सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 828, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 828

[अधि - १२. सू - २१. ] दीपिकासहितम्. ७८१

‘अथात आनन्दस्य मीमांसा भवति’ (तै. २-८.)
इत्यारभ्य ब्रह्मपर्यन्तेषु सुखे विशेषदर्शनात् ।
ह्मापर्यन्तेषु’ चतुर्मुखपर्यन्तेषु मुक्तेष्विति शेषः। ‘सुखे’ आनन्देषु विशे-
षस्य तारतम्यस्य दर्शनादुक्तत्वादित्यर्थः। यद्यपि ‘सैषाऽऽनन्दस्य मी-
मांसा भवति’ (तै. २-८.) इति तैत्तिरीयश्रुति पाठः। तथाऽपि शाखान्त-
रपाठोऽयमित्यदोषः। श्रुतौ प्रकरणान्तरारम्भे अथशब्दः। ‘अतः’ पक्षद्व-
यप्रापकसत्त्वात् ‘आनन्दस्य’ मुक्तसुखस्य ‘मीमांसा’ किं सर्वेषामेक-
प्रकार उत अनेकप्रकार आनन्द इति विचारो ‘भवति’ प्रवर्तेत इत्य-
र्थः। एवं विचारे अनेकथेत्युत्तरमुच्यत इति केचित्। तन्न, तैत्तिरीयभा-
ष्ये आनन्दस्य ‘मीमांसा’ विचित्रता भवतीति व्याख्यानात् । विवि-
धचरणं वैचित्र्यम् धात्वर्थः । स्वार्थे सन्। फलवैचित्र्ये हेतुभावा-
दित्यतश्शब्दार्थः। मानुषोत्तममारभ्य विरिञ्चपर्यन्तमानन्दतारतम्यं व-
क्तुं तत्र मनुष्योत्तमचक्रवर्त्यानन्दस्य पूर्वावधिभूतत्वात्तद्वचनाय मु-
क्तचक्रवर्तिनो विशेषणान्याह—युवा स्यादित्यादिना । विष्णुना युत-
स्सन् वाति गच्छतीति युवा । साधुगुणयुक्तत्वात्साधुना विष्णुना यु-
तत्वाद्वा साधुयुवा । मुक्तथाख्याध्ययनफलवत्त्वादाध्यायिकः । आस-
मन्ताच्छमस्येत्याशः अतिशयेनाशः आशिष्ठः नित्यपूर्णसुखवानित्यर्थः।
अतिशयेन दृढो द्रढिष्ठः । अतिशयेन बली बलिष्ठः । य एवंभूतः मुक्त-
चक्रवर्ती तस्य त्रेतायुगे संसारदशायामियं सर्वा पृथिवी ‘वित्तस्य’
वित्तेन पूर्णा स्यात्तदा तस्य यत्सुखं ‘स एको मानुष आनन्दः’ मुक्तम-
नुष्यचक्रवर्तिसम्बन्ध्येक आनन्द इत्यर्थः । ‘ते’ प्रसिद्धाः ‘ये शतं मा-
नुषाः’ मुक्तमनुष्यचक्रवर्तिसम्बन्ध्यानन्दाः ‘स एकः मनुष्यगन्धर्वा-
णां’ मुक्तानामानन्दः । मुक्तत्वज्ञापनाय विशेषणद्वयमाह-श्रोत्रियस्ये-
ति । श्रोत्रियाणामकामहतानां चेत्यर्थः । एवमग्रेऽपि वचनव्यत्ययो ज्ञे-
यः । प्राप्तमोक्षिणः श्रोत्रियाः । कामकृतोपद्रवशून्याः अकामहताः । ये
साक्षाद्देवप्रेष्यास्ते देवगन्धर्वाः। तेषां मनुष्यगन्धर्वापेक्षया शतगुणि-
तोत्कृष्ट आनन्द इत्यर्थः । एवमग्रेऽपि पूर्वपूर्वापेक्षया उत्तरोत्तरेषां श-
तगुणोत्कर्षो ज्ञातव्यः । चिरकालीनो लोकश्चिरलोकः, स एव लोको
येषां ते तथोक्तास्तेषामित्यर्थः । देवेष्वनाख्याता अकथिता या देवताः
देवकुले जातास्ते आजानदेवास्तेषामित्यर्थः । के कर्मदेवाः ? कुतश्च ते-
षाम् कर्मदेवत्वमित्यत उक्तं—ये कर्मणेत्यादि । ‘ये ’ बल्याद्याः कर्मणा