पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 871, कुल 1267 में से
संदर्भ में पढ़ेंहारस्यान्यथात्वमिति चेन्न, एते गुणा नोपास्या इति
विशेषवचनाभावात् 'सर्वैर्गुणैरेक एवेशिताऽसावुपा
सितव्यो न तु दोषैः कदाचित्' ( ) इति विशे
षवचनाच्च । आत्मेत्येवेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥७॥
(७) सू--ॐ ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादि
वत् ॥ ॐ ॥ ८ ॥
'विशेषवत्' विधिविहितोपसंहारवत् यतः 'आत्मा' इति शब्दादुप
संहारस्यान्यथात्वं च अनुपसंहारः अल्पगुणज्ञानरूपोऽप्यर्थाद्विहितः
ततश्च 'अन्यथात्वे' अन्यथोपसंहारे विधिशेषस्य विधिविहितकर्म
णः 'अन्यथात्वं' लोपः प्रसज्यते तदुपसंहारस्य 'अन्यथात्वं' अकर्त
व्यत्वं सिद्धमिति । परिहारांशं व्याचष्टे—नेति । सर्वगुणोपसंहारस्य
'अन्यथात्वं' अभावः नेत्यर्थः । कुतो नेत्यतः किमसो प्रामाणिकत्वा
दङ्गीक्रियते, उत तद्विरोधिगुणोपसंहारे प्रमाणाभावाद्वेति विकल्प्य
आद्यपक्षनिषेधहेतुत्वेन अविशेषादिति पदं व्याचष्टे—एत इति । विशेषे
ति । विशेषप्रमाणाभावादित्यर्थः । नाविशेषादित्यस्यैकपद्याश्रयेण
विशेषवचनादित्यर्थाभिप्रायेण द्वितीयपक्षनिषेधहेतुत्वेनाप्येतद्वयाच
ष्टे—सर्वैरिति । सर्ववेदोक्तैरित्यर्थः । 'गुणैः' पूर्णत्वाविरोधिधर्मैः ।
तथा चासावीश्वरः 'एक एव' अभिन्न एव सर्वगुणैरेव 'उपासितव्यः'
उपसंहृत्य ध्यातव्यो न तु दुःखादिदोषैरपीति योजना । चः समुच्चये ।
नन्वात्मत्वमेवोपासीत न त्वन्यदिति आत्मत्वावधारणादेव तदन्यगु
णा नोपास्या इति सिद्ध्यतीत्यतः तदुत्तरत्वेनाप्यविशेषादिति हेतुं
व्याचष्टे—आत्मेति । इत्यवधारणमिति । इतिवाक्यगतैवैकार इत्यर्थः ।
अनात्मत्वेति । अनात्मत्वमात्मन्ययोगः तस्य निवृत्तिर्व्यवच्छेदः स ए
वार्थो यस्य तत्तथोक्तम् । यतोऽतो न तद्विरोध इति वाक्यशेषः । तथा
च भगवन्तं आत्मैवायमित्युपासीत न त्वनात्मेतीति उत्तमाधिकारिणः
प्रति अयोगव्यवच्छेदक एव एवकारो नान्ययोगव्यवच्छेदकः । निर
वकाशोदाहृतश्रुतिविरोधादिति भावः । अनेनावधारणस्यायोगव्यव
च्छेदेऽप्यविशेषादिति सौत्रहेतोरर्थान्तरमुक्तं भवति ॥
(७) ननु नायं सर्वगुणोपसंहारो युक्तोऽशक्यत्वादित्याशङ्कामभ्यु
पगंमवादेन परिहरन् न वेति सूत्रं उपसंहारः कार्य इत्येतयोरनुवृत्त्य
ध्याहाराभ्यां व्याचष्टे—प्रकरणभेदादिति ॥ परोवरीयस्त्वादिवदित्या