सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

७२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
इति भविष्यत्पर्वणि ।
(४) लोकसिद्धं चैतत् । चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह ।
(५) अतिप्रिये यथा राजा न दुःखं सहते क्वचित् ।
अत्यप्रिये सुखमपि तथैव परमेश्वरः ॥
इति हि ब्राह्मे ॥ २० ॥
(६) सू— ॐ ॥ दर्शनाच्च ॥ ॐ ॥ २१ ॥
ष्टां' स्थितानां 'कश्चन' किंनिमित्तोऽपीत्यर्थः । किमु यथेष्टमित्यपेर-
र्थः । भविष्यत्पर्वणीत्यस्य स्मर्यत इत्यनेनान्वयः ॥
(४) लोक इत्येतदनुमानसूचक तया व्याख्याति— लोकसिद्धमि-
ति ॥ 'एतत्' अन्धे तमसि सुखराहित्यं लौकिकदृष्टान्तयुक्तानुमानसि-
द्धं चेत्यर्थः। न केवलं स्मृतिसिद्धमिति चार्थः। चेत्यनेन अपिः व्याख्या-
तः । अनुमानप्राबल्यहेतुस्मृतिसिद्धत्वसूचकतया चशब्दं व्याख्या-
ति— चशब्दादिति । न केवलं तमसः सुखराहित्यं श्रुतिसिद्धं, किन्तु
'लोकसिद्धिः' लौकिकदृष्टान्तवदनुमानेन तमसः सुखराहित्यसिद्धि-
रपि 'स्मार्ता' स्मृतिसिद्धेति चशब्दात् सूत्रकारः 'आह' सूचयती-
त्यर्थः । तथा च लोकसिद्धत्वं च स्मर्यत इति चशब्दान्वय इति भावः॥
(५) काऽसौ स्मृतिरित्यत आह— अतीति ॥ राजा यथा अतिप्रि-
ये पुरुषे क्वचित्कालेऽपि दुःखं न सहते, किन्तु सुखमेव । यथा चात्य-
प्रिये सुखं न सहते, किन्तु दुःखमेव, तथा परमेश्वरोऽपीत्यर्थः । अने-
न विप्रतिपन्नास्तामसाः न सुखित्वेन ईश्वरेणः अप्रियत्वादिति सूत्रकृ-
दभिप्रेतानुमाने पादद्वयेन राजप्रिये व्यतिरेकव्याप्तिः तृतीयेन तु राज-
विप्रियेऽन्वयव्याप्तिश्च दर्शिता भवति । अथवा— पूर्वे सदसज्जनानां
प्रकृतत्वात्तेषां प्रकृतिः स्वरूपमत्रोच्यते । न चासङ्गतिः । प्रियत्वाप्रिय-
त्वाभ्यां सदसज्जनेषु दुःखसुखासहने साध्ये अनुमानद्वयेऽप्यन्वयव्य-
तिरेकदृष्टान्तप्रदर्शनार्थत्वेन सङ्गतत्वात् । यद्यपि नानेनानुमानेन तमसः
सुखराहित्यसिद्धिः। तथाऽप्यनेन सिद्धेन सुखित्वेनेश्वरानिष्टत्वेन हेतु-
ना तामसानां सुखराहित्यसिद्धौ तमसस्तद्रहितत्वमपि सिद्ध्यतीति
तात्पर्यम् । इति हीति । हिशब्दो यत इत्यर्थे । तथा च ब्राह्मे पुराणव-
चने यत इत्युक्तं अतः चशब्दादित्युक्तं युक्तमित्यन्वयः ॥
(६) प्रत्यक्षेणाप्येतमर्थं साधयत्सूत्रमुपन्यस्य व्याचष्टे— दर्श-
नाच्चेति ॥ दर्शनवचनादित्यनेन दर्शनादित्येतद्दर्शनवचनादिति व्या-

[ अधि - १५. सू - २१. ] दीपिकासहितम्. ७२७
नारायणप्रसादेन समिद्धज्ञानचक्षुषा ।
अत्यन्तदुःखसंलीनान्निशेषसुखवर्जितान् ॥
नित्यमेव तथाभूतान्विमिश्रांश्च गणान् बहून् ।
निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥
अपश्यत्त्रिविधान्ब्रह्मा साक्षादेव चतुर्मुखः ।
ख्यातम् । अनेन हेत्वसिद्धिः परिहृता । पाद्मे दर्शनप्रतिपादकवचना
दित्यन्वयः । चशब्दस्तु न वचनान्वितः, किन्तु दर्शनान्वितः । तस्य
तमसः सुखराहित्ये साध्ये हिरण्यगर्भकर्तृकप्रत्यक्षाख्यहेतुसमुच्चयार्थ
त्वात् । सम्यग्दीप्तं दीप्तं समिद्धं, समृद्धमिति पाठे सम्यगभिवृद्धमि
त्यर्थः । समिद्धं च तत् ज्ञानचक्षुश्चेति विग्रहः । चक्षुर्हशिः । तथा च
चतुर्मुखो नारायणप्रसादेन समृद्धज्ञानचक्षुषा 'साक्षात्' परमुखमन्त
रेण स्वयमेव त्रिविधान् जीवानपश्यदित्यन्वयः । तानेव प्रकारिणो द
र्शयति—अत्यन्तेति । 'संलीनान्' मग्नान् । अनेन पादद्वयेन तमोयो
ग्याः सङ्गृहीताः । नित्यमेवेति पादद्वयेन नित्यसंसारिणः । 'तथाभूता
न्' मिश्रभूतान्। निरस्तेति पादद्वयेन मोक्षयोग्याः । जीवानिति शेषः ।
चौ परस्परसमुच्चये । अत्र तत्त्वप्रदीपे--'अपश्यत्त्रिविधान्ब्रह्म' इत्यु
क्तम् । त्रैविध्यं त्रिष्वपि तेषु नित्यदुःखिषु विमिश्रेषु नित्यसुखिषु च
अवान्तरभेदादवगन्तव्यम् । 'महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽ
धरम्' इति हि वक्ष्यति दुःखतारतम्येन भेदं तदायतनानाम् । विमि
श्रभेदस्तु अल्पसुखसममिश्राल्पदुःखभेदान्नारकिणो मानुषाः स्वर्गिण
इति । मनुष्योत्तमा ऋषिगन्धर्वा देवा इति मुक्तेषु नित्यसुखिषु च सु
खतारतम्याद्भेद उक्तः । एतेषु नित्यमेव तथाभूतत्वं च समानम् । वि
मिश्रेषु नित्यमतथाभाविनश्च सन्ति । स्वरूपस्थितमध्यम एव नित्यं
तथा भावात्सर्वेषां च जीवानां आस्वरूपावस्थानाद्विमिश्रत्वमेवेत्यनेक
शो विमिश्राः । अत एव तदाह--विमिश्रांश्च गणान्बहूनिति । तच्च
विमिश्रत्वमनन्तविधमिति सूचयति—विमिश्रानिति, इत्युक्तम् । अने
न त्रिविधानित्यस्य प्रत्येकं त्रिविधानित्यर्थः सूचितः । 'तदायतना
नां' नित्यदुःखस्थानानामित्यर्थः । विमिश्रभेदस्तु नारकिणो मानुषाः
स्वर्गिण इत्युक्त इत्यन्वयः। कथम्? अल्पसुखादिभेदात् । अल्पसुखमि
श्राः सुखदुःखसाम्येन मिश्राः अल्पदुःखमिश्राश्चेति भेदादित्यर्थः ।

७२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
इति दर्शनवचनाच्च पाद्मे ॥ २१ ॥
( ७ ) सू-ॐ ॥ तृतीये शब्दावरोधः संशोकजस्य ॥ ॐ ॥ २२ ॥
तृतीये तृतीयतमसः श्रवणादेव शब्दानुसारेण संशो
'नारकिणो' नरकप्रचुराः 'मानुषाः' भूप्रचुराः 'स्वर्गिणः' स्वर्गप्र
चुराः । भेदः उक्त इति । 'तत्र मन्दा मनुष्येषु' इत्यादिप्रमाणोक्त इ
त्यर्थः । 'एतेषु' त्रिषु तमोयोग्यादिषु नित्यमेव 'तथाभूतत्वं' स्वस्व
रूपावस्थितत्वम् । समानमित्यनेन नित्यमेव तथाभूतानित्येतत्त्रिविधा
नामपि विशेषणमिति सूचितम् । विमिश्रेषु नित्यमतथाभाविनश्च स
न्तीत्यनेन मुक्तियोग्यादीनां त्रयाणामपि विमिश्रत्वं सूचितम् । परं तु
मुक्तियोग्यतमोग्ययोः 'आस्वरूपावस्थानात्' स्वरूपाविर्भावपर्यन्त
मेव,

[ अधि - १५. सू - २३. ] दीपिकासहितम्. ७२९
कजमोहप्राप्तिः ॥ २२ ॥
(८) सू—ॐ ॥ स्मरणाच्च ॥ ॐ ॥ २३ ॥
महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् ।
श्रवणादेव मूर्छादिरधरस्य यतो भवेत् ॥
तस्मान्न विस्तरेणैतत्कथ्यते राजसत्तम । इति कौर्मे ॥ २३ ॥
-:*:–
न्ती मोहप्राप्तिरपि न सर्वेषामेकविधा, किन्तु स्वकारणश्रवणविषयव
क्तृशब्दानुसारेणेत्युक्तं भवति । तथा च तृतीयतमःस्वरूपप्रतिपादक
वक्तृशब्दविस्तारानुसारात्तदानुगुण्यादित्यर्थः । विस्तरस्तु व्याख्यान
सम्यग्व्याख्यानातिसम्यग्व्याख्यानादिरूपः । फलमपि सम्यग्व्याख्या
नेऽतिमूर्छेत्यादिरूपम् । तदुक्तिविस्तारानुसारेण मूर्छादि समासतो
व्यासतो वा भवतीति तत्त्वप्रदीपवाक्यस्य एकस्य द्वयोर्वा प्राप्तिस्स
मासः, सर्वेषां प्राप्तिर्व्यास इत्यर्थः। प्राप्तिरित्यनन्तरमतोऽपीत्यध्याहारे
ण न तृतीये सुखमिति प्रधानसाध्येनान्वयः । अनेन यतस्तृतीयतम
स्सु विषये तृतीये वक्तृशब्दानुसारात् संशोकजादेरवरोधः प्राप्तिर्भ
वति, अतश्च न तृतीये सुखमिति चशब्दानुषङ्गेण सूत्रयोजनान्तरमु
क्तं भवति ॥
(८) तृतीयतमःस्वरूपश्रवणे श्रोतृणां मोहप्राप्तिरित्येतत्कुतोऽवग
म्यते । यदन्यथाऽनुपपत्त्या तत्र सुखाभावावगम इत्याशङ्कां स्मृत्या प
रिहरत्सूत्रं पठित्वा तां स्मृतिमुदाहरति—स्मरणाच्चेति ॥ अत्र चश
ब्दो नाक्षेपकस्यासिद्धिरिति साध्यसमुच्चायकः । तस्येति शेषः । तथा
च तस्य तृतीये शब्दाद्यरोधस्य स्मरणाच्चार्थापत्तावाक्षेपकस्यासिद्धिborder/रि
ति सूत्रार्थः । स्मृतौ 'महातमः' अन्धतामिस्राख्यम् । 'अधरस्य' त
मसः शब्दश्रवणेन तस्मान्निमित्ताच्छ्रोतृणां मूर्छादि भवेदित्यर्थः । आ
दिशब्दाट्टीकारीत्याऽतिमूर्छादि ग्राह्यं, तत्त्वप्रदीपरीत्या तु उन्मादमर
णयोर्ग्रह्णम् । 'विस्तरेण' सम्यग्व्याख्यानेन 'एतत्' अन्धतमसः,
विस्तारो न क्रियत इति यावत् । राजसत्तमेति कस्य चित्सम्बुद्धिः ।
कौर्मे स्मरणादित्यन्वयः ॥ १५ ॥
॥ इति न तृतीयाधिकरणम् ॥
— * —
९२

७३० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
१६. अधिकरणम् ॥
( १ ) ‘ धूमो भूत्वाऽभ्रं भवति ’ ( छा. ५-१०-५. ) इत्याद्यन्य-
भावः श्रूयते । स कथमिति ।
( २ ) अतो ब्रवीति—
सू—ॐ ॥ तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ॐ ॥ २४ ॥
धूमादिषु प्रविश्य तद्गतौ गतिस्तत्स्थितौ स्थितिरित्या
१६. अधिकरणम् ॥
( १ ) अत्राधिकरणे कर्मिणो धूमादिभावो निवार्यते । तत्र विषयं
दर्शयति—धूम इति ॥ इत्यादीति लुप्तविभक्तिकम् । तथा च छन्दोग-
श्रुतौ काषायणश्रुतौ च ‘ धूमो भूत्वा ’ इत्यादौ धूमादिदेवताभ्योऽन्य-
स्य कर्मिणो धूमादिदेवताभावः श्रूयत इत्यर्थः । अनेन धूमादिदेवता-
भावाख्यविषयो दर्शितः । सन्देहप्रकारं दर्शयति—स इति । धूमादि-
भावः ‘ कथं ’ किं प्रकारः किं कर्मिणो धूमादिदेवैक्यं ? किं वा तत्प-
दप्राप्तिः ? प्रकारान्तरं वेत्यर्थः ॥
( २ ) धूमादिदेवैक्यं तत्पदप्राप्तिर्वा धूमादिभाव इति पूर्वपक्ष-
स्य अन्यभावः प्रतीयते इत्यनेनैव प्रदर्शितत्वात्तमप्रदर्श्य सिद्धान्तपरंसू-
त्रमवतार्य व्याचष्टे—अत इति ॥ धूमादिष्विति । धूमादिदेवतादेहेष्वि-
त्यर्थः । कर्मणि सप्तमी । ‘ तद्गतौ ’ धूमादिगतौ । स्थितावित्यत्रापि त-
च्छब्दान्वयः । आदिशब्दाल्लघुत्वं अन्यदेहाविग्रहवत्तद्देह एवाभिमा-
नः पृथगभिमानाभावश्च गृह्यते । ‘ तद्भावापत्तिः ’ तत्स्वभावापत्तिः ।
तथा च तत्स्वभावैकदेशसादृश्यनिबन्धनो गौणोऽयं निर्देश इति भा-
वः । यद्वा—आदिशब्देन स्थानैक्यं गृह्यते । तेन लाक्षणिकोऽयं प्रयोग
इति सूचयति । एवं टीकाभिप्रेतं तदधीनत्वनिमित्तं च आदिपदार्थत-
या ग्राह्यम् । अत एव स्मृतौ ‘ ब्रह्मेदं जगदित्यपि ’ इति दृष्टान्तोक्तिः ।
अन्यथाऽसङ्गतेः । अस्मिन् पक्षे श्रौतनिर्देशो मुख्यः । अनेन सूत्रे तत्त्व-
प्रदीपोक्तरीत्या गजमुख इतिवत्तस्य धूमादेः स्वभावपदोक्तधर्मसदृशः
स्वभावो यस्य सः तत्स्वभावः, तस्य भावः तत्स्वाभाव्यम्, तस्याप-
त्तिरिति विग्रहः । लाक्षणिकत्वपक्षे तस्य स्वभावस्य तद्देहस्थितत्व-
स्यापत्तिरिति विग्रहः । मुख्यत्वपक्षे तदधीनस्वभावस्यापत्तिरिति ।
पक्षद्वयेऽपि स्वार्थे ष्यञ् । तथा च ‘ तस्यां ’ ‘ धूमो भूत्वा ’ इति श्रुतौ
श्रुता ‘ तद्भावापत्तिः ’ धूमादिभावप्राप्तिर्नाम तत्स्वाभाव्यापत्तिरेव, न

[ अधि - १६. सू - २४. ] दीपिकासहितम्. ७३१
दिरेव तद्भावापत्तिः । न ह्यन्यस्यान्यभावो युज्यते ।
न च तत्पदप्राप्तिः ।
( ३ ) गारुडे च —
धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु ।
स्थितौ स्थितिः प्रदेशश्च लघुत्वादिस्तथैव च ॥
न ह्यन्यस्यान्यथाभावो न च तत्पद्मिष्यते ।
विद्यागम्यं पदं यस्मान्न तत्प्राप्यं हि कर्मणा ॥
( ४ ) एकदेशस्वभावेन वागभेदाऽपि युज्यते ।
त्वैक्यम्, तत्पदप्राप्तिर्वेति प्रतिज्ञार्थ उक्तो भवति । कुतोऽर्थोऽयं श्रुतेः
स्यादित्यतः प्रवृत्तमुपपत्तेरिति हेतुं व्याचष्टे—न हीति । हिशब्दो य-
स्मादित्यर्थे । 'अन्यस्य' कर्मिणः 'अन्यभावो' धूमादिभावः । कुतो
नेत्यतोऽप्याह—न हीति । दृश्यत इति शेषः । तत्प

७३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि ॥ इति ॥ २४ ॥
१७. अधिकरणम् ॥
(१) बहुस्थानगमनात्कल्पान्तमप्येवं स्यादिति ।
यथोक्तं तत्त्वप्रदीपे—भेदरहिता वागिति । केचित्तु—अर्शआद्यजन्तो
ऽयं शब्द इत्याहुः । अपिर्निमित्तान्तरसमुच्चये । पूर्वपादेनान्वेति । न
न्वदर्शनादयुक्तोऽयमर्थ इत्यत एकदेशसादृश्येनाभेदप्रयोगं दर्शयति—
यथेति । 'तत्त्वमसि' (छा.६-८-७.) इत्यादावित्यर्थः । श्रुतियुक्त्यनुभ
वसम्प्रतिपत्तिबलादयं दृष्टान्त उपात्तः । यत्प्राक्सूचितं तदधीनत्वाद्
प्ययं प्रयोग इति, तत्र दृष्टान्तमाह—ब्रह्मेदमिति । 'सर्वं खल्विदं ब्रह्म'
(छा.३-१४-१.) इत्यादावित्यर्थः । सर्वस्य ब्रह्माधीनत्वादयं व्यपदेशः।
यद्वा—तद्गुणसारत्वादित्यत्रोक्तदिशाऽयमपि दृष्टान्तः सकलजगद्गुण
सदृशगुणात्मकत्वेन ब्रह्म जगदित्युच्यत इति सादृश्यनिमित्तक एव
योजनीयः । अपिर्दृष्टान्तसमुच्चये ॥ १६ ॥
॥ इति तत्स्वाभाव्याधिकरणम् ॥
१७. अधिकरणम् ॥
(१) अत्राधिकरणे स्वर्गादवरूढस्य कर्मिणोऽचिरेण गर्भवासा
दिप्राप्तिः समर्थ्यते । तत्र कर्मी स्वर्गान्निर्गतश्चिरेणैव देहं प्राप्नोतीति पू
र्वपक्षप्रतिज्ञाया नातिचिरेणेति सूत्रांशेन ज्ञापितत्वात्तमप्रदर्श्य तद्धेतुं
दर्शयति—बहुस्थानेति ॥ गमनं प्राप्तिः । तेन च तच्छ्रवणमुपलक्ष्यते ।
तथा च 'यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति' (छा.
५-१०-५.) इत्यादौ कर्मिणो बहुस्थानप्राप्तिश्रवणादित्यर्थः । बहुस्थानग
मनं च नाचिरेण सम्भवति । तत्र तत्र तत्स्वाभाव्येनातिमहासुखे च
सम्भवति तद्विहायागमने प्रयोजनाभावात्। अतस्तदन्यथानुपपत्त्याऽऽ
गतौ विलम्बोऽङ्गीकार्य इति भावः । तावता स्वर्गादागमने विलम्बः
कुत इत्यत आह—कल्पान्तमिति । ब्रह्मकल्पपर्यन्तमित्यर्थः । 'एवं'
तत्तद्देवतास्वाभाव्यं 'स्यात्' असकृदनुष्ठितयज्ञस्य मध्ये मार्गमिति
भावः । सदेत्यनुक्त्वा कल्पान्तमित्यवध्युक्तिः कल्पावसाने देवानां प
दपर्यवसानादित्यभिप्रायेण ॥

[ अधि - १८. सू - २६. ] दीपिकासहितम्. ७३३
( २ ) अत आह—
सू—ॐ ॥ नातिचिरेण विशेषात् ॥ ॐ ॥ २५ ॥
'तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां
योनिमापद्यन्ते' (छा. ५-१०-७.) इति विशेषान्नाति
चिरेण ।
( ३ ) स्वर्गाल्लोकादवाक्प्राप्तो वत्सरात्पूर्वमेव तु ।
मातृशरीरमाप्नोति पर्यटन् यत्र तत्र च ॥ इति च नार
दीये ॥ २५ ॥
--
१८. अधिकरणम् ॥
( १ ) 'त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ विशेषादि
ति । कालसामीप्यबोधकविशेषश्रुतेरित्यर्थः । सौत्रप्रतिज्ञामनुकरोति-
नेति । कर्मी स्वर्गान्न चिरेणेमं लोकमागच्छति, किन्त्वचिरेणैव । त
र्हि बहुस्थानगमनविरोध इति न वाच्यम् । यतः कल्पान्तरूपातिचिरे
ण गमनाभावेऽपि बहुस्थानप्राप्तिप्रयुक्तचिरगमनमस्त्येवेत्याशयेन--
भवतीत्याह । व्याख्यातेयं श्रुतिश्चरणनये ॥
( ३ ) ननु 'अभ्याशः' (छा. ५-१०-७.) इति श्रुतिर्न निर्णायिका क
ल्पान्तकालस्यापि ततोऽधिककालापेक्षया समीपत्वादित्यतः श्रुत्यर्थनि
र्णयाय स्मृतिमुदाहरति—स्वर्गादिति ॥ 'अवाक्' अधोदेशं प्राप्तः
'वत्सरात्' संवत्सरात्तत्समाप्तेः पूर्वमेव, न त्वधिककालमित्येव श
ब्दार्थः । तुशब्दः संवत्सरे मानुषत्वरूपविशेषद्योतकः । 'यत्र तत्र च'
यत्र कुत्र चेत्यर्थः । अनेकस्थानेष्विति यावत् । 'पर्यटन्' सञ्चरन् । इति
चेति चशब्दो नारदीये चेति सम्बध्यते । न केवलं श्रुतिवचनात्, कि
न्तु नारदीये पुराणे उक्तमित्यर्थः ॥ १७ ॥
॥ इति नातिचिरेणाधिकरणम् ॥
—:
:—
१८. अधिकरणम् ॥
( १ ) अत्राधिकरणे कर्मिणां व्रीह्यादिभावनििमत्तकदुःखाभावः प्र
तिपाद्यते । पूर्वपक्षयति—त इति ॥ इतीति । एवंरूपच्छन्दोगश्रुतेरित्य
र्थः । 'अनर्थफलत्वं' दुःखफलकत्वमेव 'यज्ञादेः' अन्ततः प्राप्नोतीति

७३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
जायन्ते ' ( छा० ५-१०-६. ) इति श्रवणादनर्थफलत्वं
यज्ञादेरिति ।
( २ ) अतो वक्ति —
सू — ॐ ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ॐ ॥ २४ ॥
अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽ
स्य । ' धूमो भूत्वाऽभ्रं भवति ' ( छा० ५-१०-५० ) इत्या
दिपूर्वोक्तिवत् ।
शेषः । अत्र श्रुतिर्न दुःखफलकत्वे साक्षाद्धेतुः, किन्तु स्वावगतव्रीह्या-
दिभावकृतच्छेदनादिनिमित्तेन योनिप्रवेशप्राक्कालीनस्थावरजातिनि-
मित्तेन वेति द्रष्टव्यम् । तथा च सुखसाधनतया वेदोक्तस्यापि कर्म-
णो दुःखसाधनत्वे मोक्षसाधनत्वेनोपदिष्टवैराग्यादावपि विश्वासाभा-
वादननुष्ठेयत्वं तस्येति भावः । ' ते ' भुक्तपुण्याः कर्मिणः स्वर्गादाग-
च्छन्तो मेघपर्यन्तेन पथा वर्षेण सहावनितलमापन्नाः ' इह ' भूमौ के-
चिद्व्रीहियवाः केचिदोषधिवनस्पतयः केचित्तिलमाषाः ' जायन्ते '
अन्यजीवाधिष्ठिते व्रीह्यादिशरीरे प्रविशन्तीत्यर्थः । इतिशब्दः आद्यर्थ-
कः श्यामाकादिधान्योपलक्षणार्थकः ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अन्येति । अ-
न्येन व्रीह्यादिशरीराभिमानिजीवेन भोक्तृतयाऽधिष्ठितव्रीह्यादिशरीरे
इत्यर्थः । सूत्रेऽपेक्षितशेषं दर्शयति—प्रवेश इति । सावधारणमेतत् ।
न त्वभिमानित्वमिति तदर्थः । भुक्तावुच्यते यत इति शेषः । अस्या-
तो मानाभावान्न कर्मिणो व्रीह्यादिभावो न वा तत्कृतदुःखमित्युपसंहृ-
तवाक्येनान्वयः । ननु मा भूदभिमानित्वं कर्मिणः, तथाऽपि व्रीह्यादि-
सहावस्थानेऽपि दुःखं स्यादित्यत आह—न त्विति । 'अस्य' कर्मिणः ।
तुशब्दो भोगस्यानवसरप्राप्तत्वरूपविशेषद्योतकः । यदि कर्मिणो व्री-
ह्यादिप्रवेश एव, न तद्भावः, तर्हि कथं सामानाधिकरण्यमित्यतस्तत्प-
रिहारत्वेन पूर्ववदित्यंशं व्याचष्टे—धूम इति । यथा तत्स्वाभाव्याप-
त्तिरिति पूर्वसूत्रे प्रकृता ' त इह ' इत्युक्त्यपेक्षया पूर्वा ' धूमो भूत्वा '
इत्यादिरूपोक्तिः धूमादिदेवतादेहप्रवेशेन स्थानैक्याद्यभिप्राया, तथा
' त इह व्रीहियवाः ' इति सामानाधिकरण्योक्तिरपीत्यर्थः । पूर्वोक्तव-
दिति पाठे यथा धूमादिषु पूर्वोक्तेषु तद्भावोक्त्या प्रवेशादिः विवक्षित
इति तत्त्वप्रदीपोक्तार्थो द्रष्टव्यः ॥

[ अधि - १८. सू - २७. ] दीपिका सहितम्. ७३५
( ३ ) 'सोऽवाग्गतः स्थावरान्प्रविश्याभोगेनैव व्रजन् स्थूलं
शरीरमैति स्थूलाच्छरीराद्भोगाननुभुङ्क्ते' इत्यभिला
पात्कौषारवश्रुतौ ।
( ४ ) स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः ।
अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः ॥ इतिवाराहे ॥२६॥
( ५ ) सू— ॐ ॥ अशुद्धमिति चेन्न शब्दात् ॥ २७ ॥
हिंसारूपत्वात्पापस्यापि सम्भवाद्दुःखं च भवतीति
( ३ ) ननु कर्मिणो व्रीह्यादिशरीरप्रवेश एव, न तु तदभिमतिकृ
तत्तद्भावः । प्रवेशेऽपि न भोग इत्येतत्कुतो ज्ञायते, येन श्रुतेरर्थान्तरक
ल्पनेत्यतः प्रवृत्तं अभिलापादित्यंशं व्याचष्टे—स इति ॥ 'सः' कर्मी
स्वर्गादवाग्गतः 'स्थावरान्' व्रीह्यादिरूपान् 'प्रविश्याभोगेनैव व्रज
न्' इतरजीवेन सहावस्थानेऽपि दुःखाननुभवेन वर्तमानः पितृमातृ
द्वारा 'स्थूलं' मानुषादिशरीरमाप्नोति । 'स्थूलाच्छरीरात्' स्थूलश
रीरेण 'भोगान्' भोग्यान् सुखादीननुभवतीत्यर्थः । अभिलापो वच
नम् । कौषारवश्रुतौ इत्यभिलापादित्यन्वयः । अभिलापादित्यस्य चा
न्याधिष्ठिते प्रवेश एवेति प्रतिज्ञयाऽन्वयः ॥
( ४ ) अत्रार्थे स्मृतिं चाह—स्वर्गादिति ॥ व्रीह्यादीति । इतरस्य
देहः इतरदेहः व्रीह्यादिरूपश्चासावितरदेहश्चेति स तथोक्तः । तत्र
स्थित इत्यर्थः । अभुञ्जन्निति । सहावस्थानेऽपि तद्देहकृतदुःखमननुभ
वन्नित्यर्थः । 'कालतः' अल्पकालेनैव 'क्रमेण' मातापितृक्रमेण 'दे
हं' स्थूलदेहमाप्नोतीत्यर्थः । अभुञ्जन्निति परस्मैपदमार्षम् । वाराह इत्य
स्याभिलापादित्यनेनान्वयः ॥
( ५ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याच
ष्टे—अशुद्धमिति ॥ 'हिंसारूपत्वात्' तद्युक्तत्वात्। यज्ञादिकर्मण इति
शेषः । पापस्येत्यतः प्राक् तत इति संयोज्यम् । न केवलं पुण्यस्येत्य
पेरर्थः । दुःखं चेत्यत्रापि तत इति वर्तते । न केवलं पापमिति चश
ब्दार्थः । अत्रोत्तरं प्रति पूर्वो हेतुतया योज्यः । अनेन यज्ञादि कर्म 'अ
शुद्धं' दुःखहेतुः । कुतः ? यतः 'अशुद्धं' पापापादकम् । तत्त्वमपि
कुतः ? यतः 'अशुद्धं' हिंसारूपमिति पूर्वपक्षांश आवृत्त्या व्याख्या
तः । परिहारांशं व्याचष्टे—नेति । इदं चावर्तनीयम् । यज्ञादिकं न दुःख

७३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
चेन्न, शब्दविहितत्वात् ।
( ६ ) हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत् ।
वेदोक्तया हिंसया तु नैवानर्थः कथं चन ॥ इतिवाराहे॥२७॥
१९. अधिकरणम् ॥
( १ ) स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत् ।
खसाधनं, कुतः ? यतो न पापसाधनमिति । कुतो नेत्यत आह--शब्दे
ति । 'वायव्यं श्वेतमालभेत' (तै.सं.२-१-१.) इत्यादिश्रुतिविहितत्वा
दित्यर्थः । अनेन सूत्रे शब्दादित्यनन्तरं विहितत्वादिति शेषः कार्य इ
ति सूचितम् । हिंसारूपत्वात्कथं न पापसाधनत्वमित्यतोऽप्याह--श
ब्देति । तथा च अनुमानस्य निषिद्धत्वोपाधिदुष्टत्वमिति भावः ॥
( ६ ) स्मृतिविरोधं चाह--हिंसेति ॥ 'अवैदिका' वेदाविहिता ।
ङीब

[ अधि - १९. सू - २८. ] दीपिका सहितम्. ७३७
इति वचनात् ' य एव गृही भवति यो वा रेतस्सिञ्च
ति तमेवानुविशति ' ( ) इति श्रुतिः कथमिति ।
(२) अत आह—
तिज्ञयाऽन्वयः। न चास्य पितृप्रवेशश्रुतिविरोधः। वचनस्य युक्तिसाहि
त्येन बलवत्त्वादित्याह-य एवेति। यद्यपीयं श्रुतिः शाखान्तरस्थत्वान्नो
दाहर्तुमुचिता, किन्तु 'यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति तद्भूय एव
भवति' (छां.५-१०-६.) इति छन्दोगश्रुतिरेवोदाहार्या स्यात्, 'त इह'
(छां.५-१०-६.) इत्यादिवाक्येन सह एकप्रकरणस्थत्वात्। तथाऽपि इ
ति श्रुतिश्चेति चशब्देनास्या अपि समुच्चितत्वात्। श्रुत्यन्तरस्य स्पष्टार्थ
त्वाच्चोदाहरणं युक्तम्। अत एव तत्त्वप्रदीपे 'य एव गृही भवति यो वा
रेतः सिञ्चति' इत्यादि श्रुतिः 'यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति' इत्या
दिकया समानप्रकरणपठितया च सह कथं युज्यत इत्युक्तम्। समान
प्रकरणपठितयेत्यस्य 'त इह' इत्यादिवाक्येन सहैकप्रकरणपठितयेत्य
र्थः। 'यः' पुरुषो 'गृही' गृहस्थाश्रमी भवति, यो वा रेतः सिञ्चति तं पि
तरमेव प्रविशति जीव इति श्रुत्यर्थः। श्रुतिरिति। श्रुत्युक्ता पितृशरी
रप्राप्तिरित्यर्थः। कथमित्याक्षेपे। किमर्था निष्प्रयोजनेत्यर्थः। अनेन
स्मृतेः पितृप्रवेशे प्रयोजनाभावादिति युक्तियुक्तत्वेन प्राबल्यमुक्तं भ
वति। ननु श्रुतेर्युक्त्ययुक्तत्वेऽपि श्रुतित्वेन स्वभावतः प्रबलत्वात्साम्य
मित्यतोऽप्याह-श्रुतिः कथमिति। आक्षेपोऽयम्। प्रतीतार्थे प्रमाणमिति
शेषः। कुत इत्यतोऽत्रापि 'इति वचनात्' वचनविरोधादित्युक एव
हेतुर्योज्यः। तथा च श्रुतेरर्थान्तरपरतया सावकाशत्वेन दुर्बलत्वान्न
तद्विरोधः स्मृतेरिति भावः। ननु सावकाशत्वं ममासिद्धमित्यतोऽप्या
ह—श्रुतिः कथमिति। प्रश्नोऽयं, किमर्थेत्यर्थः। 'वचनात्' वचनवि
रोधादित्यत्रापि सम्बध्यते। तथा च श्रुतिर्यत उक्तवचनविरुद्धाऽतः
प्रतीतार्थायोगादर्थान्तरस्यावश्यंभावात्किमर्था श्रुतिः श्रुत्यर्थः क इ
ति सिद्धान्तिनं प्रति वादिना पृष्टे तदा तेनापि श्रुतेरर्थान्तरमेव वक्त
व्यम्, न प्रतीतार्थ एवाग्रहः कार्य इति नासिद्धिरिति भावः। 'हि'
यतः 'अन्नं' अद्यमत्ति अत एव यो वै रेतः सिञ्चति अतस्तद्भूय एव
भवति तद्भाव एव तन्मयो वा भवति। अद्यमानान्नानुगतः कर्मी 'त
मेव' रेतस्सिचमेव पुरुषं प्रविशतीति श्रुत्यर्थः॥
(२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति॥ श्रुतेरित्यनेन
९३

७३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
सू—ॐ ॥ रेतस्सिग्योगोऽथ ॥ ॐ ॥ २८ ॥
‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते
स कर्म कुरुते’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथम
तः प्रविशति । मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ २८ ॥
——
२०. अधिकरणम् ॥
( १ ) देहं गर्भस्थितं कापि प्रविशेत्स्वर्गतो गतः ।
पूर्वस्माच्छब्दादित्यनुवर्तनीयमिति सूचितम् । पितरं प्रविशतीत्यनेन
रेतस्सिग्योग इति पदं व्याख्यातम् । सूत्रे पितृयाग इत्यनुक्त्वा रेत
स्सिग्योग इत्युक्तिः शरीरपरिणामाय रेतसोऽपेक्षितत्वात्तस्य च सेच
कपुरुषं विनाऽयोगात् पितुरेवानुपयोग इति चोद्यानवकाश इति ज्ञाप
नाय पितृप्रवेशस्त्वीशक्लृप्तत्वान्न व्यर्थ इति भावः । पितरमेवेत्यनेन रे
तस्सिकपदं सावधारणमिति सूचितम् । प्रथमत इति सूत्रे शेषोक्तिः।
एवकारोऽन्यप्रवेशस्य प्राथम्यव्यवच्छेदकः। श्रुत्यर्थस्तु-स इत्यस्याक
र्षेणेन अन्नशब्दस्य चाध्याहारेण ‘सः’ व्रीह्यादिस्थो जीवः ‘ततः’
अथान्नेन सह पितरमेव प्रविशतीति तत्त्वप्रदीपोक्तो बोध्यः। ‘अथ’
पितृप्रवेशानन्तरं ‘प्रसूयते’ उत्पद्यते । एवं चेत् ‘मातुरेवोदरं व्रजेत्’
इति वचनमप्रमाणं प्राप्तमित्यत आह--अथेति । तद्व्याख्यानं-मा
त्रिति । अपिः मातृप्राप्तेः प्रथममभावेऽपीत्यर्थे । तथा च ‘मातृप्राप्तेः’
प्रथममभावेऽपि ‘पश्चात्’ पितृप्रवेशानन्तरं ‘भाव्यत्वात्’ वि
द्यमानत्वादित्यर्थः । अनेन सूत्रे अथेत्यनन्तरं मातृप्राप्तिरिति शेषः सू
चितः । तथा च स्मृतेः पश्चात्तनविषयत्वान्नाप्रामाण्यं न वा तद्विरो
धः श्रुतेः । स्मृतेः सावकाशत्वादिति भावः । स्मृतिगतैवकारस्तु
व्रजेदेवेत्यन्वितोऽयोगव्यवच्छेदकः । अन्ययोगव्यवच्छेदकत्वेऽप्यास्ति
कादिविशेषविषयम् । उक्तं हि तत्त्वप्रदीपे-मातुरेवाङ्गतः । अतश्चैत
दाह-‘स्वर्गादवागतो देही मातुरेवोदरं व्रजेत्’ इतीति ॥ १९ ॥
॥ इति रेतोऽधिकरणम् ॥
—
—
२०. अधिकरणम् ॥
( १ ) अत्राधिकरणे जीवस्य पितृद्वारा योनिं प्रविश्य शरीरप्राप्तिः
समर्थ्यते । पूर्वपक्षयति-देहमिति ॥ कर्मी ‘रेतोरक्तसंयोगात्पश्चात्’

[ अधि - २०. सू - २९. ] दीपिका सहितम्. ७३९
इति वचनात्पश्चादेव प्रविशतीति ।
( २ ) अत आह—
सू—ॐ ॥ योनेःशरीरम् ॥ ॐ ॥ २९ ॥
पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमा-
प्नोति ।
( ३ ) 'दिवः स्त्रास्तूनगच्छति स्त्रास्तुभ्यः पितरं पितुर्मातरं
मातृयोनौ पित्रा सिक्तस्य रेतसो रक्तसंयुक्तस्य देहाकारेण परिणामा-
नन्तरमेव मातृगर्भस्थं पूर्वसिद्धं देहमन्नादिद्वारेण प्रविशतीत्यर्थः । न
तु पितृशरीराद्रेतसा सह योनिद्वारा मातृशरीरं प्रविश्याथ तत्र देहं
प्राप्नोतीति नियम इत्येवकारार्थः । अनेन पूर्वपक्षे योनिप्रवेशो न वि-
द्यते, व्यर्थश्च योनिप्रवेशः, पितृप्रवेशोऽप्ययुक्तः, शरीरप्राप्तिरप्यनुप-
पन्नेत्यनेकप्रतिज्ञा सूचिता । सर्वत्रापि ' देहे गर्भस्थितं क्वापि' इति
वचनादिति हेतुर्योज्यः । तद्वचनस्य स्वर्गाद्भूमिं गतो जीवः पितृगर्भ-
स्थितं पितुः सकाशात्संसर्शद्वारेण मातुरुदरस्थगर्भस्थितं वा प्रागसि-
द्धशरीरं क्वापि क्वचिन्मातृस्थरेतसैव परिणतं मातृगर्भस्थितं वा प्रा-
क्सिद्धशरीरं मातृपभुक्तान्नादिद्वारेण पितुर्मातुरुदरस्थगर्भस्थितं वा
प्रागसिद्धशरीरं प्रविशेदिति व्याख्यानेनोक्तसाध्यचतुष्टयेऽपि हेतुबो-
धकता द्रष्टव्या ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ पितृशब्दो
रेतस्सिकपरः । अनेन सौत्रो योनिशब्दो बीजपुरुषायुपलक्षक इति सू-
चितम् । पितृशरीरादिति ल्यब्लोपनिमित्ता पञ्चमी । प्रथमत इति
शेषः । योनिमनुप्रविश्येत्यनेन सौत्री पञ्चमी ल्यब्लोपनिमित्तेति ज्ञापि-
तम् । ' ततः ' अनन्तरम् । अनेन सूत्रेऽथशब्दानुवृत्तिस्सूचिता । एव-
कारो भिन्नक्रमः । तथा च स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादि-
बीजेषु सङ्क्रान्तो रेतस्सिकपुरुषस्य शरीरं प्रविश्यैव अथ ततो रेतसा
सह मातृयोनिद्वारा तदुदरमनुप्रविश्य ततस्तत्रैव प्रागसिद्धं कलल-
बुद्बुदादिक्रमेणोत्पन्नं शरीरं प्राप्नोति, न तुक्रमातिक्रमेणेति सावधा-
रणप्रतिज्ञार्थः ॥
( ३ ) यथोक्तं सुधायाम्—नैतद्युक्तमप्रामाणिकत्वादिति। अतोऽत्र प्र-
माणमाह—दिव इति ॥ 'दिवः' स्वर्गाद्भूमिं प्रत्यागतो जीवः 'स्त्रास्तू-

७४० ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - १.]
मातुः शरीरं शरीरेण जायत इति सम्मितम् । अथास
म्भितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा
बहिर्वा' इति पौष्यायणश्रुतेः ।
न्' स्थावराणि व्रीह्यादिशरीराणि 'गच्छति' प्राप्नोति । स्थास्नुभ्यः पि
तरं गच्छति । पितुस्सकाशाद्योनिद्वारा मातरं गच्छति । मातुस्सका
शाच्छरीरं प्रागसिद्धं गच्छति । ततश्शरीरेण युक्तो जायत इत्येवं 'स
म्भितं' विद्यातपआदिविशेषकारणमन्तरेण साधारणं जन्मोक्तमित्य
र्थः । सूत्रेऽनुवृत्तस्याथशब्दस्य योनेश्शरीरमापद्यते नापद्यते च क्वचि
दित्यर्थान्तरार्थत्वमभिप्रेत्य तत्र प्रमाणमाह--अथेति । अथान्यत् 'अ
सम्मितं' तपोज्ञानादिविशेषकारणकमुत्तममुत्तमाधिकारिभिरेव लभ्य
मसाधारणं जन्मेत्यर्थः । इति सम्मितमित्यादिशेषवाक्योदाहरणेन 'दे
हं गर्भस्थितम्' इत्यादिप्रागुदाहृतवचनस्य साधारणजन्मविषयत्वेन
गतिरुक्ता भवति । 'स्थास्नुभ्यः' स्थावरेभ्यः । कश्चिज्जीव इति शेषः ।
यथा शुकादिः अरण्यादेः । 'पितुः' जायते कश्चित्, यथा मान्धातृप्र
मुखाः। 'मातुः' जायते, यथा जरत्कार्वाद्यनुग्रहादास्तिकादिः । 'अन्त
रे' स्थानान्तरे, यथा दृष्टद्युम्नादिरग्नौ । यद्वा--'अन्तरे' मातापित्रो
र्मध्ये अन्योन्यदर्शनमात्रेणेत्यर्थः । उदाहरणं तूक्तमेव । तत्वप्रदीपे तु
अन्तरे द्रुपदादयः इत्युक्तम् । 'गर्भे' पूर्वमेव सिद्धं शरीरं केचित्प्रवि
शन्ति यथा श्रीमन्मध्वाचार्याः । तदुक्तं मध्वविजये--'सम्पूर्णलक्षण
क्षणम्' इत्यादिनेति कश्चिदाहुः । तच्च तत्त्वप्रदीपे तेषां बहिःप्रवेशोक्त्या
विरुद्धम् । अत एव तत्त्वप्रदीपे--अत्यन्तविशिष्टविषयं बहिःप्रवेशव
चनमवगम्यत इत्युक्तम् । अत्यन्तविशिष्टास्तु ऋजव एव । न च टी
कायां बहिर्द्रुपदादय इत्युक्तिविरोधः । तस्याः पितृमात्रपेक्षया मातुरु
दराद्बहिरित्यर्थाश्रयेण प्रवृत्तत्वात् । तत्त्वप्रदीपस्य च मातापित्रुभयब
हिर्गतोभयनिरपेक्षदेहविषयत्वात् । यथोक्तं तत्त्वप्रदीपे--सञ्जाते शरी
रे प्रवेष्टुर्गर्भवासप्रसूत्यादिदुःखग्रामलेशस्पर्शाद्विनैव यथाकामं देह
ग्रहणसम्भवात्तस्य च जन्मभाजामतिदुर्लभत्वादतो नारायणपरायण
स्य कस्य चित् तत्प्रसादसामग्रीसमुद्भूतप्रभावस्यैव तत्सुलभमुपलभा
महे । स्वयं चावोचत् 'बीजपूरुषयोनीनाम्' इत्यादि । तद्बहिर्निर्गत
शरीरप्रवेशेन जननमित्यर्थः । तस्मात् ऋजुव्यतिरिक्ता एव गर्भे इत्य

[ अधि - २०. सू - २९. ] दीपिकासहितम्. ७४१
( ४ ) स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् ।
पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥
देहेन जायते जन्तुरिति सामान्यतो जनिः ।
विशेषजननं चापि प्रोच्यमानं निबोध मे ॥
स्थाणुष्वथापि पुरुषे प्रमदायामथापि वा ।
गर्भे वा बहिरेवाथ क्वचित्स्थानान्तरेषु च ॥ इति ब्राह्मे ॥ २९ ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य
प्रथमः पादः •
॥ ॐ ॥
त्रोदाहरणीयाः । अत एव टीकायां गर्भे पूर्वसिद्धशरीरं केचिदिति
सामान्येनोक्तं, न त्वाचार्या इति । तस्माद्गर्भे इत्येतत् ऋजुव्यतिरिक्तजी
वविषयं, बहिरेत्येतत् ऋजुविषयमिति विवेको द्रष्टव्यः । श्रुतेरित्यस्य
पितृशरीरादिति प्रतिज्ञायाऽन्वयः ॥
( ४ ) श्रुत्यर्थनिर्णयायात्र स्मृतिं चाह—स्थावराणीति ॥ ‘जन्तुः’
कर्मजीवः ‘दिवः’ स्वर्गात् ‘स्थावराणि’ व्रीह्यादीनि प्राप्तो भवती
त्यन्वयः । एवमुत्तरत्रापि ‘यथाक्रमं’ उक्तक्रममनतिक्रम्य ‘देहेन’ त
द्विशिष्टः ‘सामान्यतः’ साधारणम् । ‘विशेषजननं’ असाधारणं ज
न्म ‘प्रोच्यमानं’ प्रवक्ष्यमाणं ‘मे’ सकाशान्मयेति वा ‘निबोध’ जा
नीहि । ‘प्रमदायां’ भार्यायां जरत्कार्वादौ । स्थाणुष्वित्यादेरुदाहरणा
नि तु पूर्वोक्तान्येव द्रष्टव्यानि । ‘ब्राह्मे’ उक्तत्वादिति शेषः । अस्यापि
पितृशरीरादिति प्रतिज्ञायाऽन्वयः ॥ २० ॥
॥ इति योन्यधिकरणम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका
यां तृतीयाध्यायस्य प्रथमः पादः.
॥ ॐ ॥

७४२ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ]
१. अधिकरणम् ॥
( १ ) भक्तिरस्मिन् पाद उच्यते । भक्त्यर्थं भगवन्महिमोक्तिः ।
सू—ॐ ॥ सन्ध्ये सृष्टिराह हि ॥ ॐ ॥ १ ॥
न स्वप्नोऽपि तं विना प्रतीयते ।
१. अधिकरणम् ॥
( १ ) एतत्पादप्रतिपाद्यं दर्शयति—भक्तिरिति ॥ यद्दाढ्यार्थं वै-
राग्यं निरूपितं पूर्वपादे, या चोपासनस्याङ्गं सा भक्तिरवसरप्राप्ता 'अ-
स्मिन्' तृतीयस्य द्वितीयपादे 'उच्यते' निरूप्यत इत्यर्थः । ननु भ-
क्तिरुच्यत इति कोऽर्थः । किं तत्स्वरूपं निरूप्यते ? उत तत्कर्तव्यता
विधीयते ? । नाद्योऽनुपलम्भात् । न द्वितीयः, स्नेहरूपायास्तस्याः पु-
रुषप्रयत्नायोग्यत्वेन तत्कर्तव्यताविधेरयोगादित्यत आह—भक्त्यर्थ-
मिति । माहात्म्यज्ञानपूर्वकस्नेहो भक्तिः, तदुत्पादनार्थमित्यर्थः । तथा
च भक्तिरुच्यत इत्यस्य भक्त्यैकदेशोपायज्ञानविषयमाहात्म्यमुच्यत
इति वा, भक्त्यैकदेशोत्पादनार्थं माहात्म्यमुच्यत इति वाऽर्थाश्रयणा-
न्नानुपपत्तिरिति भावः । ननु सर्वस्यापि माहात्म्यस्य प्रथमाध्याय
एवोक्तत्वात्कथमत्रोक्तिरिति । सत्यम्, उक्तिरित्यस्य क्वचिद्विवेचनं
क्वचित्समर्थनमित्यर्थाश्रयणात् । क्रियत इति शेषः । अत्राधिकरणे भ-
गवत्प्राप्तिसाधनभक्त्यर्थमर्थज्ञानात्मकस्य स्वाप्रप्रपञ्चस्य भगवदधीन-
त्वमहिमा वर्ण्यते । मरुमरीचिकाजलादिवत्प्रातीतिकत्वेनासत्त्वान्न स्व-
प्रविषयस्येश्वराधीनत्वमिति न तस्य महामहिमत्वमिति प्राप्ते सिद्धा-
न्तयत्तूत्रं पठित्वा अधिकरणतात्पर्यं तावदाह—सन्ध्य इति । स्वप्न
इत्यनेन जाग्रत्सुषुप्तिसन्धौ भवं सन्ध्यं स्वप्न इति सन्ध्यशब्दो व्या-
ख्यातः । अपीत्यनेनोत्तरसूत्राच्चशब्दस्यानुकर्षस्सूचितः । न केवलं
जाग्रदादिप्रतीतिः, किन्तु स्वप्नोऽपीत्यपिशब्दार्थः । 'तं' प्रस्तुतं पर-
मात्मानमेवेति । अनेन सूत्रे परमात्मन एवेति शेषो दर्शितः । प्रतीयत
इत्यनेन सृष्टिशब्दो व्याख्यातः । यथोक्तं तत्त्वप्रदीपे—तत्प्रत्यायनस्यैव
सृष्टित्वात् सृष्टिशब्दः प्रतीयत इति व्याख्यात इति । तथा च न केवलं
जाग्रदादिप्रतीतिः, किंतु स्वप्नोऽपि तं विना न प्रतीयते इति योजना ।
अनेन न केवलं जाग्रदादिप्रतीतिः, किन्तु 'सन्ध्ये' तद्विषये 'सृष्टिः'
प्रतीतिश्च स्वप्नोऽपीति यावत्, परमात्मनस्सकाशादेव भवति, 'न तं
विना' तदधीनैवेति परमसाध्यं दर्शितं भवति ॥

( २ ) ‘ न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्
रथयोगान् पथः सृजते ’ (बृ. ६-३-१०.) इत्यादिश्श्रुतेः ॥ १ ॥
( ३ ) सू—ॐ ॥ निर्मातारं चैके पुत्रादयश्च ॥ ॐ ॥ २ ॥
‘ य एषु सुप्तेषु जागर्ति कामंकामं पुरुषो निर्मिमाणः ’
( कठ. ५-८. ) इति च । ‘ एतस्माद्धयेव पुत्रो जायते ए
( २ ) ननु न स्वप्नस्य भगवदधीनत्वं युक्तं पश्चाददृष्टेरित्यतस्त-
त्परिहारत्वेन आवृत्त्या अन्वितस्य सन्ध्ये सृष्टिर्हीत्यंशस्य ‘ हि ’ यतः
सन्ध्ये प्रागसतां पदार्थानां परमात्मनः सृष्टिर्निरोधश्चाङ्गीक्रियते, अतो
नोक्तदोष इत्यर्थमभिप्रेत्यास्याप्रामाणिकत्वशङ्कापरिहारकतया प्रवृत्तं
सृष्टिमाह हीति सूत्रांशं व्याचष्टे—नेति ॥ श्रुतेरित्यनेन हिशब्दो वच-
नकर्तुः शब्दस्य हेतुत्वसूचकतया व्याख्यातः। तस्यावृत्तिरपि सूचिता।
आदिशब्देन ‘न तत्रानन्दा मुदः प्रमुदो भवन्ति। अथानन्दान्मुदः प्रमु-
दः सृजते। न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्ताः पु-
ष्करिण्यः स्रवन्त्यः सृजते स हि सर्वस्य कर्ता’ (बृ.६-३-१०.) इति सम-
ग्रवाक्यं निरोधवाक्यं च गृह्यते । बृहदारण्यकश्रुतिरियम् । ‘ तत्र ’
स्वप्नावस्थायां अन्तरिक्षे स्वर्गे मोक्षे वा ‘ रथा न भवन्ति ’ पूर्वं नास-
न् । रथैर्युज्यन्त इति रथयोगा अश्वादयश्च पुरा नासन् । तथा ‘पन्था-
नो’ मार्गाश्च न प्रागासन् । किन्तु तदैव स आत्मा तत्तत्कर्मानुसारेण
रथान् रथयोगान् पथश्च सृजते । तथा आनन्दमुत्प्रमुदः सुखविशेषा न
प्राक्स्थिताः, तांश्च सृजते। वेश्यायै दीयमानं वेशं तत्सम्बन्धिनी वेश्या-
ऽपि वेशेत्युच्यते। तस्या अन्ताः प्रवेश्या गृहाः ‘ अन्तस्स्थानं स्थलं
वासः ’ इति वचनात् । ‘ पुष्करिण्यः ’ सरांसि ‘ स्रवन्त्यो ’ नद्यस्ता-
श्च सृजते । न केवलं स्वाप्नादीनामेव कर्ता स परमात्मा, किन्तु सर्व-
स्य जगतोऽपि हीति श्रुत्यर्थः ॥
( ३ ) ननु कर्तुरभावान्न स्वप्नकालीनसृष्टियुक्ता । न हि जीवस्त-
त्कर्ता । सुप्तत्वात्तस्य । नापीश्वरः । तत्प्रमाणाभावात् । न च पक्षद्वये
ऽपि सृष्टिरुपपन्ना । तत्काल एवोत्पत्तिविनाशकर्तुरदर्शनादित्याशङ्कां प-
रिहरत्सूत्रमुपन्यस्य तत्सूचितश्रुतीरुदाहरति—निर्मातारमिति ॥ इति
चेत्यस्य इत्येके शाखिनः ईश्वरं निर्मातारं सन्ध्यकर्तारं आहुरिति सौ-
त्रपदेनान्वयः। चशब्दः आह हीत्युक्तप्रमाणसमुच्चयार्थः। यत इत्यर्थे वा।
अतो नेश्वरस्य स्वप्नकर्तृत्वे प्रमाणाभाव इति वाक्यशेषः। ‘यः’पुरुषः
पूर्णषड्गुणः पुरि शयो वा ‘एषु’ जीवेषु सुप्तेषु सत्सु, तदा ‘कामं’ स्वे

७४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
तस्माद्धावैतस्माद्भार्या यदैनं पुरुषमेष स्वप्नेनाभिह
न्ति' इति गौपवनश्रुतिश्च ॥ २ ॥
(४) केन साधनेन?
सू-ॐ॥ मायामात्रं तु कात्स्न्र्येनानभिव्यक्तस्वरूपत्वात् ॥ॐ॥ ३॥
च्छानुसारेण 'काम' काम्यं स्वाप्नरथादीन् निर्मिमाणो जागर्ति, तदेव
शुक्रं तद्ब्रह्म तदेवामृतमुच्यते (कठ. ५-८.) 'शुक्रं' शोकरहितं 'ब्रह्म'
पूर्ण 'अमृतं' नित्यमुक्तमित्युच्यते इति कठश्रुत्यर्थः । गौपवनश्रुतिश्चे
त्यनन्तरं ईश्वरं सन्ध्यकर्तारमाहेति शेषः । अनेन निर्मेयभूताः स्वाप्नपु
त्रादयो हरेरेव जायन्ते इति 'एके शाखिनो' गौपवनाः स्पष्टं 'एतस्मा
त्' इत्यादिना आहुरित्यध्याहारावृत्तिभ्यां पुत्रादयश्चेत्यस्यान्वय उ
क्तः । यद्वा 'एनं पुरुषं' जीवं 'एषः' परमात्मा 'स्वप्नेनाभिहन्ति' सं
योजयति तदा स्वप्नावस्थायां एतस्माद्धरेरेव पुत्रादयश्च स्वाप्ना जाय
न्ते । हि प्रसिद्धमिति श्रुत्यर्थः ॥
(४) उपादाननिमित्तयोरभावात्स्वाप्नसृष्टिरनुपपन्नेत्याक्षिपति-
केनेति ॥ सन्ध्ये सृष्टिरित्यनुवर्तते । तथा च साधनाभावान्न सन्ध्ये सृ
ष्टियुक्तेत्यर्थः । एतदाक्षेपपरिहाराय सूत्रमुपन्यस्य व्याचष्टे-मायेति ।
अनादीति । अनादिभूतं यन्मनस्त्रिगुणात्मकं तद्गतान् तदुपादानकान्
'संस्कारान्' पूर्वानुभूतवस्तुविषयकान् वासनाख्यसंस्कारान् उपा
दानीकृत्य 'स्वेच्छामात्रेण' निमित्तभूतया स्वेच्छयैव, न तु परापेक्ष
या मनसा 'प्रदर्शयति' सन्ध्यमीश्वरो जीवायेति योजना । स्वाप्नशि
रश्छेदादीनामसत्त्वपरिहाराय अनादिमनोग्रहणम् । तेषामपि इह ज
न्मनि जन्मान्तरे वा कदाचिदनुभवसम्भवेन तज्जन्यसंस्कारस्यापि अ
नादिमनसि स्थितिसम्भवादिति भावः । संस्कारानित्यनेन जैवप्रज्ञाप
रतया मायाशब्दार्थो व्याख्यातः ।
त्रिगुणात्मिकाऽथ ज्ञानं च विष्णुशक्तिस्तथैव च ।
मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः ॥
इति वचनात् । स्वेच्छयेति मायाशब्दस्यार्थान्तरोक्तिः ।
महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते ॥
इति वचनात् । अनेन मायाभ्यां निर्मितं मायामात्रमिति विग्रहस्सूचि
तः । मनसा प्रदर्शयतीत्यनेन यथा घटादीनां मृदादिभिः सृष्टिश्चक्षुरा
दिभिः प्रदर्शनं नात्र तथा, किन्तु मनसैव तदुभयमिति सूचितम् । प्रे

[ अधि - १. सू - ३. ] दीपिकासहितम्. ७४५
अनादिमनोगतान् संस्कारान् स्वेच्छामात्रेण प्रदर्श-
यति । नान्येन साधनेन । सम्यगनभिव्यक्तत्वात् ।
(५) ब्रह्माण्डे च—
मनोगतांस्तु संस्कारान् स्वेच्छया परमेश्वरः ।
प्रदर्शयति जीवाय स स्वप्न इति गीयते ॥
यदन्यथात्वं जाग्रत्त्वं सा भ्रान्तिस्तत्र तत्कृता ।
अनभिव्यक्तरूपत्वान्नान्यसाधनजं भवेत् ॥ इति ॥ ३ ॥
त्यनेन सन्ध्यस्येश्वरकर्तृकत्वेनाबाधितप्रमाविषयत्वात्सत्यत्वमेवेति सू-
चितम् । कुतोऽस्य वासनामयत्वं, बाह्यकारणकत्वं किं न स्यादित्या-
शङ्कोत्तरत्वेन प्रवृत्तं तुशब्दमवधारणार्थमभिप्रेत्य तस्य बुद्ध्या विविक्त-
मायाशब्दार्थेनान्वयं प्रदर्श्य तद्व्यावर्त्यं च दर्शयति—नेति । आन्तर-
वासनादन्येन 'साधनेन' मृदादिरूपबाह्यकारणेन न प्रदर्शयति न त-
दुपादानीकृत्य सन्ध्यं सृजतीत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन का-
र्त्स्न्यर्थेनेत्यंशं योजयति—सम्यगिति । जागरितार्थवत्स्वाप्नानां सम्यग-
भिव्यक्तिरहितस्वरूपत्वादित्यर्थः । अनेन सन्ध्यं 'मायामात्रं तु' मा-
याभ्यामेव निर्मितं, न बाह्यकारणकम् । कुतः 'कार्त्स्न्येन' सम्यगनभि-
व्यक्तस्वरूपत्वात् । यत एवमतो नोपादानाद्यभावेन सन्ध्यस्य सृष्ट्य-
भावः शङ्क्य इति सूत्रयोजना दर्शिता भवति ॥
(५) सूत्रार्थे स्मृतिसम्मतिं च दर्शयति—ब्रह्माण्डे चेति ॥ अव-
धारणार्थस्तुशब्दः स्वेच्छयेत्यनेन सम्बध्यते । तेन बाह्यसाधनव्यावृ-
त्तिः । 'संस्कारान्' तदुपादानकार्थान् तानुपादानीकृत्य स्वनिर्मितं स-
न्ध्यमिति शेषो वा । स इति । यत्प्रदर्शनं यत्प्रयोज्यज्ञानमर्थश्च स इ-
त्यर्थः । ननु स्वप्नोत्थितस्याविद्यमानानेव करितुरगादीनहमपश्यमि-
त्यनुभवात् कथमुत्पत्तिस्स्वाप्नस्योच्यत इत्यत आह—यदिति । 'तत्र'
स्वाप्नपदार्थेषु 'यज्जाग्रत्त्वं' अहं जाग्रत् जाग्रदिदमिति प्रतीतं यज्जाग्र-
त्त्वं जागरानुभूतपदार्थैरेकत्वं घटादीनां मृदाद्युपादानकत्वं जलाहरणा-
द्यर्थक्रियाकारित्वं चेत्यादि तस्य यतोऽन्यथात्वं बाध्यत्वं 'तदन्यथा-
त्वं' अन्यथा बाध्यमिति केचित् । अतस्तत्प्रतीतिरेव भ्रान्तिर्न स्वप्नप्र-
तीतिः । न च जाग्रत्त्वप्रतीतेः भ्रान्तित्वे मानाभाव इत्यतो विषयान्यथा-
त्वमेव तत्र मानम्, न पृथङ्मानं गवेषणीयमित्याह—सा च त-
९४