सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 876, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 876

[ अधि - ५. सू - १२. ] दीपिकासहितम्. ८२९
सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति।
( २ ) सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् ।
इतरे तु यथायोगं सम्यङ्मुक्तौ भवन्ति हि ॥
इति पाद्मे ॥ ११ ॥
—-::-—
५. अधिकरणम् ॥
( १ ) सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमित्यत आह—
सर्वैति । सर्वगुणयुक्तत्वेनोपासनादित्यनेन सर्वाभेदादित्यस्य एते गु-
णा उपसंहर्तव्या एते तु नेति विभागं विना सर्वेषां गुणानामभेदादवि-
भागेनेत्यर्थ उक्तो भवति । 'उपासनात् ' उपसंहृत्योपासनान्निमित्ता-
दिति शेषः । अन्यत्रेत्यस्य विशेष्यमाह—फल इति । एवकारेणाल्पफ-
लव्यावृत्तिः । अनेनान्यत्रेत्यस्यानुपसंहाराल्पाधिकारिभ्योऽन्यत्र तत्फ-
लविलक्षणे फले इत्यर्थ उक्तो भवति। इमे इत्यस्यार्थो—ब्रह्मादय इति।
इमे इति विशेषतः प्रस्तुतत्वात् सर्वोपसंहारा उच्यन्त इति तत्त्वप्रदी-
पोक्तेः । यद्यपि ब्रह्मैव सर्वोपासक इति आदिपदानुपपत्तिः । तथाऽपि
तदनतिन्यूनब्रह्माण्यादिविषयमादिपदमित्युक्तं तत्त्वप्रदीपे । भवन्ती-
ति सूत्रे शेषोक्तिः । यत इति शेषः । अस्य लब्धसाध्येनान्वयः ॥
( २ ) न केवलमुपासनानां महदल्पत्वाभ्यां तत्फलानामपि महद-
ल्पत्वे निश्चीयेते, किन्तु तथा स्मृत्युक्तत्वाच्चेत्याह— सम्पूर्णेति ॥ 'आ-
नन्दभाक् ' आनन्दयुक्तः । तुशब्दोऽप्यर्थः । सम्यगिति क्रियाविशेषण-
म् । तथा च 'इतरे तु' ब्रह्म ब्रह्माणीतरदेवादयोऽपि 'यथायोगं' यथायो-
ग्यं उपासनात् मुक्तौ यथायोगं 'सम्यग्भवन्ति' अतिशयवन्तो भव-
न्तीत्यर्थः । तत्त्वप्रदीपे तु सम्यङ्मुक्तावित्येकपदाभिप्रायेण इतरे तु
यथायोगं यथाशक्त्युपास्तिं कुर्वाणाः 'सम्यङ्मुक्तौ भवन्ति' यथा-
योगं फलभाजो भवन्ति । सम्यङ्मुक्ताविति वचनादत्यल्पगुणोपास-
कानामपि सम्यङ्मुक्तिरेव नासम्यङ्मुक्तिरिति सिध्यति । दुःखलेशा-
भावादिति विशेषार्थ उक्तः । पाद्मे वचनादिति शेषः ॥ ४ ॥
॥ इति सर्वाभेदाधिकरणम् ॥
:
:
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे सर्वमुमुक्षुसाधारणोपास्यगुणा निर्णाय्यन्ते ।