर्ववेदान्तविनिर्णयोत्पाद्यज्ञानं ब्रह्म।
(२) 'आत्मेत्येवोपासीत' (बृ.३-४-७.) इत्यादिविधीनां त
दित्यपिशब्दार्थः । यद्वा—'अन्तः' निर्णयः तद्विषयीभूतार्थो दृष्ट इत्य
र्थः। अनेन दर्शनमूलकः सम्प्रदायः उपदेशपरम्परारूपो लक्षणयो
क्तो भवति । वचनादिति । गीतायामिति शेषः । सूत्रे पूर्वसूत्रात् ब्र
ह्मवाचकं पूर्वपद्मनुवर्त्य सर्वेति साध्यभागं व्याचष्टे—सर्वेति । सूत्र
भाष्ययोर्वेदशब्दः तदर्थपरः । शब्दविषयकनिर्णयस्य ब्रह्मविषयकत्वा
भावात् । तथा च सर्ववेदानां तदर्थानां अन्तः सर्ववेदान्तः तद्रूपः प्रत्य
यो ज्ञानं यस्य तत्तथोक्तम् । अनेन ब्रह्मण एव सर्ववेदार्थत्वं ज्ञापितम् ।
अन्यथा सर्ववेदाधिगमो व्यर्थस्स्यात् । तथा च तत्त्वप्रदीपटीकारीत्या
पूर्वपदोदितं ब्रह्म सर्ववेदाधिगमानन्तरोत्पन्नविचारसाध्यवेदार्थनिर्ण
यरुपज्ञानविषय इति साध्यार्थः । टीकायां ध्यानार्थिना सर्ववेदान्निर्णी
य श्रवणमननाभ्यां ज्ञातव्यं ब्रह्मेत्यन्वयः । केचित्तु-सर्ववेदानां योऽन्तः
निर्णयः तेनोत्पाद्यं यदर्थज्ञानं तद्विषयो ब्रह्मेत्यर्थ इत्याहुः। अस्मिन् पक्षे
व्यधिकरणबहुव्रीहिमात्रं दोषः । उदाहृततत्त्वप्रदीपटीके अनुगुणे ।
सर्ववेदनिर्णयेनोत्पाद्यज्ञान
[ अधि - १. सू - २. ] दीपिकासहितम्. ८१५
युक्तयुक्तीनां च अविशिष्टत्वात् ॥ १ ॥
( ३ ) सू-ॐ भेदान्नेति चेदेकस्यामपि ॥ ॐ ॥ २ ॥
तत्र उपासीतेत्यादिज्ञानविधिसमीपगतेषु 'अत्र ह्येते सर्व एकंभवन्ति'
(बृ.३-४-७.) 'स य आत्मानमेव लोकमुपास्ते' (बृ.३-४-१५.) 'न
हास्य कर्म क्षीयते' (बृ.३-४-१५.) 'अमृतस्यैष सेतुः' (मुं.२-२-५०)
'वाचो विग्लापनं हि तत्' (बृ.६-४-२१.) इत्यादिवाक्येषूक्तानां युक्तीनां
'अविशिष्टत्वात्' सर्वाधिकारिसाधारणत्वादित्यर्थः । इतरांगस्तु भे
यादिप्रतिपादकत्वात् नाधिकारिविशेषकल्पक इति भावः । बृहदार
ण्यके 'आत्मेत्येवोपासीत' इति विधिसमीपे 'अत्र ह्येते' इत्यात्मत्व
प्रशंसार्थमर्थवादइद्भूतः । अत्र आत्मत्वगुणे 'एते' 'प्राणन्नेव प्राणो
नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः'
(बृ. ३-४-७.) इति पूर्ववाक्योक्ताः प्राणत्ववक्तृत्वद्रष्टृत्वश्रोतृत्व
मन्तृत्वादयः सर्वेगुणाः 'एकं भवन्ति' अन्तर्भवन्तीत्युक्तेः अत्रा
त्मत्वस्य विवक्षितसर्वगुणसंग्राहकत्वयुक्तिरुच्यते । यद्यपि 'अत्र'
आत्मत्वे सर्वेऽप्यान्दादयो गुणाः अन्तर्भवन्तीत्यर्थः टीकायां 'आत्म
गृहीतिः' इत्यधिकरणे अभिहितः । तथा व्यासतीर्थीये 'अत्र' आत्म
शब्दे 'एते' आनन्दादयः सर्वे धर्माः वाच्यत्वेन 'एकं भवन्ति' पुञ्जी
भवन्तीत्यर्थ उक्तः । ते च पूर्वे नोक्ताः, किन्तु तत्त्वप्रदीपोदाहृतवाक्यो
क्ता एव । तथाऽपि 'प्राणन्' इत्यनेनानन्दस्वामित्वनिर्दोषत्वानां ग्रह
णादविरोधः । एवं 'आत्मानमेव लोकम्' इति विधिसमीपवर्तिनि
'न हास्य' इति वाक्ये अक्षयकर्मफलहेतुत्वयुक्तिरुच्यते । तथाऽऽथर्व
णे 'तमेवैकम्' इति विधिसमीपवर्तिनि 'अमृतस्य' इत्यर्थवादे मु
क्तोपसृप्यत्वयुक्तिरुच्यते । तथा बृहदारण्यके 'विज्ञाय' इति वाक्य
समीपवर्तिनि 'वाचो विग्लापनम्' इति वाक्येऽन्यार्थवेदाध्ययनादे
र्वाक्श्रमकरत्वयुक्तिरुच्यत इति ध्येयम् । अनेन चोदनानां विधीनाम
विशेषात्सर्वसाधारणत्वादत एव चोदनायुक्तकाण्वादिशाखानामवि
शेषात्, एवं काण्वैरध्येतव्यं एवं माध्यन्दिनैः इत्यधिकारिविशेषनिर्देश
शून्यत्वात् तदुक्तयुक्तीनामप्यविशिष्टत्वेनाधिकारिविशेषकल्पक
त्वादिति हेतुवाक्यस्यानेकधार्थ उक्तो भवति ॥
( ३ ) उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपपाशं तावद्व्याचष्टे-भे
दादिति ॥ 'विज्ञानम्' इति वाजसनेयके 'सत्यम्' इति तैत्तिरीयके । आ
'विज्ञानमानन्दं ब्रह्म' (बृ. ५-९-२८.) 'सत्यं ज्ञानमन-
न्तं ब्रह्म' (तै. २-१.) इत्यादिप्रतिशाखमुक्तिभेदान्नै-
काधिकारिविषयाः सर्वशाखा इति चेत्—न, एक-
स्यामपि शाखायां 'आत्मेत्येवोपासीत' (बृ.३-४-७.)
दिपदेन 'श्रोता मन्ता' (ऐ.आ.३-२-४-१९.) इत्यैतरेयवाक्यम्, 'य आत्मा
ऽपहतपाप्मा' (छा.८-७-१.) इति छन्दोगवाक्यं च गृह्यते । प्रतिशाखम-
त्याद्युक्तिभेदादित्यन्वयः । इत्यादिरूपा च सा उक्तिश्च इत्यादिरूपा उ-
क्तिः वाचिका येषामर्थानामिति च द्वेधा विग्रहः । एवमाक्षेपांशे साध-
नांशं व्याख्याय साध्यांशं व्याख्याति—नेति । सर्वशाखाः नैकार्थविषयाः
तत्प्रतिपादिकाः, किन्तु भिन्नविषयाः, अत एव नैकविषया नैकाधिका-
रिका इत्यावृत्त्याऽन्वयः। एकेनैकस्यैवार्थस्य ज्ञेयत्वादिति भावः । नञावृ-
त्त्यभिप्रायेण सौत्रं परिहारांशं व्याचष्टे—नेति । तत्तच्छाखोक्तार्थानां पृ-
थक्त्वात्सर्वशाखोक्तं नैकेन ज्ञातव्यम्, किन्त्वनेकैरिति नेत्यर्थः । कुतो
नेत्यतः प्रवृत्तं परिहारांशे साधनभागं व्याचष्टे—एकस्यामिति । न
केवलमनेकशाखास्वित्यपिशब्दार्थः । चोदनापदस्य विपरिणतस्य वि-
शेष्यत्वमभिप्रेत्याह—शाखायामिति । वाजसनेयशाखायामित्यर्थः ।
इत्यादीति । इत्याद्युक्तीनां तदर्थानामानन्दज्ञानरूपत्वादिकधर्माणां च भे-
ददर्शनादित्यर्थः । आवृत्त्यान्वितस्य भेदादित्यस्यासिद्धिपरिहाराय
—दर्शनादित्युक्तम् । आवृत्तिसूचनाय चशब्दः। श्रुतौ कखशब्दावानन्द-
ज्ञानवाचिनौ । आदिशब्देन गुणान्तरोक्तयो गृह्यन्ते । सूत्रे भेदादपी-
त्यपिशब्दान्वयः । न भेदादित्यपि । भेदशब्देन प्रसङ्गभेदोऽपि ग्राह्यः ।
साम्यादिति शेषः । तथा चायं सूत्रार्थः—'भेदात्' प्रतिशाखं 'वि-
ज्ञानमानन्दं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्याद्युक्तिभेदात् अत एव
सर्वशाखोक्तार्थानामपि 'भेदात्' एकेनैकस्यैव ज्ञेयत्वात् न पूर्वपदोक्तं
ब्रह्म सर्ववेदान्तप्रत्ययं, किन्तु स्वस्वशाखान्तप्रत्ययमिति चेन्न । तथा
सति 'एकस्यामपि' चोदनायां शाखायां 'भेदात्' 'आत्मेत्येवोपासीत'
'कं ब्रह्म खं ब्रह्म' (छा.४-१०-५.) इत्याद्युक्तिभेददर्शनात् अत एव तत्रो-
क्तार्थानामपि भेदावगमादेकस्यामपि 'भेदात्' अधिकारिभेदप्रसङ्गात्।
नन्वेकस्यामपि शाखायां विधेयधर्मस्यैव भेदाद्धर्मिणो 'नभेदात्'
अभेदान्न प्रतिपाद्यभेद इति चेन्न । 'अपि' सर्वशाखास्वपि विधेयध-
र्मस्यैव भेदाद्धर्मिणां न पृथक्त्वमिति समाधिसाम्यात् । ननु न सर्व
[ अधि - १०. सू - ३. ] दीपिकासहितम्. ८१७
'कं ब्रह्म खं ब्रह्म' (छा. ४-१०-५.) इत्यादिभेददर्शनात् ॥२॥
(४) सू-ॐ ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधि
काराच्च ॥ ॐ ॥ ३ ॥
'स्वाध्यायोऽध्येतव्यः' (तै. आ. २-१५.) इति सामा
न्यविधेः । हिशब्दात्
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना । इति
स्मृतेः ॥
शाखोक्तं ब्रह्म, तथासति न भेदात् सर्वशाखानामेकविषयत्वात्पौनरु
क्त्यप्रसंगादिति चेन्न । एकस्यामपि साम्यात् । नन्वेकस्यां शाखायां
प्रसंगभेदात् प्रागुक्तस्यानुवादाद्वा न पौनरुक्त्यम् । काण्वश्रुतौ 'अ
यं पुरुषः' (बृ. ६-३-९.) इति द्विरुक्तवाक्यस्य जीवस्य परमात्म
ज्योतिष्ट्वपरस्य स्वप्नसुषुप्तिप्रकरणयोः श्रुतस्य प्रसङ्गभेदेनानुवादवि
धानाभ्रयणात्पौनरुक्त्यवत् छन्दोगश्रुतौ 'सैषा षड्विधा चतुष्पदा गा
यत्री' (छा. ३-१२-५.) इति वाक्ये प्रसङ्गभेदात्प्रागुक्तषाड्विध्यानुवा
देन चतुष्पात्त्वविधानात्तदंशेऽपौनरुक्त्यवच्चेति चेन्न । 'अपि' सर्वशा
खास्वपि प्रसङ्गभेदात् अनुवादादिपरिहारस्य साम्यादिति ॥
(४) पूर्वं सर्ववेदान्तप्रत्ययमित्यत्रैव हेत्वन्तराभिधानाय सूत्रं-स्वा
ध्यायस्येति ॥ अत्र स्वाध्यायस्य तथात्वेनेत्यावृत्तेन हेतुवाक्येनोक्तं हेतुं
साधकं हेतुमाह-स्वाध्याय इति । इति विधेः सामान्यादित्यन्वयः । 'स्वा
ध्यायोऽध्येतव्यः' इति यजुर्वेदगतविधेः 'सामान्यात्' अयं स्वाध्यायो
ऽनेनाध्येतव्यः अयं अनेन इति विशेषं विना सर्ववेदसर्वाधिकारिसा
धारणत्वादित्यर्थः । सामान्यपदेन सौत्रं तथात्वपदं अविशेषादिति प्र
कृतसाधारणार्थकमित्युक्तं भवति । पञ्चमीप्रयोगेन तृतीया पञ्चम्यर्थे
त्युक्तम् । विधेरित्यनन्तरं स्वाध्यायस्य तथात्वेनेति संयोज्यं, तस्य स्वा
ध्यायस्य सर्वशाखाध्ययनस्य तथात्वेन सर्वसाधारणत्वेन एकैकाधि
कारिकत्वेनेत्यर्थः । सूत्रे भाष्ये च हेत्वन्तरद्योतकः चशब्दोऽत्रापि
योज्यः । ननु लोके शाखाभेदस्य प्रसिद्धत्वाद्विधेरपि विशेषनिष्ठता
ऽऽवश्यकीति सामान्यादित्यसिद्धमित्यतः प्रवृत्तस्य हिशब्दस्यार्थमा
ह-हिशब्दादिति । सूचिताया इति शेषः । स्मृतेरित्यस्य विधेः सा
मान्यादित्यनेनान्वयः । ज्ञानोपलक्षकमेतत् । 'द्विजन्मना' त्रैवर्णिकेन
'सरहस्यः' उपनिषत्सहितो रहस्यार्थसहितो वा 'कृत्स्नः' सर्वो वे
१०३
८१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - . ३. ]
( ५) सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः ।
आनन्दो हि फलं यस्मात् शाखाभेदो ह्यशक्तिजः ॥
सर्वकर्मकृतौ यस्मात् अशक्तास्सर्वजन्तवः ।
शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत् ॥
इति समाचारे सर्वेषामधिकाराच्च ॥ ३ ॥
दः 'अधिगन्तव्यः ' अर्थज्ञानार्थमध्येतव्य इत्यर्थः । एवं सर्वशाखत्यपि
द्रष्टव्यम् ॥
( ५ ) किं च अनुष्ठानापेक्षया ज्ञानमात्रस्य सुलभत्वात् यदा सर्ववे-
दोक्तशक्यकर्मानुष्ठाने सर्वेषामधिकारसद्भावः तदा तदुक्तब्रह्मज्ञानं सु-
तरामिति भावेन हेत्वन्तरप्रतिपादनाय प्रवृत्तं समाचारेऽधिकाराच्चेत्यं-
शं सप्रमाणकं व्याचष्टे—सर्वेति ॥ सर्वान् वेदान् सर्वशाखाश्च अधिग-
म्य ' सर्ववेदोक्तमार्गेण' तदुक्तप्रकारेणानुष्ठानपूर्वकं यज्ञादि कर्म 'नि-
त्यशः ' नित्यं कुर्यात् सर्वोऽपि जन्तुरिति विपरिणामेनान्वयः । न च प्र-
योजनाभावः। 'हि' यतः यस्माद्वेदोदितसर्वकर्मज्ञानतदनुष्ठानात् 'आन-
न्दः ' मौक्त
[ अधि - १०. सू - ५० ] दीपिकासहितम्. ८१९
( ६ ) सू—ॐ ॥ सलिलवच्च तन्नियमः ॥ ॐ ॥ ४ ॥
यथा सर्वं सलिलं समुद्रं गच्छति । एवं सर्वाणि वच
नानि ब्रह्मज्ञानार्थानीति नियमः ।
( ७ ) आग्नेये च—
यथा नदीनां सलिलं शक्ये सागरगं भवेत् ।
एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये ॥ इति ॥४ ॥
( ८ ) सू—ॐ ॥ दर्शयति च ॥ ॐ ॥ ५ ॥
सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः
प्रसिध्येत् ।
र्यवसायित्वं, न त्वक्षरग्रहणमात्रे चरितार्थत्वम् । न केवलं स्वाध्याय
स्य तथात्वात्, किन्तु सर्ववेदोक्तकर्मसमाचारे सर्वेषामधिकारात् ,
अत एव सुतरां तत्साध्ये ब्रह्मज्ञानेऽधिकाराच्च , पूर्वं ब्रह्म एकैकेनैव
सर्ववेदान्तप्रत्ययमिति सूत्रार्थ उक्तो भवति । तत्त्वप्रदीपे तु कैमुत्यं न
प्रदर्शितम् ॥
( ६ ) ननु यदि सर्वशाखोक्तप्रकारेण जानतो ध्यानाधिकारः, त
र्ह्यधमाधिकारिणां ध्यानाभावः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा
व्याचष्टे—सलिलवदिति ॥ ‘सर्वं सलिलं’ नद्यादिजलं ‘गच्छति’
प्राप्नोति ‘वचनानि’ वेदवचनानि ‘ब्रह्मज्ञानार्थानि’ पुंशक्त्यनुसारेण
स्वज्ञानद्वारा ब्रह्मज्ञानप्रयोजनानीत्यर्थः । इति नियम इति । इत्येवंरू
पन्नियम इत्यर्थः । अनेन सूत्रे स चासौ नियमश्च तन्नियमः ध्यानेच्छु
ना सर्ववेदान्तप्रत्ययं ब्रह्म सर्ववेदोक्तप्रकारेण ज्ञातव्यमित्येवंरूपः, त
स्य तत्त्वं च प्रतिबन्धाभावमपेक्ष्य प्रवृत्तत्वं, चशब्दश्च प्रतिबन्धाभाव
मपेक्ष्यैव नियमो, न त्वतिदृढ इत्यवधारणार्थ इत्युक्तं भवति ॥
( ७ ) चशब्दः स्मृतिसमुच्चायकोऽपीत्यभिप्रेत्यात्रैवार्थे स्मृतिमा
ह—आग्नेये चेति ॥ न केवलं सूत्रे, किन्तु स्मृतावप्ययमर्थ उक्त इत्य
र्थः । शक्य इति । समुद्रं गन्तुं शक्ये सतीत्यर्थः । असति प्रतिबन्धक
इति यावत् । ‘वाक्यानि’ वेदवचनानि ‘पुंशक्त्या’ पुरुषशक्त्यनु
सारेण ‘ब्रह्मवित्तये’ अध्ययनद्वारा परब्रह्मज्ञानाय भवन्तीत्यर्थः । त
था च यथाशक्त्यधीतसर्ववेदेभ्यः श्रवणमननाभ्यां ब्रह्म जानतां मन्दा
नामपि ध्यानोपपत्तिरिति भावः । इत्याग्नेये इतीतिशब्दान्वयः ॥
( ८ ) चोदनाद्यविशेषादित्यक्तिसमर्थितार्थे श्रुतिस्मृतिभ्यां च सां
) सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वात् इति ।
Line 11: अत आह—
And then the Bhashya cuts off or continues on the next page!
NOW LOOK AT THE COMMENTARY SECTION (below the horizontal rule):
Line 12 starts with:
"...ध्यत्सूत्रं पठित्वा तद्वचनद्वयमुदाहरति—दर्शयति चेति ॥"
Wait! What was at the bottom of the previous page (page 819) in the commentary section?
Probably something ending in: "मध्य..." or "...त्य"!
Wait, could it be "तृतीयं सूत्रं पठित्वा..."? No, "ध्यत्सूत्रं" -> "...ध्य तत्सूत्रं"?
Yes! Page 819 ended with something like "...समा", and page 820 continues: "ध्य तत्सूत्रं पठित्वा तद्वचनद्वयमुदाहरति—दर्शयति चेति ॥"
Or "बोध्य तत्सूत्रं"? "विचार्य तत्सूत्रं"?
"ध्य तत्सूत्रं" -> because of space/hyphenation or sandhi: "ध्य तत्सूत्रं" or "ध्यत्सूत्रं"!
Look at the characters: "ध्यत्सूत्रं" (dhya-tsū-traṃ)!
It's definitely continuing from page 819!
Then in the commentary section:
Lines 12–23 explain:
"दर्शयति चेति ॥ तमेतमर्थं यतः श्रुति
[ अधि - २. सू - ६. ] दीपिकासहितम्. ८२१
सू—ॐ ॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ॐ ॥ ६ ॥
सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमा-
त्मोपास्यः ।
( २ ) उपास्य एकः परतः परो यो
वेदैश्च सर्वैस्सह चेतिहासैः ।
सपञ्चरात्रैस्सपुराणैश्च देवः
सर्वैर्गुणैस्तत्र तत्र प्रतीतैः ।
इति भाल्लवेयश्रुतिः ।
पोपसंहारस्याशक्यत्वेन तत्पूर्वकोपासनस्याप्यशक्यत्वादित्यर्थः । स-
र्वपरिज्ञानं तु विततप्रज्ञानां केषां चित् कथं चित् क्रमेण शक्यमिति
भावः । सूत्रे सर्ववेदान्तेत्यतः सर्ववेदेत्यनुवर्तते । अर्थशब्दो गुणदोषा-
भावपरः । सर्ववेदार्थाभेदात् उपसंहार इत्यन्वयः । अर्थपदं चोभयान्व-
यीत्यभिप्रेत्य उपसंहारोऽर्थाभेदादिति प्रति
८२२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.]
( ३ ) आग्नेये च--
विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि ।
यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥
एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः ।
योजयित्वैव भगवानुपास्यो नान्यथा क्वचित् ॥ इति ॥
( ४ ) समानविषये चोपसंहारः । न तु ' सोऽरोदीत् ' ( तै.सं.
१-५-१० ) इत्यादीनाम् ।
श्रुतिः। एक इति पदेनार्थभेदादिति सूत्रावयवं व्याचष्टे । एको हि पर
मात्मा सर्ववेदादिभिरुपास्योऽर्थ इति तत्त्वप्रदीपोक्तेः । अस्मिन् पक्षे
' एकः ' अभिन्न इत्यर्थः । ' सूत्रावयवं ' अभेदादिति सूत्रावयवावय
वम् । भावबोधे तु बहुवचनेन त्रिमात्रप्रतीतिवारणाय सर्वैरितिपदेन
विवृतमित्युक्तम् । ' तत्र तत्र ' वेदपुराणादिषु ' प्रतीतैः ' प्रतिपादितै
रित्यर्थः । श्रुतिरित्यनन्तरं यत इति शेषः ॥
( ३ ) उपसंहृत्योपास्य इत्यत्रैवार्थे स्मृतिमाह-आग्नेये चेति ॥ श्रुति
समुच्चये चः। ' विधिशेषाणि ' शिष्यन्त इति शेषाणि विधिभिः शिष्टानि
'सोमेन यजेत' (आप.श्रौ.१०-२-१.) इत्यादिविधिविहितानि कर्माणि ज्यो
तिष्टोमादीनि । यद्वा-प्रधानविधिशेषाणि कर्माणि प्रयाजादीनि । न के
वलं स्वस्वशाखाविधिविहितानि, किन्तु सर्ववेदोदितान्यपि 'अविशेष
तः ' अधिकारिविशेषाविभागेन ' सर्वैः ' शाखिभिः यथा कार्याणि, ए
वं भगवान् सर्ववेदोक्तान् गुणान् दोषाभावांश्च ' यत्नतः ' श्रवणादिप्र
यत्नतः ' योजयित्वा ' यथाशक्त्युपसंहृत्यैव सर्वैरुपास्यो, न तु ' क्वचि
त् ' कालदेशपुरुषेषु उक्तस्यान्यथाभावोऽस्तीत्यर्थः । इतिशब्दस्य इत्या
ग्नेये वचनाच्च उपास्य इत्यन्वयः ॥
( ४ ) सर्ववेदोक्तगुणोपसंहारमुक्त्वा तदपवादमाह - समाने चेति ॥
तद्व्याचष्टे - समानविषये चेति ॥ योग्यगुणविषय एवेत्यर्थः । अनेन
विषयसप्तमीयम्, चोऽवधारण इति सूचितम् । उपसंहार इत्यस्यावृ
त्त्याऽत्राप्यन्वय इत्याह - उपसंहार इति । चशब्दार्थवधारणव्यावर्त्य
माह - न त्विति । ' इत्यादीनां ' इत्यादिवाक्यबोध्यानामर्थानाम् । अस
मानानामिति शेषः । इत्यादीनामुपसंहार इत्यन्वयः । अयोग्योपासनेना
नर्थप्राप्तेरिति भावः । आदिशब्देन 'यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' ( तै.
सं.१-५-१.) 'रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेष' (तै.आ.१-५०) इत्या
[ अधि - २. सू - ७. ] दीपिकासहितम्. ८२३
( ५ ) गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन ।
गुणैरपि न तूपास्यो ये पूर्णत्वविरोधिनः ॥
इति बृहत्तन्त्रे ॥ ६ ॥
( ६ ) सू—ॐ ॥ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥ॐ॥७॥
‘ आत्मेत्येवोपासीत ’ (बृ. ३-४-७.) इति शब्दादुपसं-
दिश्रुतिर्गृह्यते । ‘ सः ’ प्रकृतो महादेवः ‘ अरोदीत् ’ रोदनमकार्षीत् ।
अरोदीदिति पदबोध्यं यद्रोदनं तद्रुद्रस्य प्रसिद्धस्य ‘ रुद्रत्वं ’ रुद्रश-
ब्दप्रवृत्तिनिमित्तम् । विष्णुविवक्षायां तु रोदनस्वातन्त्र्यं रुद्रशब्दप्रवृ-
त्तिनिमित्तमिति विवेकः। आरोपितं धनुः क्षिताववष्टभ्य स्थितस्य रुद्र-
स्य शिरो ज्यायां वम्रिरूपेण इन्द्रेण छिन्नायां उत्क्षिप्तवा ‘धनुरात्निः’
धनुष्कोटिः ‘ उत्पिपेष ’ चिच्छेदेति श्रुत्यर्थः ॥
( ५ ) अत्र स्मृतिमाह—गुणैरिति ॥ ‘ सः ’ विष्णुः ज्ञानानन्दादि-
गुणैरेवोपास्यः, न तु दुःखादिदोषैः । ननु रोदनादीनामपि विधिमुख-
वेद्यत्वेन गुणत्वादुपास्यत्वापत्तिः । तथा च ‘ नैव दोषैः ’ इति व्याहत-
मित्यतः उक्तस्यापवादमाह—गुणैरिति । भगवान् ये पूर्णत्वविरोधि-
नो मितभुक्तवादयस्तादृशगुणैरपि नोपास्य एव मितभुक्तवादीनां लो-
के गुणत्वेऽपीश्वरे दोषत्वात् । तत्र बहुभुक्तस्यैव गुणत्वात् । तदुक्त-
म् —‘बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ’ इति बृहत्तन्त्रे उ-
क्तमिति शेषः । सूत्रार्थस्तु—अर्थानां सर्ववेदार्थभूतानां धर्माणां भावा-
भावरूपाणां अभेदात् अविभागेन एते उपसंहर्तव्या एते तु नेति वि-
भागमन्तरेण उपसंहारो युगपद्बुद्ध्यावारोपः कार्यः । उपसंहृत्य च पर-
मात्मा तद्गुणात्मकत्वेन ध्यातव्य इति यावत् । कुतः? यतो ‘विधिशेष-
वदयं ’ विशिष्टसन्ध्यावन्दनादिवदस्यापि विहितत्वात् । गुणदोषाभा-
ववत् दोषाणामप्युपसंहर्तव्यत्वं किं न स्यादिति न वाच्यम् । यतः
स चोपसंहारः ‘ समाने च ’ योग्ये एव पूर्णत्वाविरोधिगुणविषये ए-
व युक्तः, न तु तद्विरोधिरोदनमितभुक्तत्वादिष्विति ॥
( ६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—अन्यथात्व-
मिति ॥ अत्र पूर्वसूत्राद्विधिशेषवदिति पदस्यानुवृत्तिं उपसंहारस्येति
विपरिणतपदानुवृत्तिं अन्यथात्वमित्यस्यावृत्तिं चाभिप्रेत्य शब्दपदगृ-
हीतश्रुत्युदाहरणपूर्वकं आक्षेपांशं व्याचष्टे—आत्मेति । योजना तु ‘वि-
हारस्यान्यथात्वमिति चेन्न, एते गुणा नोपास्या इति
विशेषवचनाभावात् 'सर्वैर्गुणैरेक एवेशिताऽसावुपा
सितव्यो न तु दोषैः कदाचित्' ( ) इति विशे
षवचनाच्च । आत्मेत्येवेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥७॥
(७) सू--ॐ ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादि
वत् ॥ ॐ ॥ ८ ॥
'विशेषवत्' विधिविहितोपसंहारवत् यतः 'आत्मा' इति शब्दादुप
संहारस्यान्यथात्वं च अनुपसंहारः अल्पगुणज्ञानरूपोऽप्यर्थाद्विहितः
ततश्च 'अन्यथात्वे' अन्यथोपसंहारे विधिशेषस्य विधिविहितकर्म
णः 'अन्यथात्वं' लोपः प्रसज्यते तदुपसंहारस्य 'अन्यथात्वं' अकर्त
व्यत्वं सिद्धमिति । परिहारांशं व्याचष्टे—नेति । सर्वगुणोपसंहारस्य
'अन्यथात्वं' अभावः नेत्यर्थः । कुतो नेत्यतः किमसो प्रामाणिकत्वा
दङ्गीक्रियते, उत तद्विरोधिगुणोपसंहारे प्रमाणाभावाद्वेति विकल्प्य
आद्यपक्षनिषेधहेतुत्वेन अविशेषादिति पदं व्याचष्टे—एत इति । विशेषे
ति । विशेषप्रमाणाभावादित्यर्थः । नाविशेषादित्यस्यैकपद्याश्रयेण
विशेषवचनादित्यर्थाभिप्रायेण द्वितीयपक्षनिषेधहेतुत्वेनाप्येतद्वयाच
ष्टे—सर्वैरिति । सर्ववेदोक्तैरित्यर्थः । 'गुणैः' पूर्णत्वाविरोधिधर्मैः ।
तथा चासावीश्वरः 'एक एव' अभिन्न एव सर्वगुणैरेव 'उपासितव्यः'
उपसंहृत्य ध्यातव्यो न तु दुःखादिदोषैरपीति योजना । चः समुच्चये ।
नन्वात्मत्वमेवोपासीत न त्वन्यदिति आत्मत्वावधारणादेव तदन्यगु
णा नोपास्या इति सिद्ध्यतीत्यतः तदुत्तरत्वेनाप्यविशेषादिति हेतुं
व्याचष्टे—आत्मेति । इत्यवधारणमिति । इतिवाक्यगतैवैकार इत्यर्थः ।
अनात्मत्वेति । अनात्मत्वमात्मन्ययोगः तस्य निवृत्तिर्व्यवच्छेदः स ए
वार्थो यस्य तत्तथोक्तम् । यतोऽतो न तद्विरोध इति वाक्यशेषः । तथा
च भगवन्तं आत्मैवायमित्युपासीत न त्वनात्मेतीति उत्तमाधिकारिणः
प्रति अयोगव्यवच्छेदक एव एवकारो नान्ययोगव्यवच्छेदकः । निर
वकाशोदाहृतश्रुतिविरोधादिति भावः । अनेनावधारणस्यायोगव्यव
च्छेदेऽप्यविशेषादिति सौत्रहेतोरर्थान्तरमुक्तं भवति ॥
(७) ननु नायं सर्वगुणोपसंहारो युक्तोऽशक्यत्वादित्याशङ्कामभ्यु
पगंमवादेन परिहरन् न वेति सूत्रं उपसंहारः कार्य इत्येतयोरनुवृत्त्य
ध्याहाराभ्यां व्याचष्टे—प्रकरणभेदादिति ॥ परोवरीयस्त्वादिवदित्या
[ अधि - २. सू - ९. ] दीपिकासहितम्. ८२५
प्रकरणभेदान्न वोपसंहारः कार्यः । परोवरीयस्त्वा-
द्विषु तावदेव ह्युक्तम् ॥ ८ ॥
( ८ ) सू-ॐ ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ॐ ॥ ९ ॥
दावुपस्कार्यम् । वेति व्यवस्थितविकल्पः । तथा च एवमुपसंहारः
कार्यतयोक्तः नासौ कार्यों वा । कुतः ? परोवरीयस्त्वादिवत् प्रकरण-
भेदात् । परोवरीयोवैश्वानरादिप्रकरणानां विद्यानां भेदादित्यर्थः । य-
द्येकैकस्य सर्वगुणोपासनं स्यान्न तर्हि प्रकरणानि भिद्येरन् कारणा-
भावादिति भावः । नन्वेकस्मिन्नेव प्रकरणे सर्वगुणोक्तिसम्भवात्प्र-
करणभेदेऽपि सर्वगुणोपासनोपपत्तिरित्यत आह—परोवरीयस्त्वादि-
ष्विति । परोवरीयस्त्वादिगुणप्रतिपादकेष्वित्यर्थः । प्रकरणेष्विति। यथे-
ति च शेषः । परोवरीयस्त्वं नाम 'परस्मात्' इत्यनेन निरुक्तं निरवधि-
कसर्वोत्तमत्वम् । आदिपदेनोद्गीथत्वानन्तत्वे प्रकरणान्तरोक्तं च गृह्य-
ते । स्पष्टं गुणप्रतिपत्त्यर्थं त्वप्रत्ययः । सूत्रे तु सप्तम्यन्तं प्रथमान्तं चे-
तत् । अनेनैवं सर्वगुणोपसंहारः कर्तव्यतयोक्तः सः न कर्तव्यो वा । कु-
तः ? 'प्रकरणभेदात्' परोवरीयोवैश्वानरादिविद्याभेदात् । अन्यथा
स न स्यात् । न चैकस्मिन् प्रकरणे सर्वगुणोक्तिसम्भवात्प्रकरणभेदे-
ऽपि सर्वगुणोपसंहारोपपत्तिरिति वाच्यम् । यतः 'परोवरीयस्त्वादिव-
त्'निरवधिकसर्वोत्कृष्टत्वरूपपरोवरीयस्त्वादिगुणप्रतिपादकेषु 'स एष
परो वरीयानुद्गीथः स एषोऽनन्तः' (छा.१-९-२.) इत्यादिषु प्रकरणेषु
तावदेवोपास्यगुणेषु । कियदेव ? परोवरीयस्त्वादि उक्तं न सर्वमत
इति सूत्रार्थ उक्तो भवति ॥
( ८ ) उक्तमाक्षिप्य समादधत्सूत्रं—संज्ञात इति ॥ अत्रापि पूर्वव-
दुपसंहारः कार्य इत्येतयोरावृत्त्यध्याहाराभ्यामाक्षेपांशं व्याचष्टे—
सर्वेति । सर्वस्येत्यावर्तते । गुणाभिधायकत्वात् गुणाभिधानस्य चो-
पसंहारार्थत्वादिति शेषः । कार्य इति सावधारणम् । तथा च 'सर्व-
स्य' सर्वविद्योक्तगुणस्योपसंहारः कार्य एव । कुतः ? 'सर्वस्य' वि-
द्यराशेः ब्रह्मगुणाभिधायकत्वात् गुणाभिधानस्य चोपसंहारार्थत्वात्।
न चासिद्धिः । 'सर्वस्य' शब्दराशेः ब्रह्मनामत्वात् । नामोदितगुणा-
नुपसंहारे तन्नाम्नो ब्रह्मणोऽनुपासितप्रसङ्गादिति योजना । अनेन सूत्रे
सर्वस्येति शेषः कार्यः,संज्ञात इति भावप्रधानमित्युक्तं भवति । ननु स-
र्वस्य ब्रह्मनामत्वमसिद्धमित्यत आह—'सोऽहं नामविदेवास्मि नात्म-
१०४
८२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
सर्वविद्या उक्त्वा 'सोऽहं नामविदेवास्मि नात्मवित्'
(छा.७-१-३.) इति वचनात्सर्वस्य ब्रह्मनामत्वात्तदु-
पसंहारः कार्यः ।
( ९ ) नामत्वात्सर्वविद्यानां गुणानामुपसंहृतिः ।
कार्यैव ब्रह्मणि परे नात्रकार्या विचारणा ॥
वित्' इति वचनादिति । सनत्कुमारं प्रति नारदोक्तेरित्यर्थः । इति व-
चनादवगतात् ब्रह्मनामत्वादित्यन्वयः । 'सः ' एवं सर्वविद्यावेत्ताऽप्य-
हं परमात्मनामविदेवास्मि न परमात्मवित् । कुतः ? सर्वविद्यानिर्णेत-
व्याज्ञानादिति श्रुत्यर्थः । यद्यपि ' मन्त्रविदेव ' इति छन्दोगानां पाठः ।
तथाऽपि शाखान्तरवाक्यमेतदित्यदोषः । ' यद्वै किं चिदध्यगीष्ट नामै-
वैतत् ' ( छा. ७-१-३.) इति उत्तरवाक्यबलान्मन्त्रशब्दो नामपरो वा ।
केचित्तु — ' मन्त्रवित् ' इत्येव श्रुतिपाठः । भाष्यं तूपनिषदर्थानुवादप-
रमित्याहुः । ननु 'सोऽहम् ' इति वाक्ये स्वस्य नामवित्त्वमात्रोक्तावपि
कथं सर्वस्य ब्रह्मनामत्वसिद्धिरित्यत आह — सर्वेति । ऋग्वेदमित्यादि-
नेति प्रागध्याहार्यम् । वेदयन्तीति विद्या वेदादयः । तथा च ' ऋ-
ग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदं अथर्वणं चतुर्थमितिहासपुरा-
णं पञ्चमं वेदानां वेदम् ' ( छा. ७ - १ - २. ) इत्यादिनाऽऽत्मनः
सर्वविद्यावेदित्वमुक्त्वेत्यर्थः । यद्वा — ऋगादिसर्वविद्या आत्मना अ-
धीता इत्युक्त्वेत्यर्थः । तथा च सर्वविद्यावेत्ताऽहं नामविदेवेत्युक्ति-
बलात् सर्वस्य ब्रह्मनामत्वमवगम्यत इति भावः । श्रुत्यर्थस्तु — ' भग-
वो ' भगवन् सनत्कुमार अहं ऋग्वेदादिकमध्येमि । इतिहासपुराणमि-
ति द्वन्द्वैकवद्भावः । विशेष्यनिघ्नोऽयं शब्दः । वेदशब्द आवर्तते । तथा
च इतिहासपुराणात्मकं ग्रन्थं वेदं सन्तं वेदानां पञ्चमं पञ्चत्वसङ्ख्या-
पूरणं वेदमध्येमीति ॥
( ९ ) अत्रैव स्मृतिमाह — नामत्वादिति ॥ सर्वविद्यानां ब्रह्मनाम-
त्वात् । अत एव सर्वगुणाभिधायकत्वाद्गुणाभिधानस्य चोपसंहारार्थ-
त्वात्परे ब्रह्मणि गुणानामुपसंहृतिः कार्यैवेति योजना । इति चेति । इ-
ति ब्रह्मतर्कवचनाच्चोपसंहारः कार्य इत्यन्वयः । न केवलं सूत्रकृदुक्त-
हेतोरिति चार्थः । अभ्युपगमरूपं तदुक्तमित्यादिसमाधानांशं व्याच-
ष्टे — सत्यमिति । सोपपत्तिकं यद्गुणोपसंहारकर्तव्यत्वमुक्तं तत् ' स-
[ अधि - ३. सू - १०. ] दीपिकासहितम्. ८२७
इति च ब्रह्मतर्के । इति चेत् सत्यं, उक्तो ह्युपसंहारः ।
तत्प्रमाणमप्यस्त्येव । ' नाम वा एतां ब्रह्मणः सर्ववि
द्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः' इति कौण्डिन्य
श्रुतौ ॥ ९ ॥
३. अधिकरणम् ॥
( १ ) सू—ॐ ॥ प्राप्तेश्च समञ्जसम् ॥ ॐ ॥ १० ॥
त्यं' युक्तमेवेत्यर्थः । अनेन सूत्रे सत्यमिति शेषः । तस्य तदित्यनेनान्व
य इत्युक्तं भवति । कथं युक्तमित्यतस्तद्धेतुत्वेनापि तदुक्तमित्येतद्योज
यति—उक्तो हीति । ' हि' यतः कर्तव्यतयेति शेषः । अनेन तदुपसंहा
रकर्तव्यत्वं यतोऽस्माभिः ' उक्तं ' साधितमिति सूत्रखण्डार्थ उक्तो भ
वति । श्रुत्याऽप्युक्तार्थसाधनाय—अस्ति तु तदपीति सूत्रांशः प्रवृत्तः ।
तं व्याचष्टे—तदिति । तदित्यनूद्य प्रमाणमित्यर्थकथनम् । यद्वा—त
स्मिन् सर्वविद्यानां ब्रह्मनामत्वेन तद्गुणाभिधायकत्वादुपसंहारः कार्य
इत्युक्तार्थे इत्यर्थः । ' प्रमाणं ' श्रुतिवचनम् । न केवलं गुणाभिधान
स्योपसंहारार्थत्वादिति युक्तिमात्रमित्यपिशब्दार्थः । सौत्रतुशब्दार्थमा
ह—एवेति । अस्य सत्यमित्यनेनान्वयः । एतास्सर्वविद्याः परब्रह्मनामै
व, तस्माद्विष्णुरेक एव सर्वगुणैरुपसंहृत्योपास्य इत्यर्थः । यावच्छ
क्तिप्रयत्नेनोपसंहारे फलाधिक्यबोधनार्थं बहुप्रमाणग्रहणार्थं च पुनः
पुनः उपसंहारोपन्यास इति न पौनरुक्त्यमिति तत्त्वप्रदीपोक्तिः । कौ
ण्डिन्यश्रुतावित्यस्य उक्तो ह्युपसंहार इत्यनुषङ्गः । अतः तत्प्रमाणम
स्त्येवेत्यन्वयः ॥ २ ॥
॥ इति उपसंहाराधिकरणम् ॥
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे प्रागुक्तोपसंहारानुपसंहारयोः पुरुषभेदेन क
र्तव्यत्वं समर्थ्यते । सूत्रे समञ्जसमित्यनेन असमञ्जसमिति पूर्वपक्षस्य
सूचनात्तमुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—प्राप्तेश्चे
ति ॥ समञ्जसमित्यस्यार्थो—युज्यत इति । चशब्दोऽवधारणे । अनेन
सौत्रश्चशब्दः भिन्नक्रम इति सूचितम् । उपसंहारोऽनुपसंहार इति
सूत्रेऽनुषक्तपदस्यार्थकथनम् । चः समुच्चये । युज्यत इत्यस्य प्रत्येकं
८२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् ।
( २ ) गुणैस्सर्वैरूपास्योऽसौ ब्रह्मणा परमेश्वरः ।
अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु ॥
इति भविष्यत्पर्वणि ॥ १० ॥
:—*—:
४. अधिकरणम् ॥
( १ ) सू—ॐ ॥ सर्वाभेदादन्यत्रेमे ॥ ॐ ॥ ११ ॥
सम्बन्धः । पुरुषभेदेनेति शेषः । नन्वनेनोपसंहारः कर्तव्यः अनेनानुप-
संहार इति निर्णयाभावात् तौ पुरुषभेदेनापि न युक्तावित्यतस्तदुत्तर-
त्वेन प्राप्तेरित्येतद्व्याचष्टे—योग्यतेति । प्राप्यते फलमनयेति प्राप्तिर्यो-
ग्यता । तथा च स्वभुजवत् ध्यानकाले युगपद्बहुणप्रतीत्यादियोग्यता-
विशेषादित्यर्थः । विशेषात् प्राप्तेरित्यनेन प्राप्तेरित्यस्य पुरुषविशेषात्
निर्णयसंभवादित्यप्यर्थ उक्तो भवति । तत्र युगपद्वेदोक्तसर्वगुणप्रती-
तियोग्यता ब्रह्मणः । देवपित्रादीनां क्रमेण न्यूनगुणप्रतीतिः । मानुषा-
णामल्पगुणप्रतीतिरित्येवं युगपत्प्रतीत्यादियोग्यता ज्ञातव्या ॥
( २ ) युगपत्सर्वगुणप्रतीतिः ब्रह्मणः, अन्येषां क्रमेणेति तदेव
शृङ्गग्राहिकया स्मृत्या दर्शयति—गुणैरिति ॥ 'अन्यैः' चतुर्मुखेतर-
देवपित्रादिभिः । चोऽप्यर्थः । मानुषैस्त्वित्यन्वयः । 'कैश्चित्' अल्पै-
रानन्दादिगुणैः । यद्यपि स्मृतावूपासनाविशेष एवोच्यते न तु प्रती-
तिनियमः । तथापि ध्यानरूपोपासनस्य गुणप्रतीतिसाध्यत्वादर्थात्त-
ल्लाभ इति भावः । तथा च सर्वैर्गुणैरित्यस्य युगपत् प्रतीतेरित्यभ्युप-
गमान्नासंगतिरिति भावः ॥ ३ ॥
॥ इति प्राप्त्यधिकरणम् ॥
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे बहुगुणोपसंहारस्य फलातिशयोक्त्या कर्तव्यता
समर्थ्यते । प्रमाणाभावेन फलविशेषानिर्णयादयुक्तो बहुगुणोपसंहार
इति प्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे—सर्वेति ॥ अत्र पूर्वसूत्राद-
वधारणार्थकचशब्दशिरस्कस्य विपरिणतसमञ्जसपदस्योपसंहारस्तू-
त्रादुपसंहारपदस्य चानुवृत्त्या युक्त एव ब्रह्मादीनां यथायोगं बहुगुणो-
पसंहार इति साध्यलाभमभिप्रेत्य तत्र हेतुसमर्पकतया सूत्रं व्याचष्टे—
[ अधि - ५. सू - १२. ] दीपिकासहितम्. ८२९
सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति।
( २ ) सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् ।
इतरे तु यथायोगं सम्यङ्मुक्तौ भवन्ति हि ॥
इति पाद्मे ॥ ११ ॥
—-::-—
५. अधिकरणम् ॥
( १ ) सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमित्यत आह—
सर्वैति । सर्वगुणयुक्तत्वेनोपासनादित्यनेन सर्वाभेदादित्यस्य एते गु-
णा उपसंहर्तव्या एते तु नेति विभागं विना सर्वेषां गुणानामभेदादवि-
भागेनेत्यर्थ उक्तो भवति । 'उपासनात् ' उपसंहृत्योपासनान्निमित्ता-
दिति शेषः । अन्यत्रेत्यस्य विशेष्यमाह—फल इति । एवकारेणाल्पफ-
लव्यावृत्तिः । अनेनान्यत्रेत्यस्यानुपसंहाराल्पाधिकारिभ्योऽन्यत्र तत्फ-
लविलक्षणे फले इत्यर्थ उक्तो भवति। इमे इत्यस्यार्थो—ब्रह्मादय इति।
इमे इति विशेषतः प्रस्तुतत्वात् सर्वोपसंहारा उच्यन्त इति तत्त्वप्रदी-
पोक्तेः । यद्यपि ब्रह्मैव सर्वोपासक इति आदिपदानुपपत्तिः । तथाऽपि
तदनतिन्यूनब्रह्माण्यादिविषयमादिपदमित्युक्तं तत्त्वप्रदीपे । भवन्ती-
ति सूत्रे शेषोक्तिः । यत इति शेषः । अस्य लब्धसाध्येनान्वयः ॥
( २ ) न केवलमुपासनानां महदल्पत्वाभ्यां तत्फलानामपि महद-
ल्पत्वे निश्चीयेते, किन्तु तथा स्मृत्युक्तत्वाच्चेत्याह— सम्पूर्णेति ॥ 'आ-
नन्दभाक् ' आनन्दयुक्तः । तुशब्दोऽप्यर्थः । सम्यगिति क्रियाविशेषण-
म् । तथा च 'इतरे तु' ब्रह्म ब्रह्माणीतरदेवादयोऽपि 'यथायोगं' यथायो-
ग्यं उपासनात् मुक्तौ यथायोगं 'सम्यग्भवन्ति' अतिशयवन्तो भव-
न्तीत्यर्थः । तत्त्वप्रदीपे तु सम्यङ्मुक्तावित्येकपदाभिप्रायेण इतरे तु
यथायोगं यथाशक्त्युपास्तिं कुर्वाणाः 'सम्यङ्मुक्तौ भवन्ति' यथा-
योगं फलभाजो भवन्ति । सम्यङ्मुक्ताविति वचनादत्यल्पगुणोपास-
कानामपि सम्यङ्मुक्तिरेव नासम्यङ्मुक्तिरिति सिध्यति । दुःखलेशा-
भावादिति विशेषार्थ उक्तः । पाद्मे वचनादिति शेषः ॥ ४ ॥
॥ इति सर्वाभेदाधिकरणम् ॥
::
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे सर्वमुमुक्षुसाधारणोपास्यगुणा निर्णाय्यन्ते ।