सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ४. सू - ७. ] दीपिकासहितम्. ६५१
( ६ ) संसारस्थितिहेतुत्वात्स्थितं कर्म विदो विदुः ।
तस्मादुद्धृतिहेतुत्वात् ज्ञानं गतिरिहोच्यते ॥
इति च वायुप्रोक्ते ॥ ७ ॥
ष्ठाभावात् न सप्तभ्योऽन्ये प्राणाः सन्तीत्याशङ्कां परिहरत्सूत्रं पठित्वा
व्याचष्टे—हस्तादय इति ॥ आदिशब्देन पादपायुगुह्यवाचो गृह्यन्ते ।
‘कर्मविषयत्वात्’ कर्मार्थत्वादिति अतःशब्दव्याख्यानम् । विषयेत्यनेन
सप्तम्यर्थः कर्मेत्यनेन स्थितशब्दार्थश्च दर्शितः । सहपाठ इत्यनेनैवंश-
ब्दार्थ उक्तः । हस्तादीनां सप्तभिरिति शेषः । अनेन सूत्रे तुशब्दो वैल-
क्षण्यार्थः । यत इति शेष इति सूचितम् ॥
( ६ ) ननु पूर्वसूत्रगतो गतिशब्दो ज्ञानार्थस्सन् तद्द्वारा तत्करण-
बोधकः । द्वितीयसूत्रगतश्च स्थितशब्दः कर्मवाचीत्येतत्कुत इत्यत आ-
ह—संसारेति ॥ पुरुषस्य संसारस्थितौ हेतुत्वादित्यर्थः । ‘तस्मात्’
संसारात् उद्धृतिरुत्थितिर्मोक्षः तत्कारणत्वादित्यर्थः । ननु मुक्तानां प-
रमा गतिर्हरिरेव । सतां गतिरित्यादौ गतिशब्दस्य गम्यार्थत्वात्कथं
ज्ञानार्थत्वमित्यत आह—इहेति । एतत्सूत्रे तदनुकूलप्रमाणे चेत्यर्थः ।
कर्म मानुषमिहाभिप्रेतं, ज्ञानं च तत्त्वविषयमिति तत्त्वप्रदीपोक्तेश्च क-
र्मशब्देन मानुषकर्तृकं प्रवृत्तिकर्मोच्यते । तस्यैव बन्धकत्वात् । ज्ञान-
शब्देन ब्रह्मज्ञानम् । न च निवृत्तिकर्मणि अब्रह्मज्ञाने च कथं स्थितग-
तिशब्दौ, उक्तनिमित्ताभावादिति वाच्यम् । यथा ‘तं प्रपदाभ्यां प्राप-
द्यत ब्रह्मेमं पुरुषं .... तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते’ (२-१-४.)
इत्यैतरेयश्रुत्युक्तस्य परमात्मकर्तृकतच्छब्दोक्तचतुर्मुखप्राप्तिकरनख-
रूपस्य प्रपदशब्दप्रवृत्तिनिमित्तस्य चतुर्मुखपादतलोपरिगतत्वेऽपि त-
त्सजातीये पुरुषान्तरसम्बन्धिन्यपि पादतलोपरिभागे प्रपदशब्दः प्रयु-
ज्यते । तथेहापि संसारस्थितिहेतुप्रवृत्तिसजातीये निवृत्तिकर्मण्यपि
स्थितशब्दः प्रयुज्यते । एवं संसारोद्धृतिहेतुब्रह्मज्ञानसजातीये घटादि-
ज्ञानेऽपि गतिशब्दप्रयोगोपपत्तिः । वायुप्रोक्ते ग्रन्थे स्थितगतिशब्दौ
कर्मज्ञानार्थावित्युक्तमिति वाक्यशेषः ॥ ४ ॥
॥ इति सप्तगत्यधिकरणम् ॥
—:*:—

६८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
५. अधिकरणम् ॥
( १ ) ‘दिवीव चक्षुराततम्’ (ऋ. १-२२-२०.) इति व्या-
प्तिः प्रतीयते । दूरश्रवणदर्शनादियुक्तिश्च ।
( २ ) ‘अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्रा-
५. अधिकरणम् ॥
( १ ) पूर्वाधिकरणे प्राणसङ्ख्याविषयश्रुतिविरोधः परिहृतः । अ-
त्राधिकरणे तत्परिमाणविषयश्रुतिविरोधः परिह्रियते । सन्देहबीजं श्रु-
तिविगानं दर्शयन् पूर्वपक्षं सूचयति—दिवीवेति ॥ इति श्रुताविति शे-
षः । ‘व्याप्तिः’ प्राणानामिति शेषः । चक्षुःपदेन इन्द्रियमात्रोपलक्षणं
वा समानन्यायविषयत्वेन वेति भावः । नन्वणुत्वश्रुत्या सत्प्रतिपक्षिते-
यं श्रुतिरिति शङ्कापरिहाराय दिवीवेत्यंश उदाहृतः । अनेनास्यां श्रुतौ
विष्णोर्व्याप्तत्वे दृष्टान्तत्वेन चक्षुःपदोपलक्षितेन्द्रियव्याप्तेरुक्तत्वात्
सा सिद्धेति प्राणानां व्याप्तौ युक्तिरुक्ता भवति । तथा च व्याप्तत्वश्रु-
तेर्युक्तियुक्तत्वान्न सत्प्रतिपक्षितत्वमिति भावः । व्याप्तिश्रुतेः प्राबल्यो-
पपादनायैवेन्द्रियव्याप्तौ युक्त्यन्तरमाह—दूरेति । चस्समुच्चये । तथा
च किञ्चिद्दूरस्थवस्तुदर्शनं तथा दूरस्थशब्दश्रवणं, आदिशब्दाद् दू-
रस्थवस्तुस्मरणं गृह्यते । एतद्रूपा युक्तिः प्राणानां व्याप्तिं साधयती-
त्यर्थः । इन्द्रियाणां प्राप्यकारित्वेन व्याप्तिं विना चक्षुश्श्रोत्रमनसासु-
क्तकार्याजनकत्वादिति भावः । यथा चक्षुः ‘दिवि’ आकाशे ‘आत-
तं’ व्याप्तमपि न दृश्यते, किन्तु विषयोपलब्धिलक्षणेन फलेनानुमीय-
ते, तथा परमेश्वरस्वरूपं सर्वगतमपि न दृश्यं, किन्त्वस्वतन्त्राणां पदा-
र्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इति श्रुतितात्पर्यार्थो ऋग्भाष्यटी-
कायामुक्तः । अनेनैव व्याप्ता एष प्राणास्तथा श्रुतेर्युक्तेश्चेति सयुक्तिक
पूर्वपक्षः सूचितो भवति ॥
( २ ) एवं व्याप्तिश्रुतिमुदाहृत्याणुत्वेऽपि श्रुतिमुदाहरति—अणुभि-
रिति ॥ चः समुच्चये । श्रुतिः प्राणानामणुत्वं वक्तीति शेषः । पुरुषः
‘अणुभिः’ ज्ञानेन्द्रियैः ‘पश्यति’ तत्तदिन्द्रिययोग्यं वस्तु जानाति ।
एवं ‘अणुभिः’ कर्मेन्द्रियैः तत्तद्योग्यं कार्यं ‘कृणोति’ करोतीत्यर्थः ।
भावबोधे तु अणुभिः शृणोतीतिपाठमभिप्रेत्य ज्ञानकर्मकरणत्वलिङ्गा-
दिति टीकावाक्येन ‘अणुभिः शृणोति’ इत्येतत्सर्वेन्द्रियोपलक्षणमि-

[ अधि - ६. सू - ९. ] दीपिकासहितम्. ६५३
णैर्हेतद्भवति' इति च कौण्डिन्यश्रुतिः ।
( ३ ) अतो वक्ति—
सू—ॐ ॥ अणवश्च ॥ ॐ ॥ ८ ॥
'तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य
पुरुषस्य प्रकाशो व्याततोऽणुर्हैवैष पुरुषो भवति'
इति शाण्डिल्यश्रुतिः ॥ ८ ॥
—::—
६. अधिकरणम् ॥
( १ ) 'नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता
त्युक्तं भवतीत्युक्तम् । के तेऽणव इत्यतोऽणून् दर्शयति—प्राणा वा अ
णव इति । ते चाणवः 'प्राणाः' इन्द्रियाणीत्यर्थः । कुतोऽणवः प्राणा
इत्यत आह—प्राणैरिति ॥ 'हि' यस्मात् 'एतत्' पश्यतिकृणोतीत्या
भ्यामुक्तं ज्ञानकर्माख्यकार्यं 'प्राणैः' इन्द्रियैरेव भवति तस्मादित्यर्थः॥
( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे चोऽवधार
णे, समुच्चये च । प्राणा इत्यस्ति । तथा च प्राणाः स्वरूपतोऽणव एव ।
न चोक्तश्रुतियुक्तिविरोधः । यतो न केवलमणवः, किन्तु प्रकाशतो
व्याप्ताश्चेति सूत्रार्थः । अतिसुदृढार्थश्रुतिसिद्धे व्याप्तत्वे सति कुतोऽ
णुत्वं प्राणानां, तेजसा व्याप्तिश्चेत्यत आह—तद्यथेति । 'तत्' वक्ष्य
माणं निदर्शनं यथेत्यर्थः । 'अणुः' स्वरूपेण 'चक्षसः' चक्षुषः 'प्र
काशः' तेजो 'व्याततः' व्याप्तं एवं 'पुरुषस्य' जीवस्य प्रकाशो व्या
प्तः । मन्वस्तु अणुत्वात् चक्षुषः प्रकाशव्याप्तिः । जीवस्य कुत इत्यतो
ऽस्याप्यणुत्वादित्याह—अणुरिति । 'हि' यस्मात् इति श्रुतिः चक्षुषःप
दोपलक्षितानां प्राणानामणुत्वं प्रकाशव्याप्तिं च वक्तीति शेषः । अतो
न सूत्रकृदुक्तस्याभावः शङ्कय इति वाक्यशेषः । यद्यप्यत्र श्रुतौ प्रका
शव्याप्तावेव चक्षुषः दृष्टान्तत्वं प्रतीयते, न तु जीवस्याणुत्वेऽपि । त
थाऽपि प्रकाशव्याप्तिसाधकाणुत्वस्य जीवेऽपि 'अणुर्ह्येषः' इत्यनेनो
क्तत्वात्तदंशेऽपि दृष्टान्तत्वमभिप्रेतमिति भावः ॥ ५ ॥
॥ इति अण्वधिकरणम् ॥
—:
:—
६. अधिकरणम् ॥
( १ ) अत्राधिकरणे मुख्यप्राणजन्मविषयश्रुतिविरोधः परिह्रियते ।

६५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
अथैनमाहुर्मध्यमः' इति मुख्यप्राणस्यानुत्पत्ति इभूयते ।
( २ ) यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा ।
तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ॥
इति च युक्तिर्वायुप्रोक्ते । 'आत्मत एष प्राणो जायते'
( प्र. ३-३० ) इति च ।
'एतेन' इत्यधिकरणे बाह्यमुख्यवायुरुत्पत्तिविचारः कृतः । इह तु आ-
ध्यात्मिकमुख्यवायुरुत्पत्तिविचार इति वा तत्र भूतप्रकरणत्वात् भूतमु-
ख्यवायोः सम्मुग्धो विचारः । अत्र पुनः केवलो मुख्यविषय इति वा
पूर्वस्मादस्य भेद इत्युक्तं तत्त्वप्रदीपे । मुख्यप्राण उत्पत्तिमान्न वेति
सन्देहबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च दर्शयति—नेति ॥ 'एषः'
मुख्यप्राणो 'नोदेति' नोत्पद्यते 'अस्तं' नाशं च '

[ अधि - ६. सू - १०. ] दीपिकासहितम्. ६५५
( ३ ) अत आह—
सू—ॐ ॥ श्रेष्ठश्च ॥ ॐ ॥ ९ ॥
‘ सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सू-
क्ष्मश्चाथो स्थूलश्च । प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽ-
थैनमाहुः सादिरनादिरिति ’ गौपवनश्रुतेः ॥ ९ ॥
( ४ ) सू—ॐ ॥ न वायुक्रिये पृथगुपदेशात् ॥ ॐ ॥ १० ॥
चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते ।
( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे चः समुच्च-
ये । तथा च यथेतेरे प्राणाः परमात्मन उत्पद्यन्ते तथा प्राणेषु ‘श्रेष्ठो’
मुख्यप्राणोऽपि परमात्मन उत्पद्यत इत्यर्थः । तत्त्वप्रदीपे तु उत्पद्यतेऽनु-
त्पद्यते चेति चशब्दार्थ उक्तः । ननु कुतो मुख्यप्राणस्योत्पत्तिः । तद-
ङ्गीकारे अनादित्वश्रुतिविरोधः इत्यत आह—सौक्ष्म्येणेति । सूक्ष्मरूपे-
णैत्यर्थः । हेत्यास्वादने, प्रमाणप्रसिद्धौ वा । वैशब्दोऽवधारणे । ‘एषः’
मुख्यप्राणः ‘ अवतिष्ठते ’ सर्वदा तिष्ठति । ‘ स्थूलत्वेन ’ स्थूलभावेन
तद्रूपेण ‘ उदेति ’ कदाचिदुत्पद्यते ‘ अथो ’ तस्मात् सूक्ष्मत्वेन सर्व-
दा स्थितत्वात् स्थूलरूपेण कदाचित् उदितत्वाच्चासौ प्राणः सूक्ष्मः
स्थूलश्चेत्युच्यते । परस्परसमुच्चये चौ । ननु स्थूलादिभावस्य स्वरूप-
त्वात्कथं तस्योत्पत्त्यादीत्यत उक्तम्—प्रकृतित इति । स्वभावत इत्य-
र्थः । ‘ अन्यतः ’ शरीरादितः । तथा च स्थौल्यादिकं न स्वरूपमिति
भावः । यद्यप्यस्येतरजीवसाधारणत्वान्न विशेषत्वम् । तथाऽपि शरी-
रादिष्वेवायं स्थूलो, न त्वितरजीवानामिव चैतन्ये । तदभिमानकृत-
विक्रियाविशेषषानिति भवति विशेषः । ‘ अथ ’ तस्मात्स्वरूपेणानुत्प-
त्तिमत्त्वात्स्थूलरूपेणोत्पत्तिमत्त्वाच्च ‘ एनं ’ मुख्यं सादिरनादिरित्याहु-
र्विद्वांस इत्यर्थः । श्रुतेरित्यस्य श्रेष्ठश्चोत्पद्यते अनुत्पद्यते चेति गम्यत
इति सूत्रेणान्वयः ॥
( ४ ) ननु प्राणानुत्पत्तिश्रुतिः सयुक्तिकत्वेन प्रबला, अतः कथमु-
त्पत्तिश्रुतिमात्रानुसारणान्यथा व्याख्यायते । अपि तु उत्पत्तिश्रुतिरेव
चेष्टाबाह्यवायुविषयतया व्याख्यातव्या । तयोरपि ‘ चेष्टायाम् ’ इति
वाक्ये प्राणशब्दवाच्यत्वोक्तेरेतयोरनुत्पत्तिवचनाभावेन उत्पत्त्यङ्गीका-
रे विरोधाभावात् इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—नेति ॥ चे-
ष्टा स्पन्दनम् । बाह्यो भूतवायुः । चौ परस्परसमुच्चये । ‘ गीयते ’ प्रयु

६५६ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ]
प्राणशब्दस्त्रिषु ह्येषु मुख्ये मुख्यः प्रकीर्तितः ।
इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न
स्यात् ।
(५) ‘स प्राणमसृजत ....खं वायुर्ज्योतिरापः....तपो म-
न्त्राः कर्म’ (प्र.६-४.) इति पृथगुपदेशात् । •
ज्यते एषु त्रिषु मध्ये ‘मुख्ये’ मुख्यप्राणे ‘मणिर्मुख्यं प्रधानञ्चेत्युभय-
स्य वचो भवेत्’ इत्यभिधानात् ‘मुख्यः’ मुख्यवृत्तिमान् प्रकीर्तितो
वृद्धैरित्यर्थः । इति व्यपदेशादित्यन्वयः । प्राणशब्दस्येति शेषः । तथा
च प्राणशब्दस्य ‘चेष्टायाम्’ इति वाक्ये वायुक्रिययोरपि ‘व्यपदेशा-
त्’ इत्युक्तेः ‘उत्पत्तिश्रुतिः’ ‘प्राणोजायत’ इत्युत्पत्तिवाक्यं ‘तयो-
रुत्पत्तिश्रुतिः स्यात्’ तयोरुत्पत्तिवादिनी स्यादिति नोपपद्यते इति
योजना । अनेन वायुक्रिये इति साध्यांशो व्याख्यातः ॥
(५) कुतो नेत्यतस्तत्र हेतुतया पृथगुपदेशादित्येतद्योजयति—
स इति ॥ अत्र ‘उपदेशात्’ ‘आत्मनः’ इति वाक्यापेक्षया अन्यस्मा-
त् ‘स प्राणमसृजत’ इति स्पष्टवाक्यादिति प्रथमं योज्यम् । अत्रा-
पि चेष्टादिकं वाच्यं किं न स्यादित्याशङ्कायां तन्न हेतुत्वेन पृथगुपदे-
शादिति समग्रं योजनीयम, तथा च इति षट्प्रश्नश्रुतौ स प्राणमित्युक्त्वा-
त् प्राणाद्वायुकर्मणोः पृथगभिधानादित्यन्वयः । तथा च ‘सः’ इति
श्रुतेरपिवायुक्रियोत्पत्तिपरत्वे पुनः वायुः कर्म चेति वायुचेष्टयोः पृथ-
गुप्त्यभिधानं पुनरुक्तं स्यात्, अतो न तस्यास्तद्विषयत्वमितिभावः ।
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियम् ।
मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥
इति मन्त्रस्यायमर्थः—‘सः’ प्रकृतः परमपुरुषो भगवान् पुरुष ‘प्राणं’
जीवकलाभिमानिनमसृजत् । ‘प्राणाच्छ्रद्धां’ प्राणं निमित्तीकृत्य जीव-
स्यास्तिक्यनिष्ठां भारतीमसृजत । ततश्च ‘खं’ आकाशं वायुः ‘ज्यो-
तिः’ तेज आपः पृथिवी इत्येतानि शरीरोपादानभूतानि पञ्चभूतान्यसृ-
जत् । ततः ‘इन्द्रियं’ जीवस्य प्रवृत्त्युपकरणानि चक्षुरादीन्द्रियाणि
प्रधानकरणं मनः तत्स्थितिकारणमन्नं चासृजत् । तस्मादन्नं निमि-
त्तीकृत्य शरीरहेतुभूतं ‘वीर्यं’ रेतोऽसृजत् । ततो जीवस्य ज्ञानादिहे-
तुतया सुखसाधनं तपोऽसृजत् । ततो ‘मन्त्राः’ जीवस्य साक्षात् ज्ञा-
नादिहेतवो ये ऋगाद्याः तानसृजत् । यच्च सुखादिनिमित्तं पुण्यापुण्य-

[ अधि - ७, सू - ११० ] दीपिकासहितम्. ६५७
( ६ ) भूतानि चेष्टामन्त्राश्च मुख्यप्राणादिदं जगत् ।
मुख्यप्राणः परस्माच्च न परः कारणान्वितः ॥
इति वायुप्रोक्ते ॥ १० ॥
::-
७. अधिकरणम् ॥
( १ ) ‘प्राणादिदमाविरासीत्प्राणो धत्ते प्राणे लयमभ्युपैति
लक्षणं कर्म तच्चासृजत् । ‘लोकाः’ गोलकाः इन्द्रियाश्रयभूतास्तान्,
लोकेषु सृष्टेषु सत्सु तं निमित्तीकृत्य देवदत्तादिनाम चासृजदिति ।
अत्र प्राणादिशब्दाः षोडशकलावाचिनः तत्तत्कलाभिमानिमुख्यप्रा-
णादिवाचिनश्चेति ।
विष्णोः प्राणस्ततश्श्रद्धा तस्या रुद्रो मनोभिधः ।
ततस्त्विन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥
इति षट्प्रश्नभाष्ये स्पष्टम् । पूर्वपूर्वोत्पन्नकलाः उत्तरोत्तरकलोत्पत्तौ
निमित्तभूता इत्येतदपि तत एव ज्ञातव्यम् ॥
( ६ ) न केवलमर्थापत्त्यैव प्राणादिशब्दा भिन्नार्थाः, किन्तु स्मृत्या
ऽपीत्यभिप्रेत्य श्रुत्यर्थनिर्णयात्मिकां स्मृतिं चाह—भूतानीति ॥ ‘खं
वायुः पृथिवी’ इत्यन्तस्यार्थो—भूतानीति । कर्मेत्यस्य—चेष्टेति । ए-
वमादीति शेषः । ‘स प्राणमसृजत’ इत्यस्य व्याख्यानं—मुख्यप्राणः
‘परस्मात्’ पराद्विष्णोरिति । आर्षस्समादादेशः । इति वायुप्रोक्ते इत्य-
स्य पृथगुपदेशादित्यनेनान्वयः । प्राणादिशब्दानां भिन्नार्थत्वोक्तेरिति
तदर्थः । अत्र ‘स प्राणमसृजत, मुख्यप्राणः परस्मात्’ इति श्रुतिस्मृति-
भ्यां पूर्वपक्ष्युक्तयुक्तिविरोधोऽपि परिहृतः । ननु श्रुतिस्मृतिभ्यां मुख्य-
प्राणस्य विष्णुजातत्वाभिधानेऽपि कथं युक्तिविरोधपरिहार इत्याश-
ङ्का ‘न परः कारणान्वितः’ कारणजन्य इति स्मृत्यंशेन परिहृता । ‘य-
त्प्राप्तिः’ इत्याद्युक्तमाहात्म्यवतोऽपि मुख्यप्राणस्य स्वापेक्षया कारणा-
जन्यत्वादिरूपातिमाहात्म्योपेतविष्णूत्पन्नत्वोपपत्तेः तथा च मुख्यप्रा-
णस्याखिलोत्पादकत्वं स्वनियम्यसर्वोत्पादकत्वे पर्यवस्यतीति न यु-
क्ति विरोध इति भावः ॥ ६ ॥
॥ इति श्रेष्ठाधिकरणम् ॥
—:
:—
७. अधिकरणम् ॥
( १ ) अत्राधिकरणे मुख्यप्राणस्वातन्त्र्यास्वातन्त्र्यश्रुतिविरोधः
८३

[६५८] ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]

न प्राणः किञ्चिदाश्रितः' इत्यग्निवेश्यश्रुतौ ।
(२) यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् ।
यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत् ॥
इति च युक्तिर्भारते ॥
(३) प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः ।
न परः किञ्चिदाश्रित्य वर्तते परमो यतः ॥
इति पैङ्गिश्रुतिः ।
परिह्रियते । मुख्यप्राणः स्वतन्त्रः परतन्त्रो वेति सन्देहबीजं श्रुतिवि-
रोधं दर्शयन् पूर्वपक्षं च सूचयति—प्राणादिति ॥ 'प्राणात्' मुख्या-
त् 'इदं' प्राणव्यतिरिक्तं जगत् 'आविरासीत्' अजायत । इदमित्ये-
तत् धत्ते एतीत्यत्रापि सम्बध्यते । श्रुतावित्यनन्तरं प्राणस्य स्वातन्त्र्यं
प्रतीयत इति शेषः । न किञ्चिदाश्रित इत्यनेनानन्याश्रयत्वरूपस्वात-
न्त्र्यहेतुरुक्तेरिति भावः । अनेन मुख्यप्राणः स्वतन्त्र एव, तथा श्रुतेरि-
ति सयुक्तिकपूर्वपक्षः सूचितः ॥
(२) स्वातन्त्र्यश्रुतेरितरश्रुत्या सत्प्रतिपक्षित्वशङ्कावारणाय यु-
क्तिसाहित्येन प्राबल्यं स्मृत्या दर्शयति—यदिति ॥ 'अस्य' जगतः
'सः' प्राणः अन्यं कथमुपाश्रयेदित्यनन्तरं तस्मात्सकलजगच्चेष्टकत्वा-
दत एवानन्याश्रयत्वात्प्राणः स्वातन्त्र्येण सर्वाश्रय इति वाक्यशेषः ।
अत एवाखिलजगच्चेष्टकत्वेन सिद्धानन्याश्रयत्वरूपयुक्तियुक्ततयेति टी-
कार्थो द्रष्टव्यः । अस्य दृष्टान्तत्वेनोपादानाच्चैतत्सिद्धमित्याह-यथेति ।
'एकाश्रयो' मुख्याश्रयः, भवेदिति प्रार्थनायां लिङ् । तथा चात्र रा-
ज्ञः स्वातन्त्र्येण सर्वाश्रयत्वे मुख्यप्राणस्य दृष्टान्तीकरणात् सिद्ध-
स्यैव दृष्टान्तत्वादिति । अनेन लिङ्गेन प्राणस्य स्वातन्त्र्येण सर्वाश्रयत्वं
सिद्धमिति भावः । यथा राजा सर्वस्यैकाश्रयः तथा प्राणः सर्वस्यैका-
श्रयः इति भाष्ययोजना तु शेषकरणटीकाविरुद्धा । युक्तिश्चेति सम्ब-
न्धः । न केवलं श्रुतिरिति चार्थः । भारते उक्ताऽस्तीति शेषः ॥
(३) पारतन्त्र्ये श्रुतिमुदाहरति—प्राणस्येति ॥ 'एतत्' सर्वं
जगत्प्राणस्य मुख्यस्य वशेऽस्तीत्यर्थः । 'परः' परमात्मा 'न परः कि-
ञ्चिदाश्रितः' इत्यनेन तस्य स्वातन्त्र्यमाह । श्रुतिः' प्राणस्य पारत-
न्त्र्यं वक्तीति शेषः ।

[ अधि - ७. सू - ११०. ] दीपिकासहितम्. ६५९
( ४ ) अत आह—
सू—ॐ ॥ चक्षुरादिवत्तु तत्सह शिष्ट्यादिभ्यः ॥ ॐ ॥ ११ ॥
चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव । 'सर्वे
ह्येवैतत्परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च । स
ह्येक एवैतानभ्यत्युन्नयति वशीकरोति' इति गौपवन
श्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ॥
( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अपिशब्दो
यथेतरे प्राणास्तथा मुख्यप्रणोऽपीति समुच्चये । मुख्यप्राण इत्यनेन
सूत्रे श्रेष्ठपदानुवृत्तिः सूचिता । परमात्मवश इत्यनेन दृष्टान्तोक्त्या
लब्धः साध्यभागो दर्शितः । एवेत्यनेन तुशब्दोऽवधारणेऽपीति सूचि-
तम् । परमात्मवश इत्यावर्तते । तद्वशत्वेन शासनादित्यप्यावर्तते ।
तथा चेत्थं भाष्ययोजना-मुख्यप्राणोऽपि 'परमात्मवशः' तदधीन
एव, न तु स्वतन्त्रः । कुतः ? 'तद्वशत्त्वेन शासनात्' 'प्राणः परवशे
स्थितः' इति तस्य तद्वशत्वेन श्रुत्युक्तत्वात् । न चोत्पत्ताविव पारतं-
त्र्येऽपि का चन व्यवस्था, अपि तु चक्षुरादिवदेव सर्वात्मना । कुतः?
'सर्वं ह्येतत्परमेऽवतिष्ठते' इति श्रुतौ चक्षुरादिभिः सह तद्वशत्वेन
परमात्माधीनत्वेन प्रकारेण 'शासनात्' प्रतिपादनादिति । अनेन
तस्यां तैस्सह तेन प्रकारेण तस्य शंसनादिति तच्छब्दो बहुधा व्या-
ख्यातः । तद्वशत्वेनैवेत्यनेन तुशब्दार्थावधारणस्य तच्छब्दितप्रकारेणा-
प्यन्वयः सूचितः । सूत्रे शिष्टीति शासुधातोरुपादानाद्भाष्येऽपि
शासनादिति स एव गृहीतः । श्रुत्युक्तत्वादिति टीकानुसाराच्छंसना-
दिति पाठः स्वरसः । तथात्वे धातोरर्थान्तरोक्तिः । अनेन-श्रेष्ठोऽपि
परवश एव, कुतः ? 'तच्छिष्टेः' 'प्राणः परवशे स्थितः' इति तथा
श्रुतेः । ननु प्राणस्योत्पत्तौ प्रकृतितः सूक्ष्मो देहतः स्थूल इति यथा
व्यवस्था, एवं पारतन्त्र्येऽपि न स्वभावोपाधिकृतव्यवस्था, अपि तु
चक्षुरादिवत्सर्वात्मनैव । कुतः? 'तत्सहशिष्ट्यादिभ्यः' तस्यां 'सर्वे
म' इति श्रुतौ तस्य श्रेष्ठस्य तैश्चक्षुर्घाणादिभिस्सह तेन परवशत्वे-
नैव प्रकारेण शिष्टेरुक्तत्वादिति सूत्रार्थ उक्तो भवति । श्रुत्यर्थस्तु-
सर्वमेतज्जगत् 'परमे' परमात्मन्यवतिष्ठते 'हि' प्रसिद्धम् । किं तत्स
धर्मित्यतो विवृणोति—'प्राणो' मुख्यप्राणः 'प्राणाः' इतरेन्द्रियाणि
'प्राणिनो' जीवा इति । चशब्दाः मिथः समुच्चये । अत्र हेतुमाह—स

६६० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
( ५ ) सर्वकर्ताऽपि सन्प्राणः परमाधारतःस्थितः ।
कथमेवान्यथा स स्याद्यतो नैवेश्वरद्वयम् ॥
( ६ ) अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ।
अतो मध्यममाहुस्तस्य वेदेषु वेदिनः ॥
( ७ ) अनन्येश्वरता प्राणे तदन्येश्वरवर्जना ।
हीति । 'हि' यस्मात् 'सः' परमात्मा 'एक एव' स्वतन्त्र एव 'एता
न्' प्राणादीन् 'नयति' जन्मादिकं प्रापयति 'उन्नयति' ऊर्ध्वं नय
ति मोचयतीति यावत् । 'वशीकरोति' स्ववशवर्तिनः करोतीति ॥
( ५ ) ननु प्राणस्वातन्त्र्येऽखिलचेष्टकत्वयुक्तियुक्तायाः 'न प्राणः
किञ्चिदाश्रितः' इति श्रुतेः सद्भावात् 'प्राणः परवशे स्थितः' 'सर्वं
ह्येतत्' इति श्रुतिमात्रेण न पारतन्त्र्यनिर्णय इत्यत आह—सर्वेति ॥
अपिर्यद्यपीत्याद्यर्थे, विशेषणसमुच्चये वा । 'परमाधारतः' परमात्मा
धारकत्वेन स्थितः । तथा च स्वभिन्नसर्वचेष्टकत्वाभ्युपगमान्न युक्ति
विरोध इति भावः । तर्हि 'प्राणादिदमाविरासीत्प्राणो धत्ते' इति स
र्वेश्वरत्वापरपर्यायसर्वकर्तृत्वश्रुत्या 'न प्राणः किञ्चिदाश्रितः' इत्यन
न्याश्रयत्वश्रुत्या च विरोध इत्यत आह—कथमिति । 'अन्यथा' पर
मात्माधारत्वं विना 'सः' मुख्यप्राणः कथमेव स्वतन्त्रस्स्यात्, न क
थंचित् । कुतः? यतो मुख्यप्राणस्वातन्त्र्याङ्गीकारे 'सर्वं ह्येतत्परमेऽव
तिष्ठते' इति श्रुत्युक्तभगवत्स्वातन्त्र्यस्य हातुमशक्यत्वेन ईश्वरद्वय
मङ्गीकार्यम्, तच्चानुपपन्नम्, अन्योन्यानुरोधाननुरोधयोः सर्वैश्वर्यहा
नेः, अतः। तथा च ईश्वरद्वयानुपपत्तिरूपयुक्तिविरोधात् सर्वेश्वरत्वा
नन्येश्वरत्वश्रुतिर्बाध्येत इति भावः ॥
( ६ ) ननु श्रुतेर्बाधायोगात् अर्थान्तरं वक्तव्यम्, स क इत्यत आ
ह—अवान्तरेति ॥ मध्यमेश्वरत्वरूपवाच्येन निमित्तेनेत्यर्थः । 'तस्य'
मुख्यप्राणस्य 'ईश्वरवचः' ईश्वरत्वबोधकं 'प्राणो धत्ते' इत्यादिसर्वे
कर्तृत्ववचनम् । ननु मुख्येश्वरत्वमेव तदर्थः किं न स्यादित्यत आह-
अत इति । अवान्तरेश्वरत्वादेव 'तस्य' मुख्यस्य 'वेदिनां' ज्ञानिनः
वृद्धाः 'वेदेषु' 'मध्यमः प्राणो' 'मध्ये स्थाता' इत्यादिरूपेषु 'म
ध्यमतां' प्राहुरित्यर्थः । अन्यथा तन्न स्यादिति भावः ॥
( ७ ) एवमीश्वरश्रुतेर्गतिमुक्त्वा अनन्येश्वरत्वश्रुतेरपि गतिमाह-

[ अधि - ७. सू - १२. ] दीपिकासाहितम्. ६६१
यतो विशेषवाक्येन हीयते समतावचः ॥
(८) 'नान्योऽतोऽस्ति द्रष्टा' (बृ.५-७-२३.) 'नान्यदतो
ऽस्ति द्रष्टृ' (बृ.५-८-११.) इत्यादिवचनयुक्तयश्चा
दिशब्दोक्ताः ॥ ११ ॥
(९) सू—ॐ ॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ॐ॥१२॥
इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वाच्च त
अनन्येति ॥ 'तदन्येश्वरवर्जना' भगवद्व्यतिरिक्तेश्वरराहित्यमेव अ
नन्येश्वरता । तथा च 'न प्राणः किञ्चिदाश्रितः' इत्यनन्याश्रयताऽपर
पर्यायानन्येश्वरताबोधकवाक्यस्य प्राणो भगवद्व्यतिरिक्तं किञ्चिन्ना
श्रित इत्यर्थ इति भावः । तदन्येश्वरवर्जनादिति पञ्चम्यन्तपाठेऽप्यय
मेवार्थः । न केवलं यतो नैवेत्युक्तेश्वरद्वयानुपपत्तिरूपयुक्तिविरोधा
त् 'प्राणादिदमाविरासीत्' इति श्रुतेः अन्यार्थता, किन्तु विशेषश्रुते
रपीत्याह—यत इति । 'विशेषवाक्येन' 'प्राणस्यैतद्वशे सर्वम्' इति
विशेषवाक्येन च 'समतावचः' समतया साधारण्येन युक्तं वचः, स्वा
र्थे त्यक्त्वा, साधारणवचनं 'प्राणात्' इत्येतत् 'हीयते' अवान्तरेश्वरत्वा
द्यर्थान्तरपरतया नीयत इत्यर्थः । इति यतोऽत उक्त एवार्थ इति शेषः ॥
(८) इदानीं सहशासनरूपवाक्यापेक्षया भिन्नं सौत्रादिशब्दगृ
हीतमुदाहरति—नेति ॥ अत्र वाक्यद्वये 'अतः' भगवतस्सकाशाद
न्यः स्वातन्त्र्येण द्रष्टा नास्तीति भगवदितरस्य स्वातन्त्र्येण द्रष्टृत्वा
भाव उच्यते इत्यस्य प्रकृतोपयोगिता । वचनेति वचनानि च युक्त
यश्च वचनयुक्तयः, वचनोक्ता युक्तय इति वा । 'यतः' इत्यनेन ईश्व
रद्वयायोगादिति युक्तेः, 'अतो मध्यमतामाहुः' इत्यनेन मध्यमत्वादि
युक्तेः, द्वितीयेन 'यतः' इत्यनेन सामान्यवाक्यस्य विशेषवाक्यबलेन
नेयत्वादिति युक्तेः, 'नान्यः' इत्यादिनाऽन्यस्य स्वातन्त्र्येण द्रष्टृत्वादे
रभावादिति युक्तेश्च उक्तत्वादिति भावः ॥
(९) ननु यदि चक्षुरादिवदेवेश्वराधीनत्वं मुख्यप्राणस्य, तर्हि
तद्वदेव तस्यावान्तरेश्वरत्वाद्यसम्भवेन 'न प्राणः किञ्चिदाश्रितः'
इति स्वातन्त्र्यश्रुतिर्व्यर्था स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्या
चष्टे—अकरणत्वादिति ॥ करणत्वादित्यनेन चशब्दश्चक्षुरादीनां कर
णत्वसमुच्चयार्थ इति सूचितम् । 'मुख्यस्य' प्राणस्येत्यनेन श्रेष्ठ इत्य
स्य विपरिणामेनानुवृत्तिः सूचिता । 'तस्य' मुख्यस्य 'अन्येभ्यः' इन्द्रि

६६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
स्यान्येभ्य उत्तमत्वं युज्यते ।
(१०) माण्डव्यश्रुतिश्च 'तानि ह वा एतानि सर्वाणि करणा
न्यथ प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इ
त्याचक्षते' इति ॥ १२ ॥
—❖—
८. अधिकरणम् ॥
(१) 'सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः
येभ्य 'उत्तमत्वे' अतिशयः । यद्यपि चक्षुरादीनां मुख्यस्य चेश्वरवश
त्वसाम्यात्तेषां कर्तृप्रयोज्यत्वरूपं करणत्वं मुख्यप्राणस्य तदप्रयोज्य
त्त्वरूपमकरणत्वमित्येतद्वैलक्षण्यं नोपपद्यते । तथाऽपि सुप्त्यादौ
व्यापाराभावाभावरूपयुक्त्या 'तानि ह वा' इति श्रुत्या चैतद्वैलक्षण्यं
सिद्ध्यतीति नानुषपत्तिः । युज्यत इत्यनन्तरमतो न वैयर्थ्याख्योदोष
इति वाक्यशेषः । हेतुसिद्धिपरिहाराय—तथाहीत्युक्तम् ॥
(१०) तत्सूचितश्रुतिमुदाहर्तुं प्रतिजानीते—माण्डव्येति ॥ माण्ड
व्यानां श्रुतिरत्रार्थे प्रमाणत्वेन भवतीत्यर्थः । न केवलं सूत्रोक्तिरिति
चार्थः । तां श्रुतिं पठति—तानीति । 'तान्येतानि' चक्षुरादीनि । स
ङ्कोचशङ्कावारणाय-सर्वाणीति । 'करणानि' कर्तृप्रयोज्यानि इति यतः
'अथ' तस्मान्मुख्यप्राण एक एव 'अकरणः' कर्त्रप्रयोज्यः 'तस्मान्मु
ख्यः' तस्मान्मुख्यत्वादेनं प्राणं मुख्य इत्याचक्षते विद्वांस इत्यर्थः ।
इति माण्डव्यश्रुतिरित्यन्वयः । अनेन-'हि' यस्मात् 'तथा' अकरणत्वा
दिप्रकारेण श्रुतिरेनं मुख्यं चक्षुरादींश्च 'दर्शयति' प्रतिपादयति त
स्मान्मुख्यस्याकरणत्वाच्चक्षुरादीनां च करणत्वादस्माद्वैलक्षण्यात्त
स्येतरेभ्योऽतिशयो युज्यते । यत एवमतो न श्रुतिवैयर्थ्याख्यो दोष
इति सूत्रार्थ उक्तो भवति ॥ ७ ॥
॥ इति चक्षुराद्यधिकरणम् ॥
—*—
८. अधिकरणम् ॥
(१) अत्र प्राणापानादेर्मुख्यप्राणस्वरूपत्वतद्दासत्वविषये श्रुति
विरोधः परिह्रियते । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं च सूच
यति सर्व इति ॥ वैशब्दः प्रसिद्धौ । एत इत्येतद्विवृणोति—प्राण इ

[ अधि - ८. सू - १३. ] दीपिका सहितम्. ६६३
समान इत्यथ प्राणो वाव सम्राट् ' इति कौण्डिन्यश्रुतिः ।
( २ ) प्राणापानादयस्सर्वे मुख्यदासा यतोऽनिशम् ।
अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते ॥
इति युक्तिर्वायुप्रोक्ते ।
( ३ ) मुख्यस्यैव स्वरूपाणि प्राणाद्याः पञ्च वायवः ।
स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम् ॥
इति गौपवनश्रुतिः ॥
( ४ ) अतो वक्ति—
ति । इत्येत इत्यन्वयः । ' अथ ' तस्मात् ' प्राणो ' मुख्यः ' सम्राट् ' स
र्वेश्वरत्वेन प्रकाशमानः । श्रुतिरिति । दासत्वं वक्तीति शेषः ॥
( २ ) न चास्याः स्वरूपत्वश्रुतिविरोधो युक्तियुक्तत्वादित्याशयेन
तां युक्तिं स्मृत्या दर्शयति—प्राणेति ॥ यतः सर्वे प्राणापानादयोऽनि
शं मुख्यस्य प्राणस्य दासाः, अत एव तदाज्ञया नित्यं स्वानि कर्माणि
कुर्वन्तीत्यर्थः । प्राणादीनां कर्माणि
यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । ( )
ऊर्ध्वं प्राण उन्नयत्यपानं प्रत्यगस्यति ( कठ. ५-३० ) ॥
इत्यादि श्रुतिषु,
प्राणः प्रवृत्तिहेतुः स्यादपानः तन्निवर्तने ।
वनकर्मा तथा व्यानः उदानो योगकर्मकृत् ॥
देहेन्द्रियमनोनेता समानोऽन्तस्स्थितिप्रदः ॥
इतिबृहद्भाष्योदाहृतस्मृतौ चोक्तानि । इतीति । एवं वायुप्रोक्ताख्यग्र
न्थवचने उक्तमित्यर्थः । अनेन प्राणादयो मुख्यदासास्तदाज्ञया कर्म
कारित्वादिति सप्रतिज्ञा युक्तिरुक्ता भवति ॥
( ३ ) एवं दासत्वे श्रुतिमभिप्राय प्राणादीनां मुख्यस्वरूपत्वेऽपि श्रु
तिमुदाहरति—मुख्यस्यैवेति ॥ ' स एव ' मुख्य एव । अत्र मुख्यस्य
स्वरूपाण्येव, स एवेतिद्विरवधारणेन स्वरूपत्वे तात्पर्यमुक्तम् । तेन
स्वरूपत्वे श्रुतेरपि प्राबल्यं सिद्ध्यति । अनेन श्रुतिद्वयस्यापि समानब
लत्वेन विरुद्धत्वाच्चानिर्णायकत्वादप्रामाण्यमिति पूर्वपक्षः सूचितो
भवति ॥
( ४ ) अथ सिद्धान्तयत्सूत्रमवतार्य, तस्य प्राणादयः पञ्च न केव

६६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
सू—ॐ ॥ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ ॐ ॥ १३ ॥
अथ पञ्चवृत्त्यैतत्प्रवर्तते। प्राणो वाव पञ्चवृत्तिः। प्रा
णोऽपानो व्यान उदानः समान इति। तेभ्यो वा एते
भ्यः पञ्च दासाः प्रजायन्ते। प्राणाद्वाव प्राणोऽपानादपा
नो व्यानाद्व्यान उदानादुदानः समानादेव समानः।
(५) यथा ह वै मनः पञ्चधा व्यपदिश्यते मनो बुद्धिरहङ्कार
श्चित्तं चेतनेति। तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजा
लं मुख्यदासा एव, किन्तु तद्वृत्तयोऽपि मुख्यप्राणस्वरूपभूताश्च ।
कुत एतत् ? यस्मात् 'अथ' इति श्रुतौ श्रेष्ठो मनोवत् पञ्चवृत्तिर्व्यप
दिश्यते तस्मात् । यद्वा—श्रेष्ठः 'पञ्चवृत्तिश्च' पञ्चदासवान् पञ्चवृत्तिमां
श्च, कुतः ? यतो 'मनोवत्' मनोदृष्टान्तेन पञ्चवृत्तिर्व्यपदिश्यते, अत
इत्यध्याहारविपरिणामानुषङ्गपदभेदैस्तं विना वा स्पष्टार्थत्वात्तदुपात्त
श्रुतिमेवोदाहरति—अत इति ॥ अथेतिश्रुतौ प्रमेयान्तरारम्भेऽथशब्दः।
'पञ्चवृत्त्या' पञ्चवृत्तिना 'एतत्' शरीरम् । कः पञ्चवृत्तिरित्याह—प्राण
इति । वावेति निपातसमुदायः । प्रसिद्धौ । पञ्च वृत्तयः स्वरूपाणि
यस्य स तथोक्तः । कास्ताः पञ्च वृत्तय इत्यत आह—प्राण इत्यादि ।
इति पञ्चवृत्तिरित्यन्वयः । अत्र प्राणादिशब्दाः देवतापराः, न तु जडप
राः 'तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते' इत्युत्तरवाक्यविरोधा
त् । एवं स्वरूपाण्यभिधाय दासानाह—तेभ्य इति । श्रुतिप्रसिद्धेभ्यः
शरीरगतेभ्यश्चेत्यर्थः । पञ्चानां दासत्वोपपादनाय प्राणादिजन्यत्वमु
क्तम् । कस्मात् कस्य जन्मेत्यतस्तद्विवृणोति—प्राणादिति ॥
(५) एवं दार्ष्टान्तिकार्थक श्रुत्यंशमुदाहृत्येदानीं मनोवदिति दृष्टा
न्तं विवृण्वन् श्रुत्यंशमुदाहरति—यथेति । हेत्यास्वादने । प्रसिद्धौ वै
शब्दः । सङ्कल्पविकल्पात्मकं मनः । करिष्ये यक्ष्ये इत्यादिक्रियाहेतुभू
तः कामः सङ्कल्पः । स एव नानार्थविषयो विकल्पः । निश्चयरूपा बु
द्धिः । अस्वरूपे स्वातन्त्र्याद्यस्वधर्मे स्वरूपत्वमतिः स्वधर्मत्वबुद्धिः
अहङ्कारोऽभिमानः इति तत्त्वप्रदीपोक्तेः । स्मरणहेतुश्चित्तम् । चेतसः
स्मरणस्य व्याप्तिर्बहुविषयकत्वं तदनुकूलशक्तिश्चेतना ।
चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम् ।
बहुस्मरणशक्तिस्तु चेतनेत्यभिधीयते ॥

[ अधि - ९. सू - १४. ] दीपिकासहितम्. ६६५


धन्ते । मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चि
त्ताच्चित्तं चेतनाया एव चेतनैवमिति' इति ॥ १३ ॥
——— ❋ ———
९. अधिकरणम् ॥
( १ ) 'प्राण एवाधस्तात्प्राण उपरिष्टात्प्राणो मध्यतः प्राण
इति वचनात् । अत्र मनस इति शेषः । इति पञ्चधेत्यन्वयः । उपादानो
पादेयैक्यविवक्षया सङ्कल्पविकल्परूपं मन इत्याद्युक्तिः । अत एवे
तरेयभाष्ये सङ्कल्पविकल्पयोर्हृदयमनोरूपत्वमुक्तम् । अत्रापि मनआ
दिशब्दैर्देवता उच्यन्ते । उत्तरवाक्ये दासत्वोक्तेः टीकायां जडलक्ष
णोक्तावपि तदभिमानितया चेतनानामपि लक्षितत्वान्न तद्विरोधः ।
एवं मनस्स्वरूपाण्युक्त्वा तस्य पञ्च वृत्तीराह—तेभ्य इति । तदुपपादय
ति—मनस इति । एवमित्यस्य एवं प्राणो वाव पञ्चवृत्तिरिति पूर्वेणान्व
यः । श्रुतिगतस्य द्वितीयोतिकरणस्य इति तेभ्यः पञ्च दासाः प्रजाय
न्त इति पूर्वेणान्वयः । भाष्यकारीयस्यान्तिमस्येतिशब्दस्य श्रुतिस
माप्तियोतकस्य इति व्यपदिश्यत इति सौत्रपदेनान्वयः । अतएव टी
कायां तदुपात्तश्रुतिमित्युक्तम् । श्रुतिनामाग्रहणात्कौण्डिन्यश्रुतिरि
यमिति निश्चेतुं न शक्या । पञ्चकविवेकस्तु—
प्राणाद्यास्त्रिविधाः पञ्च प्रधानो वायुरेव च ।
मुख्यपञ्चकरूपस्सन् गरुडो मध्यमपञ्चकः ॥
अवमाः पञ्चकास्त्वन्ये प्राणाद्यास्तस्य सूनवः ।
इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः ॥
प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ ।
रुद्रेन्द्रौ तत्परश्श्रेष्ठो वायुर्व्यान उदाहृतः ॥
इति छान्दोग्यभाष्यादवगन्तव्यः । एतेन सयुक्तिकश्रुतिविरोधः परि
हृतः । स्वरूपत्वदासत्ववचनयोर्भिन्नव्यक्तिविषयत्वात् ॥ ८ ॥
॥ इति पञ्चवृत्त्यधिकरणम् ॥
——— ❋ ———
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे मुख्यप्राणपरिमाणविषयश्रुतिविरोधः परि
हियते । यद्यपि जीवाणुत्वोक्त्यैव प्राणस्याप्यणुत्वं सिद्धमिति न पृथ
ग्विचार्यत्वम् । तथाऽपि तत्र चैतन्यविषये विचारः । अत्र तु रूपविषय
८४

३३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
स्सर्वतः प्राण एवेदं सर्वम्' इति प्राणस्य व्याप्तिः प्र
तीयते ।
( २ ) यतस्सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु ।
अतो धृतं जगत्सर्वमन्यथा केन धार्यते ॥
इति च युक्तिर्वायुप्रोक्ते ।
इति न गतार्थता । यद्यपि 'अणवश्च' इत्यनेनेदं गतार्थं, मुख्यस्यापि
प्राणत्वात् । तथाऽप्यस्य बहिर्देहादपि व्याप्तेः सत्त्वात्, कर्तृप्रयोज्यत्वे
न इन्द्रियाद्विलक्षणत्वाच्च 'अणुश्च' इति पृथगणुत्वसमर्थनं युक्तमिति
ध्येयम् । मुख्यप्राणो व्याप्तोऽणुर्वेति सन्देहबीजं श्रुतिविगानं दर्शयन्
पूर्वपक्षं च सूचयति - प्राण एवेति ॥ अत्र प्राणशब्देन मुख्यप्राण उ
च्यते । तस्याभ्यासस्तात्पर्यार्थोऽन्यत्वशङ्कानिरासार्थश्च । 'सर्वतः'
सर्वदिक्षु अस्तीति शेषः । 'सर्वं' सर्वसत्ताप्रदः । एवशब्दस्य द्विर्ग्रह
णं सर्वत्रानुषङ्गार्थम् । प्राधान्याभिप्रायेणैवकारः । इतीत्यनन्तरं श्रुता
विति शेषः ॥
( २ ) नन्वणुत्वेऽपि श्रुतिरस्तीति तद्विरोधोऽस्या इत्यत आह—
यत इति ॥ तुशब्दोऽवधारणे । अतस्त्विति सम्बध्यते । तेन पूर्वार्धोक्त
स्य व्यापकतासिद्धिः । एवकारोऽन्यप्राधान्यव्यवच्छेदकः । सङ्कोच
निरासाय सर्वशब्दः । 'अन्यथा' सर्वत्र व्याप्यभावे, असौ न धार
येदिति शेषः । ततश्च सर्वं जगत्केन धार्यते, न केनापीत्यर्थः । इति वा
युप्रोक्ते ग्रन्थे उक्ता युक्तिश्चात्रार्थे मानमित्यर्थः । न केवलं श्रुतिरिरिति
वार्थः । वायुप्रोक्ते चेति वा चान्वयः । तथात्वे न केवलं वायुप्रोक्ते जग
द्धारकत्वयुक्तिरुक्ता, किन्तु 'सप्तस्कन्धगतो लोकान्यो विभर्ति महा
बलः' इति हरिवंशेऽपीति समुच्चयार्थश्चकारः । तथा च व्याप्तिश्रुतेर्यु
क्तियुक्तत्वेन प्राबल्यात् नाणुत्वश्रुतिविरोधोऽस्या इति भावः । एको
नपञ्चाशन्मरुतां दितिगर्भे प्रविष्टानां गणशः सप्तधेन्द्रेण विभक्तानां पु
नश्चैकैकशः सप्तधा कृतानां सप्तस्कन्धसंज्ञा समजनि । तान् गतो यो
महाबलो लोकान् बिभर्तीति हरिवंशवचनार्थः । 'सप्तस्कन्धा इमे स
प्त चरन्तु मम पुत्रकाः' इति दिति वचनात्, 'सप्तगणा वै मरुतः' (तै.
सं.२-२-५०) इति श्रुतेः, सप्त सप्तका हि ते इति ऋग्भाष्यटीकोक्तेश्च ।
केचित्तु स्वस्कन्धेन गतः प्राप्तः सप्त लोकान् बिभर्तीत्यर्थमाहुः । तन्न,
'सप्तस्कन्धगतो लोकान् त्रीन् दधार चचार ह' इति पाठान्तरविरो

[अधि - ९. सू - १४.] दीपिकासहितम्. ६६७
( ३ ) 'अणुर्नैतत्सृज्यते अणुर्नैतद्धार्यते अणौ लयमभ्युपैति
प्राणो वा अणुः प्राणैर्हीतद्भवति' इति च सौत्राय
णश्रुतिः ॥
( ४ ) अत आह -
सू - ॐ ॥ अणुश्च ॥ ॐ ॥ १४ ॥
'स वा एष प्राणोऽणुर्महान् नामान्तर्वा अणुर्बहिर्महान् । प्रा
णो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च पर
धात् । मरुत्सु प्रधाना ये सप्त मरुतः तेषां स्कन्धगतो मुख्यवायुः लोकान्
बिभर्तीति व्याख्यानमप्युक्तप्रमाणविरुद्धम् । एतेन महदहङ्कारपञ्चभू
ताख्यसप्तस्कन्धगत इत्यर्थ इति पक्षोऽपि निरस्तः ॥
( ३ ) एवं व्याप्तिश्रुतिं प्रदर्श्याणुत्वश्रुतिं दर्शयति - अणुनेति ॥ 'ए
तत्' शरीरं जगद्वा । अणुः क इत्यत आह - प्राणो वेति । अत्रोक्तोऽ
णुः श्रेष्ठः प्राणः कुतः, अन्यः किं न स्यादित्यतो जगत्स्रष्टृत्वादिकमु
क्तम् । तस्योपनयमाह - प्राणैर्हीति । हिः प्रसिद्धौ यत इत्यर्थे च ।
'एतत्' जगत्स्रष्टृत्वादिकम् । श्रुतिरित्यनन्तरमणृत्वं वक्तीति शेषः ।
अनेन प्रबलव्याप्तिश्रुतिविरोधादणुत्वश्रुतिरप्रमाणमिति पूर्वपक्षस्सू
चितः ॥
( ४ ) सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ सूत्रे चशब्द ए
वार्थो व्याप्तत्वसमुच्चयार्थश्च । श्रेष्ठ इति चानुवर्तते । तथा च श्रेष्ठो मु
ख्यप्राणरूपेणाणुरेव । न च व्याप्तिश्रुत्यादिविरोधः । यतो न केवलम
णुः, किन्तु बहिर्देहाद्वर्तमानेन मुख्यप्राणरूपेणाण्डादिव्याप्तश्च, अत इ
ति सूत्रार्थः । कुतोऽयं विशेष इत्यत आह - स इति । वै नामेति निपा
तौ प्रसिद्धयर्थौ । 'एष प्राणो' मुख्यप्राणोऽणुर्महांश्च भवति । न चैक
स्मिन्नुभयोर्विरोध इत्यत आह - अन्तरिति । देहस्यान्तरणुः हृदयसु
षिरस्थ सूक्ष्मत्वादिति तत्त्वप्रदीपोक्तेः । तथा च अध्यात्मगतप्राणरूपे
णाणुरित्यर्थः । 'बहिः' देहात् । तथा चाधिदैवगतवायुरूपेण 'महा
न्' व्याप्त इत्यर्थः । तत्र बहिर्देहत एव व्याप्तिः, अन्तस्तु प्राणस्य देह
तोऽप्यणुत्वमिति विवेकः । नन्वत्र श्रुतः प्राणो मुख्य इति कुत इत्यतो
वाक्यशेषादित्याशयेन तमुदाहरति - प्राण इति । वै प्रसिद्धौ । ईशित
व्यश्चासावीशश्चेति विग्रहः । तदुभयं विवृणोति - ईश इति । 'हि'
यतः 'असौ' मुख्यः 'सर्वस्य' स्वपरमात्मातिरिक्तस्य जगतः 'ईशः'

६६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]
स्य' इति कौण्डिन्यश्रुतिः ॥ १४ ॥
*
१०. अधिकरणम् ॥
( १) करणत्वं प्राणानामुक्तम् ।
जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः ।
यस्मात्तद्वशगा एते दृश्यन्ते सर्वदेहिषु ॥
इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते ।
( २ ) 'ब्रह्मणो वा एतानि करणानि चक्षुश्श्रोत्रं मनो वागि
ति । तद्धेतैः कारयति' इति काषायणश्रुतौ ।
स्वामी 'परस्य' परमात्मनः 'ईशितव्यः' भृत्यः । श्रुतिरित्त्यनन्तरं उ
क्तविशेषमाहेति शेषः। अनेन पूर्वोदाहृतव्याप्तिश्रुतौ प्राणशब्दो मुख्य
वायुपर इति सूचितम् ॥ ९ ॥
॥ इति अण्वधिकरणम् ॥
*
१०. अधिकरणम् ॥
( १ ) अत्रेन्द्रियविषयश्रुतिविरोधः परिह्रियते । अधिकरणसङ्गतिं
दर्शयति—करणत्वमिति ॥ 'प्राणानां' इन्द्रियाणां करणत्वं 'अकर
णत्वाच्च' इति चशब्देन 'उक्तं' सूचितमित्यर्थः । सन्देहबीजं श्रुति
विरोधं दर्शयन् पूर्वपक्षं च सूचयति—जीवस्येति । तेषामेवेत्याद्यावु
पस्कार्यम् । अस्य जीवकरणत्वं प्रतीयत इत्यनेनान्वयः । श्रुतौ तुश
ब्दोऽवधारणे । 'सर्वशः' सर्वान् । तथा च वृद्धाः ज्ञानिनः सर्वशः स
र्वान् 'प्राणान्' इन्द्रियाणि 'जीवस्यैव करणानि' तदपेक्षयैव तत्प्रयो
ज्यानीत्याहुरित्यर्थः । कुत इत्यतस्तत्र हेतुमाह—यस्मादिति ॥ यस्मा
त् 'एते' प्राणाः 'सर्वदेहिषु' सर्वप्राणिभिः 'तद्वशगाः' जीववशव
र्तिनः स्वस्ववशा एव 'दृश्यन्ते' अनुभूयन्ते तस्मादित्यर्थः ॥
( २ ) एवं जीवकरणत्वश्रुतिमुदाहृत्य तद्विरुद्धश्रुतिमुदाहर
ति—ब्रह्मण इति ॥ एतानीत्यस्य व्याख्यानं—चक्षुरित्यादि । इत्येता
नीत्यन्वयः । अत्र हेतुमाह—तदिति । 'तत्' ब्रह्म । हिशब्दो यस्मादि
त्यर्थे । 'एतैः' इन्द्रियैः । इन्द्रियाणि कर्म कुर्वन्ति, तैर्ब्रह्म कारयतीति
करणे कर्तृत्वोपचारः । एतैर्ब्रह्म करोतीति फलितार्थः । चः श्रुतिसमु
च्चये । श्रुतावित्यनन्तरं ब्रह्मकरणत्वं प्रतीयते इति शेषः । श्रुतावित्यने

[ अधि - १०. सू - १५. ] दीपिकासहितम्. ६६९
( ३) अत आह—
सू—ॐ ॥ ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ ॐ॥ १५ ॥
यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तय
न सयुक्तिकमिति क्रियाविशेषणेन चक्षुरादीनि जीवस्यैव करणा
नि, तथा श्रुतेस्तद्वशत्वेनानुभयसिद्धत्वाच्चेति सयुक्तिकपूर्वपक्षः सू
चितो भवति ॥
(३) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे-अत इति ॥ ज्योतिराद्यधिष्ठा
नमिति हेतुगर्भं पक्षविशेषणम् । अत्र ज्योतिश्शब्दो 'योऽग्नौ तिष्ठन्'
( बृ. ५-७-५.) इति श्रुताग्निपरः । आदिशब्देन पृथिव्यादिभूतं तद्देवता
च गृह्यते । 'यस्तेजसि तिष्ठन्' (बृ. ५-७-१४.) इति श्रुता प्रकृतिश्च । 'अ
धिष्ठानं' प्रेरकम् । ज्योतिराद्यधिष्ठानं यद्ब्रह्म तदेवेत्यनेन सूत्रे तदिति
व्यस्तमपि भवति । तच्च ब्रह्मपरं, तेन अवधारणार्थकतुशब्दस्यान्वय इ
त्युक्तं भवति। तदेव, न जीव इत्येवशव्दार्थः । 'एतैः' चक्षुरादिभिः कर
णैः प्रवर्तयतीति। अनेन सूत्रे ज्योतिराद्यधिष्ठानमित्यावर्तते । अत्र ज्यो
तिशब्दोऽग्निकार्यचक्षुःपरः । तथा च ज्योतिराद्यधिष्ठानं यद्ब्रह्म तदेव
'ज्योतिराद्यधिष्ठानं' ज्योतीरूपचक्षुरादिनियामकम्, न जीव इति सौ
त्रप्रतिज्ञापदतात्पर्यार्थ उक्तो भवति । केचित्तु—सूत्रे शेषोक्तिरियमि
त्याहुः । कुत इत्यतस्तत्र ज्योतिराद्यधिष्ठानमिति पक्षविशेषणेन ब्रह्म
णः तेजःप्रभृतिभूतप्रेरकत्वे तदुपचितत्वेन तदंशभूतचक्षुरादिप्रेरकत्व
स्यापि युक्तत्वादिति हेतोः, एवमादिपदगृहीतप्रकृतिसूर्याप्रथादिनि
यन्तुः परस्य चक्षुरादिनियामकत्वस्य कैमुत्येन सिद्धत्वादिति हेतोश्च
सिद्धत्वात् चक्षुरादिनियामकत्वे कैमुत्यान्तरपरतया तदामननादिति
सूत्रखण्डं व्याचष्टे-य इति । इत्यादीति लुप्तविभक्तिको निर्देशः । इत्या
दावित्यर्थः। आदिपदेन 'यश्चक्षुषि तिष्ठन्' (बृ. ५-७. ) इत्यादिकं गृह्य
ते । तथा च इत्यादिवाजसनेयवाक्ये तस्य सर्वेन्द्रियप्रेरकमुख्यप्राणप्रे
रकत्वस्य आमननात् प्रतिपादनादित्यर्थः । 'यश्चक्षुषि' इत्यादिश्रुतिसू
चनेन विष्णोश्चक्षुरादिनियामकत्वे श्रुतिप्रदर्शनपरतयाऽपि तदामन
नादित्यंशो व्याख्यातः । 'प्राणे' सर्वप्राणप्रेरकमुख्यप्राणे तिष्ठन्यस्त
स्मात् 'अन्तरो' विविक्तः एष त आत्माऽन्तर्यामीति श्रुत्यर्थः । एवमु
त्तरवाक्यस्यार्थोऽपि ज्ञेयः । यद्यपीन्द्रियप्रायपाठात् प्राणशब्दो घ्राणे

६७० ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ४.]
ति । ‘यः प्राणे तिष्ठन्’ (बृ. ५ - ७ - १६.) इत्यादि
तदामनात् ॥ १५ ॥
( ४ ) कथं जीवकरणत्वश्रुतिरित्यता वक्ति—
सू—ॐ ॥ प्राणवता शब्दात् ॥ ॐ ॥ १६ ॥
जीवेनैव स्वकरणैः कारयति परमात्माऽतो न विरोधः ।
( ५ ) ‘एष ह्येनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति
मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः श्रुति
न्द्रियपरो वा इन्द्रियमात्रपरो वा भवति । तथाऽप्यधिकार्थलाभादपौ
नरुक्ताच्चेन्द्रियमुख्याभिमानिप्रधानवायुपरो व्याख्येयः । अत एव
टीकायां मुख्यप्राणेत्युक्तम् । प्रमेयदीपेऽप्यमुख्यमुख्यसाधारण्येन ग्रा
ह्येन्द्रियदेवतापरोऽयमित्युक्तम् । ननु सूत्रे भूतक्रमेणोक्तौ आकाशाद्य
धिष्ठानमिति वाच्यम् । श्रौतक्रमेण चेत्, पृथिव्याद्यधिष्ठानमिति ।
तदुभयं विहाय ज्योतिरादीति कथं निर्देश इति चेत्-न, पूर्वसूत्रे चक्षु
रादिवदिति, ‘ब्रह्मणो वा’ (काषायण.) इति श्रुतौ चक्षुरिति, ‘एषः’
इति वक्ष्यमाणश्रुतौ च चक्षुषेति चक्षुष आदित्वेन प्रकृतत्वात्तद्विवक्षया
चक्षुरादीत्युक्तत्वात् । अत एव भाष्ये द्वितीयश्रुत्यनुसाराद्रूप्येत्युक्तम् ॥
( ४ ) प्राणवतेतिसूत्रं तन्निरसनीयशङ्काप्रदर्शनपूर्वकमवतारयति-
कथमिति ॥ तर्हीति शेषः । तथाच यदि प्राणानां ब्रह्मकरणत्वं तर्हीत्य
र्थः । श्रुतिरित्यनन्तरमुपपद्यत इति शेषः । किन्तु ब्रह्मकरणत्वस्य त
द्विरोध एव भवेदिति वाक्यशेषः । सूत्रं व्याचष्टे—जीवेनेति । एव
कारो भिन्नक्रमः । सूत्रे करणैस्स्वकरणैरेव, न तु जीवकरणैरित्यव
धारणार्थकतूशब्दोऽन्वितः । सूत्रानुषक्तं तदिति पदं ‘एषः’ इति श्रुत्य
नुसाराल्लिङ्गविपरिणामेन परमात्मेति व्याख्यातम् । दर्शनादीति इति
श्रुतेरर्थ इति च शेषः । जीवेनेत्यनेन प्राणवता इन्द्रियवता जीवेनेति
प्राणवतेत्यस्यार्थ उक्तः । न विरोध इति सूत्रे शेषोक्तिः । तथा च यतो
‘जीवस्य करणानि’ इति श्रुतेः स्वकरणैरेव प्राणैः परमात्मा जीवेना
मुख्यकर्त्रा दर्शनादि कर्म कारयतीत्यर्थो युक्तः । अतः प्राणानां ब्रह्मकर
णत्वोक्तेः जीवकरणत्वश्रुतिविरोधो नेत्यर्थः ॥
( ५ ) ब्रह्म इन्द्रियैः जीवेन दर्शनादि कारयतीत्येतत्कुत इत्यतस्तत्र
हेतुत्वेन शब्दादित्यंशं व्याचष्टे—एष इति ॥ ‘हि’ यस्मात् ‘एषः’ परमा
त्मा जीवस्य स्वाधीनतया किञ्चिदिन्द्रियस्वामित्वं दत्वा एतेनानेन