पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
७७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
( २ ) रूपं रूपं प्रतिरूपो बभूव ( बृ. ४-५-१९. )
बहवस्सूर्यका यद्वत्सूर्यस्य सदृशा जले ।
एवमेवात्मका लोके परात्मसदृशा मताः ॥ ( )
इत्यादि ।
शत्वे 'सादृश्यात्' मत्स्यादिसाभ्यात् 'तथा स्यात्' परमेश्वरस्वरूपां-
शवत् ज्ञानैश्वर्याद्यविशेषः स्यादिति 'अतः' एतदर्थमेवानिष्टप्रसङ्ग-
परिहारार्थमेव अत एवोपमेति पदैः 'तस्य' जीवस्य तथाऽपि अंशत्वेऽ-
पि 'तथा' प्रतिबिम्बभाव एवेति प्रतिबिम्बभावमेवोक्त्वा 'चशब्देन' अ-
तस्तेन हेतुना सूर्यकादिवद्दृष्टान्तेन 'भेदं' साध्यं समुच्चिनोति सूत्रका-
र इत्यन्वयः ॥
( २ ) जीवस्येश्वरप्रतिबिम्बत्वमेव कुत इत्यतश्चशब्दसूचितश्रुतेरे-
वेत्याह—रूपमिति ॥ द्वितीयव्याख्याने तु युक्तिसिद्धप्रतिबिम्बत्वे दा-
र्ढ्याय श्रुत्युपन्यासः । व्याख्यातेयं श्रुतिरंशनये । 'जले' जलादौ 'सू-
र्यकाः' तत्र प्रतिबिम्बिताः सूर्याः 'यद्वत्' यथा सूर्यस्य सदृशा म-
ताः, एवमेव लोके प्रमिताः 'आत्मकाः' ईशप्रतिबिम्बभूता अमुख्या-
त्मानः परमात्मसदृशा मता इति श्रुत्यन्तरार्थः । अत्राद्यश्रुतौ रूपशब्दो-
क्तं प्रतिबिम्बत्वं द्वितीयश्रुत्या परमात्मसदृशा इति व्याख्यातमिति ज्ञे-
यम् । इत्यादीत्यनन्तरं श्रुतिरिति शेषः । अत एव तत्त्वप्रदीपे श्रुतिर्द-
र्शयतीत्युक्तम् । टीकाकृताऽपि श्रुतिरित्त्यध्याहारस्य सिद्धत्वादित्याश-
येन प्रतिबिम्बत्वं दर्शयतीत्यन्वययोग्यपदद्वयमनुषज्यते इत्युक्तम् । त-
था चायं टीकारीत्या सूत्रार्थः—'अत एव' ईशतद्रूपाणामभेदोक्तेरेव
'अत एव' जीवस्य चेतनत्त्वादिना ईश्वरसाम्यादेवाऽस्य जीवस्य 'उ-
पमा' मत्स्यादिसाम्यम् । तद्वदीशाभेदः स्यादिति न, कुतः? यतः
'सूर्यकादिवत्' जलादौ प्रतिबिम्बितसूर्यच्छायादिवत् ईशप्रतिबि-
म्बस्तस्मादेव तद्भिन्नश्चातः । यद्वा—'अत एव' मत्स्यादीनामीश्वर-
स्य च ज्ञानैश्वर्यादाविव विशेषस्योक्तत्वादेव अतः । तर्हि जीवस्यापि
परमेश्वरस्वरूपांशत्वे यतः 'उपमा' मत्स्यादिभिः साम्यं स्यात्, ततश्च
तस्योपमा परमेश्वरवत् ज्ञानाद्यविशेषः स्यात् अतः एतदर्थमेवंरूपा-
निष्टपरिहारार्थं जीवस्योपमैव ईश्वरप्रतिबिम्बत्वैव, न स्वरूपांशता ।
यतः प्रतिबिम्बोऽतः सूर्यकादिवच्च भेद एव नाभेंदोऽपि । न च हेत्वसि-
द्धिः। 'रूपम्' इत्यादिश्रुतेरिति । तत्त्वप्रदीपरीत्या तु—'अत एव' जी-
.10)
Adhikarana 5: Ubhayalingadhikarana (3.2.11-13)
Adhikarana 6: Arupavadadhikarana (3.2.14)
Adhikarana 7: Prakritaitavattvadhikarana (3.2.15-17)
Adhikarana 8: Sthanavisheshetyadhikarana? Or Prakrita...?
Wait!
Let's count:
Upamadhikarana is Adhikarana 10!
Wait, which sutras belong to Upamadhikarana?
In Dvaita:
Sutra 18: "अत एव चोपमा सूर्यकादिवत्" - wait! Is Sutra 18 the ONLY sutra in Upamadhikarana?
Wait! Look at line 13: "अत एव चोपमेति सूत्रखण्डं व्याचष्टे"
And line 24: "सूत्रखण्डस्य वृत्त्यन्तरमुक्तं भवति ॥ १० ॥"
Wait, line 25: "॥ इति उपमाधिकरणम् ॥"
Then Upamadhikarana consists of lines 4 to 25!
Wait, but then what are lines 2-3?
Lines 2-3:
( ३ ) अत एव भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्यु
पमा, नोपाध्यधीनत्वादिना ॥ १८ ॥
Wait, look
७३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
ज्ञानादिना प्रयोजनमिति ।
( २ ) अतो ब्रवीति—
सू— ॐ ॥ अम्बुवदग्रहणात्तु न तथात्वम् ॥ ॐ ॥ १९ ॥
अम्बुवत्स्नेहेन ग्रहणं ज्ञानं भक्तिं विना न तत्सादृश्यं
शेषः । तथा चेत्थं योजना । न भक्तिः कर्तव्या । कुतः ? यतो न तया
प्रयोजनमस्ति । न च ज्ञानमेव प्रयोजनम् । यतो न तेनापि प्रयोजनम
स्ति । न च तस्य प्रसादः प्रयोजनम् । यतो न तेनापि प्रयोजनमस्ति ।
न च प्रसादेन मोक्षसम्भवात्कथं तेन न प्रयोजनमिति वाच्यम् । मो
क्षस्य नित्यसिद्धत्वात् । कथम् ? ‘ नित्यानन्दज्ञानादेः ’ मोक्षस्य नि
त्यानन्दज्ञानबलादिरूपत्वात् । कुतस्तस्य नित्यसिद्धत्वम् ? परमात्म
सादृशस्य जीवे ‘ नित्यसिद्धत्वात् ’ नित्यं सत्त्वात् । किं ततः ? तस्य
नित्यज्ञानानन्दादिरूपत्वात्
[ अधि - ११. सू - १९. ] दीपिका सहितम्. ७७७
सम्यगभिव्यज्यते । ‘यमवैष वृणुते तेन लभ्यस्तस्यैष
आत्मा विवृणुते तनूं स्वाम्’ (कठ.२-२३.) इति हि श्रुतिः ।
( ३ ) महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयत ।
हेन ज्ञानं भक्तिरितीति टीकया च विरोधात् । भाष्ये स्नेहेनेत्यस्या
न्वाय तत्त्वप्रदीपावतारिकाटीकारीत्या सहितमिति पदाध्याहारस्या
वश्यकत्वात् । सूत्रार्थकथनेन सिद्धान्त्यभिमतानुमाने हेत्वसिद्धिपरि
हाराय प्रवृत्तस्य सूत्रस्यासिद्धिकारणव्यतिरेकव्यभिचारपरिहारक
त्वमुक्तं भवति । तथात्वमित्यस्यार्थमाह—तत्साहश्यमिति । तद्गुणसा
र्त्वादिति प्रकृते ज्ञानानन्दादिनेश्वरसादृश्यमित्यर्थः । अस्य जीवस्ये
ति वर्तते । तुशब्दार्थस्सम्यगिति । सुप्तौ विनाऽपि भक्तिं सुखाद्यभिव्य
क्तिदर्शनाद्व्यभिचारपरिहारायैतत्पदम् । सूत्रे भवतीत्यध्याहारेण भव
तेर्व्यक्त्यर्थत्वं अभिव्यज्यत इति क्रियापदाध्याहारे वाऽभिप्रेत्याह-अ
भिव्यज्यत इति । सूत्रे न साम्यमित्यनुक्त्वा न तथात्वमित्युक्त्या अभि
व्यक्तिरपि कदाचित्स्वयमेव भवतीति शङ्का निरस्ता । कदाचित् त
त्साहश्यस्य स्वयमेवाभिव्यक्तत्वमपि नेति तस्यार्थान्तरसम्भवात् ।
स्वयमेवाभिव्यक्तचङ्गीकारेऽनादिसंसारप्रवाहानुपपत्तेरिति भावः ।
भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यत इति भाष्यस्य सूत्रानु
सारेण व्यतिरेकमुखत्वेऽपि तेन किन्तु भक्त्यैवाभिव्यज्यत इत्यन्वयोऽ
पि सूचितः । तत्कुत इत्यत आह—यमिति । कठश्रुतिरियम् । भक्ति
मतः ‘तस्य’ जीवस्य ‘स्वां तनुं’ तत्स्वरूपमानन्दादिजीवस्वरूपं ‘वि
वृणुते’ प्रकाशयतीत्यर्थोऽत्राभिमतः । इति हीति । हिर्यतः । अस्तीति
शेषः ॥
( ३ ) यदुक्तं स्नेहेन सहितं ज्ञानं भक्तिः, तया जीवस्वरूपस्य स
म्यगभिव्यक्तिरिति तत्स्फुटमत्र श्रुतौ न प्रतीयत इत्यतः स्मृतिं चाह—
महित्वेति ॥ तुरवधारणे । ‘महित्वबुद्धिः’ महत्त्वबुद्धिः । तृतीयोऽति
शये । अत एव तत्त्वप्रदीपे महित्वबुद्धिः महत्त्वबुद्धिः । ‘वैश्वानरो
महिनः शर्म यच्छत’ ( ) इतिवदित्युक्तम् । स्नेहः पूर्वः साहि
त्यप्रतियोगित्वेन पूर्वनिर्दिष्टो यस्यां सा तथोक्ता । तथा च मानसिक
स्नेहसहिता विष्णोर्माहात्म्यज्ञप्तिरेव भक्तिरित्याभिधीयत इत्यर्थः । ‘त
या’ भक्त्या, न स्वत इत्येवशब्दार्थः । ‘जीवरूपं’ जीवस्वरूपम् । यद्यपि
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
९८
७७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
तयैव व्यज्यते सम्यग्जीवरूपं सुखादिकम् ॥ इति पा
द्मे ॥ १९ ॥
❖
१२. अधिकरणम् ॥
( १ ) सू-- ॐ ॥ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्ज-
स्यादेवम् ॥ ॐ ॥ २० ॥
स्नेहो भक्तिरिति प्रोक्तः ॥
इति भारततात्पर्यनिर्णये स्नेहस्य विशेष्यत्वमुक्तम् । तथाऽपि विशेष-
णविशेष्यभावस्य कामचारत्वादविरोधः । अत्र यद्यपि पूर्वपक्षभाष्येऽ-
परोक्षज्ञानपूर्वकालीना भक्तिर्गृहीता । सिद्धान्तभाष्ये तु ज्ञानोत्तरका-
लीनेति नैकरूप्यम् । तथाऽपि भक्तिमात्रस्य भक्तित्वेनैकरूपस्येहसा-
फल्यसमर्थनान्न विरोधः । न च भक्त्यैव सम्यगभिव्यक्तौ ज्ञानोत्तरकृ-
तकर्मवैयर्थ्यमिति वाच्यम् । ज्ञानजन्यभक्तेः सम्यगभिव्यक्तिहेतुत्वं
ज्ञानानन्तरं पुनरनुष्ठीयमानभक्तेरुपासनस्य निवृत्तकर्मणां चेश्वरप्रसा-
दद्वारा अनभिव्यक्तानन्दाभिव्यक्तिरूपे वा विचित्रानुभवरूपे वा आ-
नन्दवैचित्र्ये हेतुत्वमित्यङ्गीकारेण सार्थक्योपपत्तेः । यथोक्तम्—‘उ-
पासया कर्मभिश्च भक्त्या चानन्दचित्रता’ ( ) इति । पाद्म
इत्यतः प्राक् हीत्यनुवर्तते । उक्तमिति शेषः । अस्य पूर्वस्य च अत
इत्यध्याहारेण भक्तिं विनेत्यनेनान्वयः ॥ १९ ॥
॥ इति अम्बुवदधिकरणम् ॥
❖
१२. अधिकरणम् ॥
( १ ) अत्राधिकरणे यदर्थं भगवन्महिमोच्यते, सा भक्तिः पुरुषेषु
तारतम्येन तिष्ठति । तदनुसारेण भगवान् फलं प्रयच्छतीत्येतत्सम-
र्ध्यते । तत्र भक्तिः साधकेषु एकप्रकारेति पूर्वपक्षे सिद्धान्तयत्सूत्रमु-
पन्यस्य व्याचष्टे—वृद्धीति ॥ अरूपसूत्रादनुवृत्तं तत्पदं विपरिणाम्या-
नूद्य व्याचष्टे—तस्येति । चशब्दोऽवधारणार्थः ‘वृद्धिह्रासभाक्त्वं’
साधकेष्वाधिक्यन्यूनतावत्त्वमित्यनेन सम्बध्यते । न त्वेकप्रकारत्व-
मित्यवधारणार्थः । अनेन पूर्वसूत्रादत्र तुशब्दानुवृत्तिः सूचिता । भ-
क्तिशब्देन तत्त्वप्रदीपरीत्या अपरोक्षज्ञानसाधनं भक्तिर्गृह्यते । ज्ञानश-
ब्देन परोक्षज्ञानम् । भक्त्यंशत्वेऽपि ज्ञानस्य पृथगुक्तिः स्नेहवद्बहुमाना
तस्य च भक्तिज्ञानादेः वृद्धिह्रासभाक्त्वं विद्यते ब्रह्मा
दीनामुत्तमानां सर्वेषां भक्तत्वेऽन्तर्भावात् ।
(२) एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीन
त्तमको भाव एवापरोक्षज्ञानसाधनमिति सूत्रयितुम् ।
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन ॥ इति गीतोक्तेः ॥
भावबोधे तु भक्तिशब्देनापरोक्षज्ञानसाध्यमोक्षसाधनोद्रिक्तभक्तेर्ग्रह
णम् । ज्ञानशब्देनापरोक्षज्ञानस्येत्युक्तम् । तत् तत्त्वप्रदीपविरुद्धम् । आ
दिशब्देन भक्तिसाधनवैराग्यादेस्तत्साध्योपासनादेश्च ग्रहणम् । 'वि
द्यते' अङ्गीकार्यत्वेनास्ति । अङ्गीकार्यमिति यावत् । यद्यपि पूर्वसूत्रे
अम्बुवद्ग्रहणपदेन भक्तेः प्रकृतत्वात्सैवेह धर्मिसमर्पकतच्छब्देन पराम
र्शनीया, भक्तितारतम्यकथनेनैवेष्टसिद्धेः, न तु ज्ञानादिकमपि । तथा
ऽपि ज्ञानादितारतम्याभावे तत्साध्यभक्तितारतम्यं न सिध्यति । फल
तारतम्यवत्साधनतारतम्यस्यापि भक्तितारतम्यहेतुत्वादित्याशयेनोप
लक्षणाभिप्रायेण भक्तिज्ञानादेरित्युक्तम् । कुतो भक्तेर्वृद्धिह्रासभाक्त्व
मित्यतस्तत्र हेतुत्वेन अन्तर्भावादित्यंशं सर्वेषामिति भक्तत्वे इति पदा
ध्याहारेण तेषां महदल्पत्वादिति हेतूपस्कारेण च व्याचष्टे—ब्रह्मादी
नामिति । 'उत्तमानां' ब्रह्मादिदेवानां 'भक्तत्वे' भक्तवर्गे अन्तर्भावा
त्तेषां च महाफलत्वात्, एवं ब्रह्मादिदेवेतरेषां मध्यमानां ऋष्यादीनां
अधमानां मनुष्योत्तमानां च सर्वेषामधिकारिणां भक्तत्वेऽन्तर्भावात्ते
षाम् च महदल्पफलत्वादिति योजना । अनेनोभयेषामिति धर्मिसमर्पकं
पदं देवतदन्यपरतया विवृतं भवति । मध्यमाधमाधिकारिणामल्पफ
लत्वेन देवेतरत्वेन चैकीकरणम् । सूत्रे उभयेषां भक्तत्वादित्येवोक्तौ
भक्तत्वस्योभयत्ववद्व्यासज्यवृत्तित्वाभावेनोभयत्वाश्रयेष्वेकैकेष्वपि प
र्याप्तत्वादन्यतरेषामभक्तत्वशङ्का स्यात् तथा चोभयसामञ्जस्यादित्य
युक्तं स्यादत उभयपदस्योभयविधभक्तपरत्वात् अतोऽन्तर्भावादि
त्युक्तम् । अनेन त्रिविधाधिकारिणामपि भक्तत्वसिद्धिः । यद्यपि सूत्रे
भाष्ये च भक्त्यादेः पक्षीकरणादधिकारिनिष्ठहेतुप्रयोगोऽनुपपन्नः । त
थाऽपि पक्षधर्मताया अनावश्यकत्वादेवमुक्तम् ॥
(२) ब्रह्मादीनामन्येषां च महदल्पफलत्वेऽपि कुतो भक्तितारत
म्यमित्यतः प्रवृत्तमुभयेत्यादिसूत्रखण्डं व्याचष्टे—एवमिति ॥ भक्त्या
७८० ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - २.]
न्यान् प्रति च सामञ्जस्यं भवति ।
(३) साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः ।
ब्रह्मादयः क्रमेणैव यथाऽऽनन्दश्रुतौ श्रुताः ॥ इति ब्रा
ह्मे ॥ २० ॥
(४) कुतः ?
सू—ॐ ॥ दर्शनाच्च ॥ ॐ ॥ २१ ॥
र्थो-भक्त्यादीति । विशेषस्तारतम्यम् । आदिशब्देन पूर्वोक्तानां ग्रहण
म् । 'अङ्गीकारादेव' अङ्गीकारे सत्येवेति । अनेन एवमित्येतत्सावधार
णमाश्रौ योजनीयमित्युक्तं भवति । न स्थानत इत्यतोऽनुवृत्तस्य पर
स्येत्यस्यार्थमाह— ईश्वरस्येति । विषमफलदातुरिति शेषः । उभयप
दपरामर्शं दर्शयति— ब्रह्मादीनिति । 'अन्यान्' मध्यमाधमान् । बहु
लग्रहणाद्वितीयातत्पुरुषः । चः समुच्चये । सामञ्जस्यमिति । समञ्ज
सो वैषम्यादिदोषशून्यस्तस्य भावः सामञ्जस्यं 'भवति' भवेत् ना
न्यथेत्येवशब्दार्थः । न तु समभक्तानां फलवैषम्यमिति तदर्थः । तथा
च फलवैषम्यस्यानुपपत्त्या भक्तितारतम्यसिद्धिरिति भावः ॥
(३) फलं समं, साधनं तु विषममित्येवंरूपफलसाधनवैरूप्ये सू
त्रकृदुक्तं युक्तिविरोधमुक्त्वा स्मृतिविरोधं च दर्शयति—साधनस्ये
ति ॥ भक्त्यादिरूपसाधनस्येत्यर्थः । 'उत्तमत्वेन' महत्त्वेनाल्पत्वेन
चेत्यस्याप्युपलक्षकमेतत् । हेतौ तृतीया । हेतुत्वं च साध्यगतोत्तमत्वं
प्रतीति द्रष्टव्यम् । 'साध्यं' मुक्तिफलं 'उत्तमं' महत्, अल्पं चेत्यपि ग्रा
ह्यम् । चोऽप्यर्थस्समुच्चये । ब्रह्मादयो देवा इति शेषः । अन्योपलक्षक
मेतत् । साम्यभ्रमनिरासायाह— क्रमेणेति । 'अथात आनन्दस्य' (तै.
२-८.) इति श्रुतौ 'यथा' येन क्रमेणानन्दित्वेन श्रुताः, तथा तेनैव
क्रमेण साध्यमानन्दमाप्नुयुरित्यर्थः । इतीति । ब्राह्मे उक्तिश्चात्र प्रमा
णत्वेन भवतीत्यन्वयः ॥
(४) ननु भवेदेतद्यदि ब्रह्मादीनां फलतारतम्यं स्यात्, तदेव कु
त इति हेत्वसिद्धिमाशङ्कते—कुत इति ॥ फलस्य वृद्धिह्रासभाक्त्वं
कुतः ? प्रमाणाभावात्साम्यस्त्येवेति भावः । एतदाक्षेपपरिहाराय सूत्रं पठि
त्वा व्याचष्टे— दर्शनाच्चेति ॥ आरभ्येति । आरभ्य पठितायां श्रुतावि
त्यन्वयः । यद्वा— इति सुखे विशेषदर्शनादित्यन्वयः । आरभ्येत्यस्य
मनुष्योत्तममारभ्येत्यर्थः । आद्यपक्षे मनुष्योत्तममारभ्येति शेषः । 'ब्र
[अधि - १२. सू - २१. ] दीपिकासहितम्. ७८१
‘अथात आनन्दस्य मीमांसा भवति’ (तै. २-८.)
इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् ।
ह्मापर्यन्तेषु’ चतुर्मुखपर्यन्तेषु मुक्तेष्विति शेषः। ‘सुखे’ आनन्देषु विशे-
षस्य तारतम्यस्य दर्शनादुक्तत्वादित्यर्थः। यद्यपि ‘सैषाऽऽनन्दस्य मी-
मांसा भवति’ (तै. २-८.) इति तैत्तिरीयश्रुति पाठः। तथाऽपि शाखान्त-
रपाठोऽयमित्यदोषः। श्रुतौ प्रकरणान्तरारम्भे अथशब्दः। ‘अतः’ पक्षद्व-
यप्रापकसत्त्वात् ‘आनन्दस्य’ मुक्तसुखस्य ‘मीमांसा’ किं सर्वेषामेक-
प्रकार उत अनेकप्रकार आनन्द इति विचारो ‘भवति’ प्रवर्तेत इत्य-
र्थः। एवं विचारे अनेकथेत्युत्तरमुच्यत इति केचित्। तन्न, तैत्तिरीयभा-
ष्ये आनन्दस्य ‘मीमांसा’ विचित्रता भवतीति व्याख्यानात् । विवि-
धचरणं वैचित्र्यम् धात्वर्थः । स्वार्थे सन्। फलवैचित्र्ये हेतुभावा-
दित्यतश्शब्दार्थः। मानुषोत्तममारभ्य विरिञ्चपर्यन्तमानन्दतारतम्यं व-
क्तुं तत्र मनुष्योत्तमचक्रवर्त्यानन्दस्य पूर्वावधिभूतत्वात्तद्वचनाय मु-
क्तचक्रवर्तिनो विशेषणान्याह—युवा स्यादित्यादिना । विष्णुना युत-
स्सन् वाति गच्छतीति युवा । साधुगुणयुक्तत्वात्साधुना विष्णुना यु-
तत्वाद्वा साधुयुवा । मुक्तथाख्याध्ययनफलवत्त्वादाध्यायिकः । आस-
मन्ताच्छमस्येत्याशः अतिशयेनाशः आशिष्ठः नित्यपूर्णसुखवानित्यर्थः।
अतिशयेन दृढो द्रढिष्ठः । अतिशयेन बली बलिष्ठः । य एवंभूतः मुक्त-
चक्रवर्ती तस्य त्रेतायुगे संसारदशायामियं सर्वा पृथिवी ‘वित्तस्य’
वित्तेन पूर्णा स्यात्तदा तस्य यत्सुखं ‘स एको मानुष आनन्दः’ मुक्तम-
नुष्यचक्रवर्तिसम्बन्ध्येक आनन्द इत्यर्थः । ‘ते’ प्रसिद्धाः ‘ये शतं मा-
नुषाः’ मुक्तमनुष्यचक्रवर्तिसम्बन्ध्यानन्दाः ‘स एकः मनुष्यगन्धर्वा-
णां’ मुक्तानामानन्दः । मुक्तत्वज्ञापनाय विशेषणद्वयमाह-श्रोत्रियस्ये-
ति । श्रोत्रियाणामकामहतानां चेत्यर्थः । एवमग्रेऽपि वचनव्यत्ययो ज्ञे-
यः । प्राप्तमोक्षिणः श्रोत्रियाः । कामकृतोपद्रवशून्याः अकामहताः । ये
साक्षाद्देवप्रेष्यास्ते देवगन्धर्वाः। तेषां मनुष्यगन्धर्वापेक्षया शतगुणि-
तोत्कृष्ट आनन्द इत्यर्थः । एवमग्रेऽपि पूर्वपूर्वापेक्षया उत्तरोत्तरेषां श-
तगुणोत्कर्षो ज्ञातव्यः । चिरकालीनो लोकश्चिरलोकः, स एव लोको
येषां ते तथोक्तास्तेषामित्यर्थः । देवेष्वनाख्याता अकथिता या देवताः
देवकुले जातास्ते आजानदेवास्तेषामित्यर्थः । के कर्मदेवाः ? कुतश्च ते-
षाम् कर्मदेवत्वमित्यत उक्तं—ये कर्मणेत्यादि । ‘ये ’ बल्याद्याः कर्मणा
७८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
( ५) चशब्दात् स्मृतिः ।
यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ इति ॥ २१ ॥
——
१३. अधिकरणम् ॥
( १ ) सृष्टिसंहारकर्तृत्वमेवास्य, न पालकत्वम्, स्वतस्सि
द्धेरिति ।
मध्ये 'देवान्' देवत्वं 'अपियन्ति' प्राप्नुवन्ति ते कर्मदेवा इत्यर्थः ।
देवानामिति । सृष्ट्यादौ देवत्वं प्राप्तानां तत्त्वाभिमानिदेवानामित्यर्थः ।
'इन्द्रस्य' दक्षप्रजेश्वरस्य 'बृहस्पतेः' पुरन्दरस्य 'प्रजापतेः' रुद्र
स्य 'ब्रह्मणः' चतुर्मुखस्येति समग्रश्रुत्यर्थः ॥
( ५ ) नन्वस्तु फलतारतम्यं, तथाऽपि भक्तिसाम्यं किं न स्यात्,
फलतारतम्यस्य भक्तीतरप्रसादादितारतम्येनापि सम्भवादित्यत आ
ह—चशब्दादिति ॥ समुच्चितेति शेषः । काऽसावित्यतः तां स्मृतिं पठ
ति—यथेति । 'अत्र' संसारे ज्ञानिनां परमेश्वरे 'यथा भक्तिविशेषो'
भक्त्यतिशयो दृश्यते, तथैव तेषां 'लिङ्गभेदने' लिङ्गशरीरभङ्गे जाते
सति 'मुक्तिविशेषो' मुक्तावानन्दव्यक्तिविशेषोऽपि दृश्यते । नान्यथे
त्यर्थः । दृशिरत्र भवत्यर्थः । यद्वा— अत्र 'ज्ञानिनां' ज्ञानिषु यथा भ
क्तितारतम्यं योगिभिः 'दृश्यते' ज्ञायते तथैव तेषां लिङ्गभेदने सति
'मुक्तिविशेषो' मुक्तितारतम्यमपि दृश्यते । न वैरूप्येणेत्यर्थः इति
स्मृतिरित्यन्वयः ॥ १२ ॥
॥ इति वृद्धिह्रासाधिकरणम् ॥
—::—
१३. अधिकरणम् ॥
( १ ) अत्राधिकरणे विश्वपालकत्वं समर्थ्यते । पूर्वपक्षयति—सृ
ष्टीति ॥ सृष्टिश्च संहारश्च तयोः कर्ता तस्य भावस्तत्त्वमित्यर्थः । य
द्वा—सृष्टौ सत्यां संहारः तस्य कर्तृत्वमित्यर्थः 'अस्य' भगवतः । इ
दं चावर्तनीयम् । एवकारः क्रमेण भिन्नक्रमेण चान्वेति । तत्राद्यपक्षे
तद्भावार्थं दर्शयति—नेति । अस्तीति शेषः । अस्येत्यनुवृत्तपदं । तथा
च न विश्वपालकत्वं भगवतोऽस्ति किन्तु सृष्टिसंहारकर्तृत्वमेव । कुतः?
यतोऽस्य संहारकर्तृत्वं, न च संहर्तुः पालकत्वं सम्भवतीति भावः ।
[ अधि - १३. सू - २२. ] दीपिकासहितम्. ७८३
( २ ) अत आह—
सू—ॐ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ ॐ ॥ २२ ॥
पालनसाध्यकार्याभावाच्च । न च स्थितिस्तत्कार्यं, सृष्टौ सत्यां याव
त्संहारस्तावदस्य जगतः स्थितिकार्यस्य पालनं विना स्वत एव सि
द्धेस्तस्य तदेकप्रयोजनत्वात् । न च संहारनिवारणव्यापारः अवा
न्तरोपद्रवनिवारणं वा तत्प्रयोजनम् । यतोऽस्यैव सृष्टिसंहारकर्तृत्वं
न त्वन्यस्येति योजना । अनेन सयुक्तिकः पूर्वपक्षः प्रदर्शितो भवति ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति । उक्तमिति ।
स्वस्यां प्रागुक्तमित्यर्थः । अनेन प्रकृतेति प्रातिपदिकं व्याख्यातं भवति ।
एतावत्त्वमित्येतद्व्याचष्टे—सृष्टीति । इदं चावर्तते । तथा च उक्तं सृ
ष्टिसंहारकर्तृत्वं सृष्टिसंहारकर्तृत्वमात्रं तावन्मात्रपर्यवसितमित्येतत्प्र
तिषिध्येतार्थः । वचनापेक्षया प्रतिषेधस्य पूर्वकालीनत्वज्ञापनाय ल्यब
न्तनिर्देशः । मात्रशब्देन पालनाख्यगुणान्तरं व्यावत्र्त्यते । ' ततः ' उ
क्तात् । भूय इत्यस्य व्याख्यानं—अधिकमिति । पालनमपीत्यर्थः । अ
स्येत्यनुवर्तते । ब्रवीतीत्यनन्तरं श्रुतिरिति यत इति च शेषः । अस्य हे
तोरस्त्येव हरेः पालकत्वमिति प्रकरणलब्धसाध्येनान्वयः । अनेन हि
शब्दो हेत्वर्थतया व्याख्यातः ।
अस्येदेषा सुमतिः पप्रथानाऽभवत्पूर्व्या भूमना गौः ।
अस्य सनीळा असुरस्य योनौ समान आभरणे बिभ्रमाणाः॥
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः।
सन्तस्थाने अजरे इतऊती अहानि पूर्वीरुषसोऽजरन्त ॥
नैतावदेनापरो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति ।
त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्ये न हरितो वहन्ति ॥
(ऋ. १०-३१-६,७,८. )
इति ऋक्श्रुतेरयमर्थः ' अस्येत् ' विष्णोस्सकाशादेव ' एषा सुमतिः '
ब्रह्मादिसुबुद्धिः- ' पप्रथाना ' अतिशयेन प्रथाना प्रथमाऽभवत् । अनेन
' भूमना ' भूम्ना पूर्णेन विष्णुना ' पूर्व्या ' पूर्वतना ' गौः ' द्यावापृथिवी
'अभवत् ' अभूताम् । अस्य विष्णोर्भूम्ना महिम्नैव सुमतिर्गौश्चाभवदि
ति वा। 'असुरस्य' असुषु प्राणेषु रमणादसुत्वात्प्राणरूपत्वात् रमणीय
त्वाद्वासुरो वायुः 'महद्देवानामसुरत्वमेकम्' (ऋ.३-५५-१.) इति श्रुतेः।
' या मारुताद्गर्भमाधत्त पूर्वम् ' इति स्मृतेः । तस्य ' योनौ ' भार्यायां
तु सदिति पदच्छेदं कृत्वा सदित्यस्य भवत्कार्यमिति च ज्ञे-"
Wait, what is at the end of line 31?
"ज्ञे-" or "ज्ञेयं"?
Wait, look at the last character:
There is "ज्ञे" and a hyphen or a small mark?
It looks like "ज्ञे-" or "ज्ञेयं"?
Wait, look at the bottom:
Is line 31 the last line on this page?
Yes, it's the very bottom line.
Let's look at the end of line 31:
"च ज्ञे" - wait, after ज्ञे, there is a letter:
Is that "यं"?
Let's zoom in on line 31:
"माध्वबोधे तु सदिति पदच्छेदं कृत्वा सदित्यस्य भवत्कार्यमिति च ज्ञे"
Wait, after 'ज्ञे', is that a hyphen, or a 'यं'?
Look at the shape: it has a loop with an e-matra: ज्ञे.
Then there is a small horizontal mark: hyphen! "ज्ञे-"
Wait, or is it "ज्ञेयं"? No, it's definitely hyphenated: "ज्ञे-" (continued on next page: "यम्").
Let's double-check all lines carefully!
Line-by-line review:
Header:
७८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
Line
[ अधि - १४. सू - २३. ] दीपिकासहितम्. ७८५
( ३ ) चशब्दात् स्मृतिश्च —
सृष्टिं च पालनं चैव संहारं नियमं तथा ।
एक एव करोतीशः सर्वस्य जगतो हरिः ॥
इति ब्रह्माण्डे ॥ २२ ॥
*
१४. अधिकरणम् ॥
( १ ) परमात्मापरोक्ष्यं च तत्प्रसादादेव । न जीवशक्त्येति
धा व्याख्यानमित्युक्तम् । तत्र स इति प्रसिद्धपदविभागाविरोधादक-
रे द्वित्वाश्रवणं च बाधकमिति ध्येयम् ॥
( ३ ) सृष्टिसंहारकर्तुरपि पालकत्वरूपगुणान्तरसत्त्वे स्पष्टस्मृति-
परतया सौत्रचशब्दं व्याचष्टे—चशब्दादिति ॥ समुच्चितेति शेषः ।
तां स्मृतिं पठति—सृष्टिमिति । सृष्ट्यादिशब्दैः प्रयोज्यव्यापारा लक्ष्य-
न्ते । सर्वस्य जगत इत्यादौ योज्यम् । परस्परसमुच्चये चः । 'चैव'
एवं संहारम् । तथाशब्दः समुच्चये । नियमनं च । 'एक एव' न त्व-
न्यः । अत्रोपपत्तिः—ईश इति । ब्रह्माण्डे उक्तिश्चेति शेषः । अस्य श्रु-
तिरित्यस्य च ब्रवीतीति क्रियापदेनान्वयः । श्रुतौ स्थित्यतिरिक्तस्य
धारणपोषणादिरूपप्रयोजनान्तरस्योक्त्या तस्य च 'एकः' इति स्मृ-
तावनन्यसाध्यत्वस्योक्त्या च स्थितेः स्वतःसिद्धत्वात्तत्पालनं नि-
ष्प्रयोजनमिति चोद्यं निरस्तं भवति । अनेन—'हि' यतो 'नैतावत्'
इति श्रुतिः 'अस्येदेषा सुमतिः' इत्यादिना पूर्वं प्रकृतस्योक्तस्य सृ-
ष्ट्यादिकर्तृत्वस्य 'एतावत्त्वं' एतावन्मात्रपर्यवसितत्वं पालनाख्यगु-
णान्तरासाहित्यं प्रतिषेधति । न केवलमेतावत्किन्तु 'ततः' सृष्ट्यादि-
कर्तृत्वात् 'भूयः' अधिकं पालकत्वमप्यस्य विष्णोर्ब्रवीति । तथा 'सृ-
ष्टिं च' इति स्मृतिश्च स्पष्टम् । अतः सृष्टिसंहारकर्तृत्वातिरिक्तं पा-
लकत्वाख्यं महिमान्तरमपि परस्य सिद्धमिति सूत्रार्थ उक्तो भव-
ति ॥ २३ ॥
॥ इति प्रकृत्यधिकरणम् ॥
ःःः—
१४. अधिकरणम् ॥
( १ ) अत्राधिकरणे भगवद्भक्तेः कर्तव्यतासमर्थनाय तस्योपल-
ब्धियोग्यत्वं समर्थ्यते । सिद्धान्तसूत्रमवतारयति—परमात्मेति ॥
वक्तुमुच्यते —
सू—ॐ ॥ तदव्यक्तमाह हि ॥ ॐ ॥ २३ ॥
अव्यक्तमेव तद्ब्रह्म स्वतः ।
(२) अरूपमक्षरं ब्रह्म सदाऽव्यक्तं च निष्कलम् ।
यज्ज्ञात्वा मुच्यते जन्तुरानन्दश्चाक्षयो भवेत् ॥
इति कौण्डिन्यश्रुतिः ॥ २३ ॥
चस्त्वर्थः । भक्तिफलत्वेनोक्तमिति विशेषणसमुच्चये वा । तदिति
ईश्वरो भक्तिश्चोच्यते । तथा च भक्तिसाध्येश्वरप्रसादादित्यर्थः । य-
द्वा—तदितीश्वर एवोक्तः । भक्तिसाध्यादिति शेषः । एवकारव्यावर्त्य-
माह—नेति । ‘जीवशक्त्या’ पुरुषप्रयत्नेनेत्यर्थः । अनेनेश्वरस्य व्यक्त-
त्वे विनैव भक्तिं जीवशक्त्यैव स्तम्भादिवदपरोक्षज्ञानसम्भवात् अ-
व्यक्तत्वे च सत्यामपि भक्तौ तदसम्भवात्प्रयोजनस्याभावान्न भक्तिः
कर्तव्येति सयुक्तिकपूर्वपक्षः, तथा स्वतोऽव्यक्तस्यापीश्वरस्य भक्ति-
[
[ अधि - १४. सू - २४. ] दीपिका सहितम्. ७८७
( ३ ) सू--ॐ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ॐ ॥ २४॥
आराधनेऽप्यव्यक्तमेव ज्ञानिनां प्रत्यक्षेण इतरेषामतिसू-
क्ष्मत्वाल्लिङ्गादनुमानेन ।
( ४ ) न तमाराधयित्वाऽपि कश्चिद्व्यक्तीकरिष्यति ।
नित्योऽभिव्यक्तश्च भवेदित्यर्थः । हिशब्दो हेतौ । श्रुतिराहेति । अनेन
सूत्रे श्रुतिरिति शेषो दर्शितः ॥
( ३ ) नन्वस्तु ब्रह्म स्वतोऽव्यक्तं, तथाऽप्याराधनेन पुरुषप्रयत्नेन
व्यक्तीभविष्यति । समाराधनेनाव्यक्तयक्षसाक्षात्कारदर्शनात् । एवं
चेत्किं भक्त्येत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे--अपीति ॥ अ-
व्यक्तमेवेत्यनन्तरं तत्स्वत इत्यनुवर्तते । तथा च न केवलमणाराधनेऽ-
व्यक्तं, किंतु 'आराधनेऽपि' भक्तिरहिताराधनेन संपूजनेनाप्यव्यक्त-
मेव, न तु व्यक्तीकर्तुं शक्यमित्यर्थः । कुतः ? यतस्तद्ब्रह्म स्वतोऽव्यक्तं
अत इति योजना । यद्वा--भक्तिरहिताराधनं एव तदव्यक्तं, न तु भ-
क्तिसहिताराधनेऽपि येन भक्तेर्वैयर्थ्यं स्यादिति । अनेन सूत्रे संराधने
संपूजने इति निमित्तसप्तमी । अपिः भिन्नक्रमः समुच्चये । तदव्यक्त-
मिति चानुवर्तनीयमित्युक्तं भवति । आराधनेऽप्यव्यक्तत्वं कुत इत्य-
तः प्रवृत्तं प्रत्यक्षानुमानाभ्यामिति सूत्रखण्डं व्याचष्टे--ज्ञानिनां प्रत्य-
क्षेणेति । कर्तरि षष्ठीयम् । इतरेषां ज्ञानसाधनमाह--इतरेषामिति ।
ज्ञानिभ्योऽन्येषामित्यर्थः । इतरेषामित्यनेन प्रत्यक्षसिद्धेऽर्थेऽनुमानवैफ-
ल्यमिति निरस्तम् । लिङ्गादनुमानेनेति । लिङ्गाख्येनानुमानेनेत्यर्थः ।
आगमव्यावर्तनायेदं विशेषणम् । यद्वा--लिङ्गात् अव्यक्तत्वस्य अनु-
मानेनेति वैयधिकरण्येनान्वयः । समासपाठे सूक्ष्मत्वहेतुकानुमानेने-
त्यर्थः । अस्याराधनेऽप्यव्यक्तमेवेति साध्येनान्वयः । इति सिद्धमिति
शेषः । यद्यपि सूक्ष्मत्वस्याव्यक्तशब्दप्रवृत्तिनिमित्तत्वान्न तत्साधक-
त्वम् । तथाऽपि प्रत्यक्षाविषयस्वभावत्वमव्यक्तत्वम् । सूक्ष्मत्वं तु त-
तोऽतिरिक्तमिति भेदादविरोधः । यदा सूक्ष्मा अपि परमाण्वादयो
नास्मदक्षगोचराः तदा किम्बतिसूक्ष्मं ब्रह्मेति ज्ञापनाय--अतीत्युक्तम् ।
न च ज्ञानिकर्तृकब्रह्मविशेष्यकाव्यक्तत्वप्रकारकप्रत्यक्षे ब्रह्मणोऽपि
भानात् तस्याव्यक्तताविरोध इति वाच्यम् । स्वतोऽव्यक्तस्यापि ब्र-
ह्मणो भक्तिवशादचिन्त्यशक्त्याभिव्यक्तेरङ्गीकारात् ॥
( ४ ) ननु परप्रत्यक्षस्यासिद्धत्वात्कथमत्र ज्ञानिप्रत्यक्षं प्रमाणीक्रि-
७८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
नित्याव्यक्तो यतो देवः परमात्मा सनातनः॥
इति ब्रह्मवैवर्ते ॥ २४ ॥
( ५ ) नित्याव्यक्तस्वरूपेण तथैव तिष्ठति व्यक्तं किञ्चिद्रूपं गृही-
त्वा दृश्यते । यथाऽग्न्यादयस्तन्मात्रारूपेणादृश्या अपि
स्थूलरूपेण दृश्यन्ते एवमिति चेत्—
यत इत्यतः तैरव्यक्तत्वोक्त्या तदन्यथाऽनुपपत्त्या तेषामव्यक्तप्रत्य-
क्षसिद्धेः तदुपन्यासोपपत्तेरिति भावेनाह—नेति ॥ 'तं' परमात्मानं,
न केवलमनाराधयित्वा, किन्तु भक्तिं विनाऽऽराधयित्वाऽपि भक्तिं
विनाऽपीति वा अपिशब्दार्थः । 'कश्चित्' योग्यो जनः । कुतो न व्य-
क्तीकरिष्यति ? यतोऽव्यक्तः । नन्वव्यक्तस्यापि विष्णोराराधनेन
व्यक्तिस्सम्भवति यक्षादिवदित्यत उक्तम्—नित्येति । नित्यं सदा
स्वतोऽव्यक्त इत्यर्थः । यक्षादयस्तु नैवमिति न व्यभिचार इति भावः ।
एवम्भूतश्चेत्कथं भक्त्याऽपि व्यक्तो भवेत्, तथा च भक्तेर्वैयर्थ्यमि-
त्यतो—देवः परमात्मेति चोक्तम् । अचिन्त्यशक्त्योभयं युज्यत इति
तदभिप्रायः । अनित्यस्य कथं नित्याभिव्यक्तत्वमित्यत आह—सना-
तन इति । देहतः स्वभावतश्च नित्य इत्यर्थः । ब्रह्मवैवर्ते इति । उक्त-
मिति शेषः । अतो न प्रत्यक्षासिद्धिरिति भावः ॥ न चानेनाव्यक्तत्व-
मात्रसिद्धावपि कथं तत्प्रत्यक्षासिद्धिरिति वाच्यम् । व्यासादिज्ञानिक-
र्तृकाव्यक्तत्वादिवचनस्य वचनान्तरमूलत्वेनानवस्थापत्या प्रत्यक्षमू-
लकत्वस्यैव वक्तव्यत्वेन तेनाव्यक्तत्वसिद्धिसम्भवात् ॥
( ५ ) आक्षिपति—नित्येति ॥ ब्रह्मेत्यनुवर्तते । आदिपदेन जलभु-
वौ गृह्येते । न त्वाकाशवायू अपि, तयोः स्थूलरूपेणाप्यदृश्यत्वात् ।
यद्यपिताथापीत्यर्थेऽपिशब्दः । तथा च यथा अग्न्यादयोऽग्निमात्रादिल-
क्षणानुपचितसूक्ष्मरूपेणादृश्या अपि स्थूलोपचितरूपेण 'दृश्यन्ते'
व्यज्यन्ते, एवं नित्यमुत्पत्त्यादिरहितमत एवाव्यक्तं यन्मूलरूपं तेन 'त-
थैव' अव्यक्तत्वेनैव तिष्ठति ब्रह्म, किञ्चिदवताररूपं गृहीत्वा तेन दृ-
श्यत इति योजना । यत एवमतो भक्तिं विनाऽपि ब्रह्मदर्शनाभावाद्व्यर्था
सेति वाक्यशेषः । तथैवेत्येतदवताररूपमित्यनेनापि सम्बध्यते ।
मूलरूपसदृशमेवेति तदर्थः । तेन मूलरूपदर्शनस्य मोक्षहेतुत्वेऽपि ना-
वतारदर्शनस्य तथात्वमिति शङ्काऽनवकाशः ॥
[ अधि - १४. सू - २५. ] दीपिकासहितम्. ७८९
( ६ ) न,
सू—ॐ ॥ प्रकाशवच्चावैशेष्यम् ॥ ॐ ॥ २५ ॥
अग्न्यादिवत्स्थूलसूक्ष्मत्वविशेषाभावात् ।
( ७ ) 'नासौ सूक्ष्मों न स्थूलः पर एव स भवति । तस्मादा-
हुः परमः' इति माण्डव्यश्रुतेः ।
( ८ ) स्थूलसूक्ष्मविशेपोऽत्र न क्वचित्परमेश्वरे ।
( ६ ) एतच्चोद्यं प्रतिषेधति—नेति ॥ नित्येत्यादिनोक्तं नेत्यर्थः । अ-
नेन सौत्रचशब्दो न दृष्टान्तसमुच्चायकः, किन्तु शङ्काव्यावर्तक
इत्युक्तं भवति । तत्त्वप्रदीपे तु 'सर्वतः प्रकृतिः सूक्ष्मा प्रकृतेः परमे-
श्वरः' इति तुश्रुतेः प्रकृतिवच्च नास्य सूक्ष्मत्वं नैव चाग्न्यादिवदिति
चकारार्थ इति चकारस्यानुक्तदृष्टान्तसमुच्चायकत्वमुक्तम् । एतत्पक्षे
नेत्येतत् आगामिसूत्रेऽध्याहृतनञर्थकथनरूपमिति द्रष्टव्यम् । कुतो
नेति हेत्वाकांक्षायां सूत्रमुपन्यस्य व्याचष्टे—प्रकाशवच्चेति । अग्न्या-
दिवदित्यनेन गुणवाचकप्रकाशशब्दोऽग्न्यादिगुणिवाचकतया व्याख्या-
तः । आदिशब्देन जलपृथिव्योर्ग्रहणम् । त्वप्रत्ययः प्रत्येकं सम्बध्यते ।
विशेष्येनेन सूत्रे स्वार्थे ष्यञित्युक्तं भवति । विशेषो धर्मः । पञ्चमी-
निर्देशेन चो यत इत्यर्थेऽपीत्युक्तं भवति । ब्रह्मणिति शेषः ॥
( ७ ) ननु ब्रह्मणि स्थूलसूक्ष्मत्वयोरभावः कुतो ज्ञायते, येन व्य-
क्ताव्यक्तत्वयोरभावः स्यादित्यतः अत्रापि—आह हीत्यस्यानुवृत्तिम्
अभिप्रेत्य तदभिप्रेतां श्रुतिमुदाहरति—नासाविति ॥ 'असौ' भगवान्
केनचिद्रूपेण सूक्ष्मः केनचिच्च स्थूल इति न, किन्तु 'स पर एव' सर्व-
रूपेषु परमसूक्ष्म एव भवति न त्वनैवंभूतः । एवं असौ केनचित् रूपेण
स्थूलः केनचित्सूक्ष्म इति न, किन्तु सर्वत्र 'परः' परमस्थूल एवेत्य-
र्थः । अत एव नञ्द्वयप्रयोगः, 'महतो महीयान्' (कठ.२-२०.) इति
श्रुत्यविरोधश्च । स्थूलात् स्थूलतमत्वं हि तदर्थः ! न चैवं व्यक्तत्वाप-
त्तिः, तद्विरोधिपरमसूक्ष्मत्वेन तत्प्रतिबन्धात् । किञ्चातः ? यस्मात्सर्व-
त्र परमसूक्ष्मः स्थूलश्च तस्मादेनं विष्णुं परम इत्याहुर्ज्ञानिन इत्यर्थः ।
श्रुतेरित्यास्यावैशेष्यमित्यत्रान्वयः । सिद्धमिति शेषः ॥
( ८ ) नन्वनुत्पन्नस्य मूलरूपस्योत्पन्नानां चावताररूपाणां च क-
थं स्थूलसूक्ष्मत्वविशेषाभाव इत्यत आह—स्थूलेति ॥ व्यवस्थयेति शे-
७९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
सर्वत्रैकप्रकारोऽसौ सर्वरूपेष्वजो यतः ॥
इति च गारुडे ।
( ९. ) अव्यक्तव्यक्तभावौ च न क्वचित्परमेश्वरे ।
सर्वत्राव्यक्तरूपोऽयं यत एव जनार्दनः ॥
इति कौर्मे ॥ २५ ॥
( १० ) तर्हि किं यत्नेनेत्यत आह—
सू—ॐ ॥ प्रकाशश्च कर्मण्यभ्यासात् ॥ ॐ ॥ २६ ॥
षः । तथा च यतोऽसौ भगवान् ‘सर्वरूपेष्वजः’ उत्पत्तिशून्यः सदा
अतः ‘अत्र’ भगवति क्वचिदपि रूपे काले वा ‘स्थूलसूक्ष्मविशेषः’ स्थू-
लसूक्ष्मत्वरूपो धर्मः ‘व्यवस्थया’ केनचित् रूपेण स्थूलः केनचित् रू-
पेण सूक्ष्म इति न । एवं घटादिवज्जननात्पूर्वं सूक्ष्मस्तदूर्ध्वं स्थूल इत्य-
पि न, किन्तु सर्वत्रैकरूप एवेत्यर्थः । ननु कथमेतदन्यत्रादृष्टमत्र युज्य-
त इत्यत आह—परमेश्वर इति । हेतुगर्भमेतत् । इति चेति चः श्रुति-
समुच्चये । गारुडे उक्तमिति शेषः । अस्याप्यवैशेष्यमित्यनेनान्वयः ॥
( ९ ) एवं स्थूलसूक्ष्मत्वयोर्व्यापकयोरेवात्रानुपलब्ध्या तद्व्याप्य-
योर्व्यक्तत्वाव्यक्तत्वयोरप्यभाव उक्तः । स्मृत्याऽप्येतदभावं साधय-
ति—अव्यक्तेति ॥ अव्यक्तत्वव्यक्तत्वे इत्यर्थः । चः समुच्चये । क्वचि-
द्रूपेऽव्यक्तत्वं क्वचिद्व्यक्तत्वमिति व्यवस्थितौ नेत्यर्थः । परमेश्वरपद-
प्रयोजनं तु पूर्ववदेव । कुतो नेत्यत आह—सर्वत्रेति । सर्वरूपेष्वित्य-
र्थः । ‘अव्यक्तरूपः’ अव्यक्तस्वरूपः ‘अयं’ परमेश्वरः । कुत इत्यत
आह—यत इति । एवकारो भिन्नक्रमः । उत्पत्त्या जननं व्यक्तिमर्दय-
ति गमयति प्रापयत्येवान्यान् न स्वयमन्यशक्त्या प्राप्नोतीति जनार्द-
नः । स्वजननमर्दयति अपगमयतीति वा । गीताभाष्ये तु न जायत इ-
ति जनः अर्दयति गमयति संसारमिति जनार्दन इति व्याख्यातं, तद-
पि प्रकृतानुकूलमेव । कौर्मे उक्तमिति शेषः । अस्याप्यवैशेष्यमित्यने-
नान्वयः । व्यक्तत्वाव्यक्तत्वरूपविशेषराहित्यमिति तदर्थः ॥
( १० ) उत्तरसूत्रमवतारयति—तर्हीति ॥ ब्रह्मणः सर्वथाऽव्यक्तत्वे
इत्यर्थः । किमिति । ‘यत्नेन’ श्रवणादिरूपेण भक्तिपूर्वकेण किं प्रयो-
जनं, न किमपीत्यर्थः । ‘इत्यतः’ इति शङ्कायां परिहारमाह सूत्रकृदि-
त्यर्थः । सूत्रे निराकृतेऽप्यशब्दत्वे तदव्यक्तमित्युक्त्या कस्य चित्तद्
विषयत्वाशङ्का स्यात्, तां वारयितुं प्रयुक्तः कर्मशब्दः कर्मकारकपरः।
[ अधि - १४. सू - २७. ] दीपिकासाहितम्. ७९१
विषयभूतं तस्मिंश्च श्रवणाद्यभ्यासात्प्रकाशश्च भ-
वति ।
( ११ ) 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या-
सितव्यः' (बृ. ४-४-५.) इति श्रुतेः ॥ २६ ॥
( १२ ) नित्याव्यक्तस्य कथं प्रकाश इत्यत उच्यते—
सू— ॐ ॥ अतोऽनन्तेन तथा हि लिङ्गम् ॥ ॐ ॥ २७॥
उभयत्र प्रमाणभावात् तत्प्रसादादेव प्रकाशो भवति।
तदव्यक्तमित्यनुवर्तते । तस्य विपरिणाम इत्याशयेन विषयभूते ‘ त-
स्मिन् ’ अव्यक्ते ब्रह्मणीत्युक्तम् । न त्वन्यत्रेत्येवार्थः । तथा च तदे-
कविषयकश्रवणमननाद्यावर्तनादित्यर्थः । भक्तिपूर्वकादिति शेषः । प्र-
काश इत्यत्रापि तस्मिन्नित्यावर्तनीयम् । तथा च तस्मिन् ‘ प्रकाशः ’
तद्विषयकापरोक्ष्यमित्यर्थः । न केवलमप्रकाशः, किन्तु प्रकाशश्चेति
चार्थः । ‘तस्मिन्’ अव्यक्तेऽपीत्यप्यर्थो वा । यत इति शेषः । अनेन सू-
त्रे हिशब्दानुवृत्तिस्सूचिता । अस्यातो न श्रवणादिवैय्यर्थ्यमित्य-
ध्याहृतेनान्वयः । अनेन सूत्रे नञनुवृत्तिस्सूचिता ॥
( ११ ) श्रवणाद्यभ्यासेन अपरोक्षं भवतीत्येतत्कुतो ज्ञायत इत्यत
स्वशब्देन आह हीत्यनुवृत्तेन वा सूचितश्रुतेरेवेत्याह— आत्मेति ॥ ब्रह्म
णो निदिध्यासनकर्मत्वं च स्वप्रतिमाद्वारा तदुपासनं च भवति । प्र-
तिमोपासनमित्युक्तेः । व्याख्यातेयं श्रुतिर्जिज्ञासाधिकरणे ॥
( १२ ) उत्तरसूत्रमवतारयति— नित्येति ॥ ब्रह्मणः श्रवणाद्यभ्या-
सादपीति सम्बन्धः । कथमित्याक्षेपे । न कथमपीत्यर्थः । युक्तिविरोधा-
दिति भावः । उच्यत इति । इत्यस्मिन् चोद्ये परिहार उच्यत इत्यर्थः ।
तत्सूत्रं पठित्वा व्याचष्टे— अत इति । उभयत्रेति । अव्यक्तत्वे प्रत्यक्ष-
त्वे च प्रमाणसद्भावादित्यर्थः । तदन्यथाऽनुपपत्त्येति यावत् । अत इ-
त्यस्यार्थान्तरमाह— तस्य प्रसादादिति । तस्याधिकारिणस्तस्याव्य-
क्तस्यापि परब्रह्मणः प्रसादादेवेत्यर्थः । न साधनसामर्थ्येनेत्येवार्थः ।
‘ प्रकाशः ’ आपरोक्ष्यम् । इदं चानुवृत्तं पदं भवति । इति ज्ञायत इति
शेषः । चेत्यप्यनुषञ्जनीयम् । तस्य ‘ अनन्तेन ’ अपरिमितसामर्थ्येने-
त्यनेनान्वितस्यावधारणार्थत्वं, प्रकाशश्चेत्यनेनान्वितस्य पुरुष
७९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
( १३ ) 'तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्व
मायानिवृत्तिः' (श्वे. १-१०.) इति लिङ्गात् ।
( १४ ) युज्यते च तस्य अनन्तशक्तित्वात् ।
( १५ ) नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निजशक्तितः ।
तमृते परमात्मानं कः पश्येतामितं प्रभुम् ॥
( १३ ) न केवलमन्यथाऽनुपपत्त्या प्रसादाधीनप्रत्यक्षत्वं ब्रह्मणः,
किन्तु बलवच्छ्रुत्या चेत्याह सूत्रकृत्— तथा हीति । तद्व्याचष्टे— त
स्येति ॥ इतिलिङ्गादिति । इतिवाक्योक्ताद्बन्धनिवृत्तिरूपमोक्षस्य म
ध्यमप्रसादसाध्यत्वरूपात् दर्शनस्य प्रसादसाध्यत्वज्ञापकादित्यर्थः ।
इतिशब्द आद्यर्थे। तेन च 'दृष्ट्वैव तं मुच्यते' ( ) इति श्रुतिः
सूचिता। तथा च 'तस्याभिध्यानात' 'दृष्ट्वैव' इति वाक्यद्वयबलाद्दर्श
नान्मोक्षः, उपासनाजनितप्रसादाच्च दर्शनमिति पारम्पर्यं सिद्ध्यतीति
भावः। लिङ्गादित्युक्त्या सूत्रे यत इत्यध्याहार्यमित्युक्तं भवति । तथा
शब्दस्तूपमार्थो वा अर्थापत्तियुक्त्योः समुच्चयार्थो चेति हृदयम् । 'त
स्य' इति श्रुतिस्तदभिध्यानान्नये व्याख्याता ॥
( १४ ) नन्वव्यक्तस्वभावस्य ब्रह्मणः प्रसादेनापि न प्रत्यक्षता
युज्यते । न हि प्रसन्नोऽपि नरो वानरो भवितुमीष्ट इत्यत आह— यु
ज्यते चेति ॥ चशब्दोऽवधारणार्थः । उभयमिति विपरिणामेन सम्ब
ध्यते । तदिति च । तथा च तस्य विष्णोरव्यक्तत्वं प्रत्यक्षत्वं चेत्यु
क्तमुभयं युज्यते । तस्यैव युज्यते न त्वन्यस्येति वा । कुतः ? 'अन
न्तशक्तित्वात्' अपरिमिताघटितघटकसामर्थ्यादित्यर्थः । तस्यैवा
नन्तशक्तित्वादित्यनेन सूत्रे तेनेत्यनुक्त्वा अनन्तेनेत्यधिकोक्तेः प्रयो
जनं चोक्तं भवति । अत एव प्रमेयदीपे— ननु ज्ञानिभिर्भगवान् दृश्य
ते चिन्त्यते च । तत्कथमुच्यते 'अव्यक्तोऽयमचिन्त्योयम्' ( गीता.
२-२५.) इत्यवतार्य अत एवाव्यक्तादिरूप इति भाष्यं 'अत एव' अ
चिन्त्यशक्तित्वादेव, यथोक्तं— 'अतोऽनन्तेन' इतीति व्याख्यातम् ।
सौत्रातशब्दस्य व्याख्यानान्तरमिदमिति केचित् ॥
( १५ ) सूत्रार्थे स्मृतिं चाह— नित्येति ॥ अत्रेत्थं योजना--यद्य
पि भगवान्नित्यं नियमेन स्वतोऽव्यक्तस्तथाऽपि 'भक्तैरीक्ष्यते' तद्द
र्शनविषयो भवति । कथम् ? 'निजशक्तितः' स्वरूपसामर्थ्यादेव ।
तेन विना सर्वकार्ये प्रति कथं तस्य हेतुत्वं व्यभिचारादित्यत आह-
[ अधि - १५. सू - २८. ] दीपिकासहितम्. ७९३
इति नारायणाध्यात्मे ॥ २७ ॥
--
१५. अधिकरणम् ॥
( १ ) स्वरूपेणानन्दादिना कथमानन्दित्वादिरिति ।
( २ ) अत उच्यते—
सू—ॐ ॥ उभयव्यपदेशास्त्वहिकुण्डलवत् ॥ ॐ ॥ २८ ॥
तमिति । परमात्मानं विना तत्प्रसादं विनेति यावत् । तं परमात्मानं
कः पश्येन्न कोऽपीति । अव्यक्तस्वभावस्य कथं दर्शनकर्मता युक्ति
विरोधादित्यत उक्तम्— ‘अमितं’ अनन्तं ‘प्रभुं’ समर्थमिति च ।
नारायणाध्यात्म इत्यनन्तरं सूत्रोक्तमुक्तमिति शेषः ॥ १४ ॥
॥ इति अव्यक्तत्वाधिकरणम् ॥
::-
१५. अधिकरणम् ॥
( १ ) अत्र भगवतो गुणित्वं समर्थ्यते । सयुक्तिकं पूर्वपक्षयति
—स्वरूपेणेति ॥ हेतौ तृतीया । कथमित्याक्षेपे । ब्रह्मण इति शेषः ।
प्रथमादिपदेन ज्ञानादिकं गृह्यते । द्वितीयेन ज्ञानत्वादिकं भजनीयत्वं
च । युज्यते इत्याकृष्यते । तथा च ब्रह्मणः ‘कथं भजनीयत्वं युज्यते’
न युज्यते । कुतः ? यतस्तस्य ‘कथमानन्दित्वादियुज्यते’ न युज्यते ।
अगुणित्वादिति यावत् । कुतः ? ‘स्वरूपेण’ ब्रह्मस्वरूपत्वेनाङ्गीकृते
नानन्दादिना हेतुना, आनन्दादिगुणानां ब्रह्मस्वरूपत्वाङ्गीकारादिति
यावत् । तत्स्वरूपत्वे च तद्वत्त्वायोगादिति भाव इति योजना । स्वरू-
पेणानन्दादिना धर्मेण कथमानन्दित्वादियुज्यते इत्येकान्वयो वा । त-
थात्वे युक्तिविरोधादिति शेषः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ‘आनन्दं ब्रह्म-
णः’ इति तैत्तिरीयश्रुतेः ‘न बिभेति कदाचन’ इत्युत्तरेणान्वयः । ‘अथ’
इत्यन्या श्रुतिः । ‘एषः’ विष्णुरेव ‘परमः’ पूर्णः । इतिशब्द आद्यर्थे । तेन
‘आनन्दो ब्रह्म’ (तै. ३-६. ) इत्यादिः गृह्यते । इत्युभयव्यपदेशादि-
ति । इत्याद्यासु श्रुतिषूभयोः ब्रह्मतदानन्दयोः उभयोर्गुणित्वतत्स्वरूप-
त्वयोरुक्तत्वादित्यर्थः । यद्वा—ब्रह्मण इति शेषः । अत्राद्यवाक्यं ब्रह्म-
णो गुणित्वं वक्ति, द्वितीयं तत्स्वरूपत्वमिति विवेकः । ननु श्रौतमपि
गुणात्मकस्य ब्रह्मणो गुणित्वं कथं युज्यते अदर्शनादित्यत उक्तं—अ-
१००