पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
१६ श्रीमद्बादरायणप्रणीतब्रह्मसूत्राणां—
अ. पा. सूत्रं.
र
रचनानुपपत्तेश्च नानुमानम् .. .. २ २ १
रश्म्यनुसारी .. .. ४ २ १८
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् .. २ २ .१५
रूपोपन्यासाच्च .. .. १ २ २३
रेतस्सिग्योगोथ .. .. ३ १ २८
ल
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि .. ३ ३ ४५
लिङ्गाच्च .. .. ४ १ २
लोकवत्तु लीलाकैवल्यम् .. .. २ १ ३४
व
वदतीति चेन्न प्राज्ञो हि .. .. १ ४ ५
वाक्यान्वयात् .. .. १ ४ २०
वाङ्मनसि दर्शनाच्छब्दाच्च .. ४ २ १
वायुशब्दादविशेषविशेषाभ्याम् .. ४ ३ २
विकरणत्वान्नेति चेत्तदुक्तम् .. .. २ १ ३२
विकल्पाविशिष्टफलत्वात् .. .. ३ ३ ६१
विकारावर्ति च तथाहि दर्शयति .. ४ ४ २०
विकारशब्दान्नेति चेन्न प्राचुर्यात् .. १ १ १३
विज्ञानादिभावे वा तदप्रतिषेधः .. २ २ ४४
विद्याकर्मणोरिति तु प्रकृतत्वात् .. ३ १ १८
विद्यैव तु निर्धारणात् .. .. ३ ३ ४८
विधिर्वा धारणवत् .. .. ३ ४ २०
विपर्ययेण तु क्रमोऽत उपपद्यते च .. २ ३ १४
विप्रतिषेधाच्च .. .. २ २ ४५
विप्रतिषेधाच्चासमञ्जसम् .. .. २ २ १०
विभागः शतवत् .. .. ३ ४ ११
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् १ ३ २७
विवक्षितगुणोपपत्तेश्च .. .. १ २ २
विशेषं च दर्शयति .. .. ४ ३ १६
विशेषणभेदव्यपदेशाभ्यां च नेतरौ .. १ २ २२.
वर्णानुक्रमसूची । १७
अ. पा. सूत्रं.
विशेषणाच्च ॥ . . . . . . १ २ १२
विशेषानुग्रहंच . . . . . . ३ ४ ३८
विशेषितत्वाच्च . . . . . . ४ ३ ८
विहारोपदेशात् . . . . . . २ ३ ३४
विहितत्वाच्चाश्रमकर्मापि . . . . ३ ४ ३२
वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ३ २ २०
वेधाद्यर्थभेदात् . . . . . . ३ ३ २६
वैद्युतेनैव ततस्तच्छ्रुतेः . . . . ४ ३ ६
वैधर्म्याच्च न स्वप्नादिवत् . . . . २ २ २९
वैलक्षण्याच्च . . . . . . २ ४ २०
वैशेष्यात्तु तद्वादस्तद्वादः . . . . २ ४ २३
वैश्वानरः साधारणशब्दविशेषात् . . १ २ २४
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति २ १ ३५
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ३ ३ ५६
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् . . २ २ ४
व्यतिरेको गन्धवत्तथा च दर्शयति . . २ ३ २७
व्यतिहारो विशिषन्ति हीतरवत् . . ३ ३ ३८
व्यपदेशाच्चक्रियायां न चेन्निर्देशविपर्ययः २ ३ ३६
श
शक्तिविपर्ययात् . . . . . . २ ३ ३८
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् १ ३ २८
शब्दविशेषात् . . . . . . १ २ ५
शब्दश्चातोकामचारे . . . . . . ३ ४ ३१
शब्दाच्च . . . . . . २ ३ ४
शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेन्न तथा दृ- }
ष्ट्युपदेशादसम्भवात्पुरुषविधमपि चैनमधीयते } १ २ २६
शब्दादेव प्रमितः . . . . . . १ ३ २४
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गत- }
या तेषामवश्यानुष्ठेयत्वात् . . } ३ ४ २७
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते . . १ २ २०
शास्त्रदृष्ट्या तूपदेशो वामदेववत् . . १ १ ३०
शास्त्रयोनित्वात् . . . . . . १ १ ३
३
१८ श्रीमद्बादरायणप्रणीतब्रह्मसूत्राणां—
| अ. | पा. | सूत्रं.
शिष्टेश्च . . . . . . . . | ३ | ३ | ६४
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि . . | १ | ३ | ३४
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः . . | ३ | ४ | २
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च . . . | १ | ३ | ३८
श्रुतत्वाच्च . . . . . . | १ | १ | ११
” ” . . . . . . | ३ | २ | ४०
श्रुतेस्तु शब्दमूलत्वात् . . . . | २ | १ | २८
श्रुतोपनिषत्कगत्यभिधानाच्च . . . . | १ | २ | १६
श्रुत्यादि बलीयस्त्वाच्च न बाधः . . . | ३ | ३ | ५०
श्रेष्ठश्च . . . . . . . . | २ | ४ | ९
स
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि . . | ३ | ३ | ९.
संज्ञापूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् | २ | ४ | २१
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिद- \ | ३ | १ | १४
र्शनात् /
संस्कारपरामर्शात्तदभावाभिलापाच्च . . | १ | ३ | ३६
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः . . | ३ | २ | ९
सङ्कल्पादेव च तच्छ्रुतेः . . . . | ४ | ४ | ८
सत्त्वाच्चावरस्य . . . . . . | २ | १ | १७
सन्ध्ये सृष्टिराह हि . . . . . . | ३ | २ | १
सप्त गतेर्विशेषितत्वाच्च . . . . | २ | ४ | ६
समानाचामृत्युपक्रमादमृतत्वं चानुपोष्य . . | ४ | २ | ७
समन्व्यारम्भणात् . . . . . . | ३ | ४ | ५
समवायाभ्युपगमाच्च साम्यादनवस्थितेः . . | २ | २ | १३
समाकर्षात् . . . . . . . | १ | ४ | १६
समाध्यभावाच्च . . . . . . | २ | ३ | ३९
समान एवं चाभेदात् . . . . . | ३ | ३ | २०
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शना- \ | १ | ३ | ३०
त्स्मृतेश्च /
समाहारात् . . . . . . . | ३ | ३ | ६५
समुदाय उभयहेतुकेऽपि तदप्राप्तिः . . | २ | २ | १८
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति . . | १ | २ | ३१
वर्णानुक्रमसूचीका । १९
अ. पा. सूत्रं.
सम्पद्याविहाय स्वेन शब्दात् .. .. ४ ४ १
सम्बन्धादेवमन्यत्रापि .. .. ३ ३ २१
सम्बन्धानुपपत्तेश्च .. .. २ २ ३८
संभृतिद्युव्याप्त्यपि चातः .. .. ३ ३ २४
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् .. १ २ ८
सर्वत्र प्रसिद्धोपदेशात् .. .. १ २ १
सर्वथाऽनुपपत्तेश्च .. .. २ २ ३२
सर्वथापि तु तएवोभयलिङ्गात् .. ३ ४ ३४
सर्वधर्मोपपत्तेश्च .. .. २ १ ३८
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् .. ३ ३ १
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् .. ३ ४ २८
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् .. ३ ४ २६
सर्वाभेदादन्यत्रेमे .. .. ३ ३ ११
सर्वोपेता च तद्दर्शनात् .. .. २ १ ३१
सलिलवच्च तन्नियमः .. .. ३ ३ ४
सहकारित्वेन च .. .. ३ ४ ३३
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्या- } ३ ४ ४६
दिवत् .. .. }
साक्षाच्चोभयाम्नानात् .. .. १ ४ २६
साक्षादप्यविरोधं जैमिनिः .. .. १ २ २८
सा च प्रशासनात् .. .. १ ३ ११
सामीप्यात्तु तद्व्यपदेशः .. .. ४ ३ ९
साम्पराये तर्तव्याभावात्तथा ह्यन्ये .. ३ ३ २८
सुकृतदुष्कृते एवेति तु बादरिः .. ३ १ १२
सुखविशिष्टाभिधानादेव च .. .. १ २ १५
सुषुप्त्युत्क्रान्त्योर्भेदेन .. .. १ ३ ४२
सूक्ष्मं तु तदर्हत्वात् .. .. १ ४ २
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः .. ४ २ ९
सूचकश्च हि श्रुतेराचक्षते च तद्विदः .. ३ २ ४
सैव हि सत्यादयः .. .. ३ ३ ३९
सोऽध्यक्षे तदुपगमादिभ्यः .. .. ४ २ ४
स्तुतयेऽनुमतिर्वा .. .. ३ ४ १४
२० श्रीमद्बादरायणप्रणीतब्रह्मसूत्राणां—
अ. पा. सूत्रं.
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् .. ३ ४ २१
स्थानविशेषात्प्रकाशादिवत् .. .. ३ २ ३५
स्थानादिव्यपदेशाच्च .. .. १ २ १४
स्थित्यदनाभ्यां च .. .. १ ३ ७
स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने .. ४ ४ २१
स्पष्टो ह्येकेषाम् .. .. .. ४ २ १३
स्मरणाच्च .. .. .. ३ १ २३
स्मरन्ति च .. .. .. २ ३ ४७
” ” .. .. .. ३ १ १५
” ” .. .. .. ४ १ १०
स्मर्यते च .. .. .. ४ २ १४
स्मर्यतेऽपि च लोके .. .. ३ १ २०
स्मर्यमाणमनुमानं स्यादिति .. .. १ २ २५
स्मृतेश्च .. .. .. १ २ ६
” ” .. .. .. ४ ३ ११
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यन- } २ १ १
वकाशदोषप्रसङ्गात् .. .. }
स्यादेकस्य ब्रह्मशब्दवत् .. .. २ ३ ५
स्वपक्षदोषाच्च .. .. .. २ १ ११
” ” .. .. .. २ १ ३०
स्वशब्दान्मानाभ्यां च .. .. २ ३ २३
स्वात्मना चोत्तरयोः .. .. २ ३ २१
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ३ ३ ३
स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि ४ ४ १६
स्वाप्ययात् .. .. .. १ १ ९
स्वामिनः फलश्रुतेरित्यात्रेयः .. .. ३ ४ ४४
ह
हस्तादयस्तु स्थितेऽतो नैवम् .. .. २ ४ ७
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युप- } ३ ३ २७
गानवत्तदुक्तम् .. .. }
हृद्यपेक्षया तु मनुष्याधिकारत्वात् .. १ ३ २५
हेयत्वावचनाच्च .. .. .. १ १ ८
॥ श्रीगुरुभ्यो नमः ॥
॥ ॐ ॥
॥ ब्रह्मसूत्रभाष्यम् ॥
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
⸻ ꕤ ⸻
( १ ) नारायणं गुणैस्सर्वै-
रुदीर्णं दोषवर्जितम् ।
॥ भाष्यदीपिका ॥
श्री जगन्नाथयतिविरचिता .
⸻ ꕤ ⸻
जिज्ञास्यं जन्मरक्षाक्षयनियतिमतिप्रत्यगज्ञानबन्ध-
श्रेयोदं शास्त्रगम्यं श्रुतिगतवचनैर्मुख्यवृत्त्याऽभिधेयम् ।
भैष्मीसत्यासमेतं बहुगुणवपुषं भीतिपूर्वार्द्दूरं
भक्तिश्रुत्यादिचिन्त्यं भजनपरगतिं भावये वेणुकृष्णम् ॥ १ ॥
अश्मस्तम्भात्समागत्य ताम्रतुण्डाभिहत्य यः ।
तं नौमि जगन्नाथं कण्ठोऽपात्तं नृकेसरी ॥ २ ॥
अनधीत्य महाभाष्यं यस्य व्याकृप्यनुग्रहात् ।
तमुपासे नृसिंहार्कं प्रत्यूहतिमिरापहम् ॥ ३ ॥
पूर्णबोधगुरून्वन्दे जयार्यान् व्यासदेशिकान् ।
रामचन्द्रगुरून्वार्यान् लक्ष्मीकान्तगुरूनपि ॥ ४ ॥
येनायं निरणायि मध्वगुरुसद्भाष्यप्रकाशाशयः
प्राखण्डि प्रतिवादिदर्शनगणः प्राबन्धि गुर्वर्णवः ।
शिष्येभ्यस्समदायि वित्तमुभयं प्रालम्भि विद्यासनं
सोयं श्रीरघुनाथतीर्थगुरुराट् शुद्धिं विदध्यान्मतेः ॥ ५ ॥
जयार्यरचितां टीकामनुसृत्य यथामति ।
२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
ज्ञेयं गम्यं गुरुंश्चापि
जगन्नाथाख्ययतिना क्रियते भाष्यदीपिका ॥ ६ ॥
क्वचिद्भाष्यविवृत्यैव टीकार्थोऽपि विविच्यते ।
तत्त्वप्रदीपतात्पर्यचन्द्रिकायुक्तमार्गतः ॥ ७ ॥
(१) परमानन्दाद्यात्मकस्य परमात्मनः प्रतिबिम्बतया स्वत-
श्चिदानन्दाद्यात्मकस्य जीवस्य अनाद्यविद्याकामकर्मदिनिमित्तबन्ध-
ध्वंसाय निखिलजीवजडात्मकात् प्रपञ्चात् परमार्थतोऽत्यन्तभिन्नत-
या निखिलगुणोदारतया निरस्तसमस्तदोषतया परमपुरुषमवगमयि-
तुं सकलसदागमानां प्रवृत्तिरिति तत्त्वम् । यदाहुः—
अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः ।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥
इति । ‘प्रवर्तते’ दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्य-
र्थः । तेषां चार्थनिर्णयाय ब्रह्मसूत्राणि चकार भगवान् बादरायणः ।
तानि च पटलपिहितनयनवत् यथावदर्थावेत्तृभिः अविद्याख्यपटलपि-
हितनयनपङ्कोकससदृशैः अन्यैरन्यथाव्याख्यातानि यथावद्व्याचिख्या-
सुर्भगवान्आनन्दतीर्थाचार्यः समङ्गलस्यैव सफल
[ अधि - १. सू - १. ] दीपिकासहितम्. ३
नत्वा सूत्रार्थ उच्यते ॥
य इति वा, अराणामाश्रयो न भवतीति वा, विषयतया नरविशेषसं-
बन्धिज्ञानाश्रय इति वा, अरविधुरमुक्ताश्रय इति वा योगेनोत्कृष्टगुण
वाचक इत्युक्तं भवति । तेन नारायण एव शास्त्रार्थ इति प्रदर्शितम् ।
अनेनैव विशेषणचतुष्टयेन वन्द्यताप्रयोजकानि बहुगुणत्व-निर्दोषत्व-
शास्त्रज्ञेयत्व-शास्त्रगम्यत्वानि चोक्तानि ॥
यद्वा—अत्र नारायणमित्यादिपदपञ्चकेन समुद्रशायित्वस-
र्ववसनोत्कर्षब्रीडाज्ञानादिगुणैरूच्चत्व-सम्यग्दोषकर्षण-प्रकृष्टद्युतिमय-
त्व-ज्ञानिनः प्रति प्राप्तिनिरोधरहितत्वाख्यनिमित्तपञ्चकयुतेन नारा-
यणवासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्यमूर्तय उच्यन्ते; तासामेतच्छा-
स्त्राध्यायपादेषु प्रतिपिपादयिषितेतत्त्वात् । तथा च ‘नारायणं नत्वा गु-
णैरुदीर्णं नत्वा दोषवर्जितं नत्वा’ इत्यादिका तत्त्वप्रदीपिकोक्तयोजना
द्रष्टव्या ॥
‘गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि’ इति वचनाद्गुरोर्ना-
म नाग्रहीदाचार्यः । न च ‘गुरून् नारायणशब्दवाच्यान् नारायणपदेनै-
व गुरुनाम चोवाच, आसमन्तात् सो विशिष्ट एव हि व्यासः’ इति
तत्त्वदीपिकाविरोध इति वाच्यम्; गुरुदेवतयोर्वास्तवभेदविवक्ष-
या तदुपपत्तेः, योगरूढव्यासकृष्णाद्यसाधारणनामविवक्षयैवमुक्तत्वा-
त् । गुरुत्वनिमित्तशास्त्रप्रभवत्व-शास्त्रसंप्रदायप्रवर्तकत्व-साक्षादुप-
देशकत्वाख्यप्रकारबाहुल्यात् गौरवाद्वा बहुमानार्थं वा बहुवचनप्रयो-
गः । यद्यपि गुरुर्व्यासः, इष्टदेवताऽपि स एवेति न तयोर्भेदः, तथाऽ-
पि विशेषानुग्रहार्थं पृथङ्नतिरिति । एवं स्वस्य गुरुदेवतयोः भेदे अरु-
चिसूचनार्थोऽपिशब्दः । तथा च - ‘अपि’ तथाऽपि गुरुदेवताभेदाभावे-
ऽपीत्यर्थः । तत्त्वप्रदीपकृत्तु अपिशब्दात्सूत्रकारमपीत्याह । तस्यापि
विशेषानुग्रहार्थं पृथङ्नतिरित्येवाभिप्रायः । यद्वा — ‘अपिशब्दः विशे-
षणान्तरसमुच्चयार्थः, तद्विवरणमस्येत्यादि’ इति सुधोक्तरीत्या गुणपू-
र्णत्वोपपादकजगज्जन्मादिकारणत्वादिरूपानुक्तविशेषणान्तरसमुच्चया-
र्थोऽपिशब्दः ॥
अनेनैव श्लोकेन श्रोतृप्रवृत्त्यङ्गभूताः शास्त्राधिकारिविषयप्रयोज-
नसंबन्धाश्च शिष्यशिक्षार्थं सूचिता भवन्ति ॥
४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २ ) द्वापरे सर्वत्र ज्ञाने आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रे-
न्द्रादिभिरर्थितो भगवान्नारायणो व्यासत्वेनावततार ।
( ३ ) अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तयोरगमविजानतां
( २ ) ननु ब्रह्मसूत्राणां प्रामाण्ये सत्येव प्रेक्षावदुपादेयत्वम्, प्रा-
योऽस्य प्रामाण्यप्रयोज्यत्वात् । सत्येव तस्मिन् प्रतीतिकार्थनिरासेन
यथावद्व्याख्येयत्वं संभवति । प्रामाण्यमेव कथमित्याशङ्क्य आप्तिमूल-
त्वादिनैवेति परिहारमभिप्रेत्य वक्तृश्रोतृप्रसङ्गदोषाभावरूपाप्तिमूल-
त्वोपपादनाय सूत्रागतिक्रममाह – 'द्वापरे' इत्यादिना । द्वावेव धर्म-
पादौ पराववशिष्टौ यस्मिन्युगे, द्वाभ्यां युगाभ्यां परस्मिन्नुत्तरस्मिन्
युगे इति वा
[अधि - १. सू - १. ] दीपिकासहितम्. ५
तज्ज्ञापनार्थं वेदममुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्,
'इष्टानिष्टप्राप्तिपरिहारेच्छूनां' इष्टप्राप्तिश्चानिष्टपरिहारश्च ताविच्छूना
म् । तत्त्वप्रदीपेरीत्या अप्राप्तसुखप्राप्तिदुःखपरिहारेच्छूनावतामिति वा ।
मोक्षस्य पुरुषार्थतासमर्थनार्थं वादिविप्रतिपत्तेः तत्स्वरूपनिरूपणार्थं
चैवमुक्तम् । अन्यथा मुमुक्षूणामित्येव ब्रूयात् । नैतावताऽलं 'आत्य
न्तिक' इति चोपस्कर्तव्यम् । 'तद्योगं' तयोरुपायविशेषं निवृत्तधर्मे
परापरतत्त्वज्ञानरूपं 'अविजानतां' अजानानां सज्जनानां 'तज्ज्ञाप
नार्थं' इष्टानिष्टप्राप्तिपरिहारोपायज्ञापनार्थं । 'उत्सन्नं' अपपाठादिना
तिरोहितं 'वेदं चतुर्धा' — 'व्यभजत्' इत्यावर्तते, 'ततः प्रागेव वि
भक्तं' इति
६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
चतुर्विंशतिश्चैकशतधा सहस्रधा द्वादशधा च ।
(४) तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार ।
(५) तच्चोक्तं स्कान्दे—
स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् ।
उत्सन्नस्स कलिं प्राप्य वेदः प्रायेण सर्वशः ॥
इत्यथर्वणभाष्योदाहृतस्मृतौ कृतयुगे वेदैकत्वस्य त्रेतायां त्रैवि-
ध्यमात्रस्य द्वापरे पञ्चविधत्वस्य चोक्तेः, तथा सर्वस्यापि वेदस्य क-
लावेवोत्सादोक्तेः, अत्र तु 'वेदमुत्सन्नं' इत्यनेन त्रेतायुगे चतुर्धावि-
भागस्य द्वापर एवोत्सादस्य चोक्तेर्विरोधो भाति । तथाऽपि अव्यक्त-
मूलराश्यपेक्षया वेदैक्योक्तेः सम्भवात्, त्रेतायुगे प्राचुर्येण भगवद्वि-
ज्यासाधनत्वविवक्षया त्रैविध्योक्तावपि वस्तुत अथर्वणाख्यप्रकारा-
न्तरसत्त्वस्य अनिषेधेन विधान्तरस्यापि सत्त्वसंभवात्, द्वापरे अपौ-
रुषेयस्य वेदस्य चतुर्विधत्वेऽपि पौरुषेयैरितिहासपुराणादिभिः सह प-
ञ्चविधत्वस्यापि सम्भवात्, बाहुल्येन सर्वैः प्रकारैर्वेदस्य कलावुत्सा-
देऽपि व्यासावतारात्पूर्वं द्वापरेऽप्यपपाठादिरूपोत्सादस्य सम्भवात्
अविरोधः ॥
(४) एवमुपोद्घातमुक्त्वा प्रकृतमाह—'तदर्थनिर्णयाय' इति ।
तेषां सर्वेषां अर्थः तं उपक्रमादियुक्तिभिर्निर्णतुमित्यर्थः । 'ब्रह्म-
सूत्राणि' ब्रह्म वेदः, तदर्थः परब्रह्म वा, तस्य सूत्राणि तत्स्वरूप-
निर्णायिकानीत्यर्थः । गीताभाष्ये तु ब्रह्मसूत्राणि शारीरकसूत्राणीति रू-
ढिरप्युक्ता । अत्र द्वापर इत्यादिना ब्रह्मसूत्राणि चकारेत्यन्तेन वक्तु-
र्व्यासस्य नारायणावतारत्वोक्त्या प्रमादाज्ञानादिदोषाभावसाधनात्,
तत्राप्रयोजकत्वशङ्कायाश्च भगवत्त्वोक्त्या परिहृतत्वात्, ब्रह्मादीना-
मर्थितत्वोक्त्या च श्रोतृदोषाभावस्य वक्तरि तन्निमित्तविप्रलम्भाभाव-
स्य चोक्तत्वात्, 'ज्ञान आकुलीभूते तन्निर्णयाय' इत्यनेन अज्ञाननिर्ह-
रणस्य प्रसक्तत्वेन प्रसङ्गदोषाभावस्य तत एवानपहासस्य चोक्तत्वा-
दाप्तिमूलता दर्शिता भवति । 'ब्रह्मसूत्राणि' इत्यनेन ब्रह्मपरश्रुतिव्या-
ख्यानरूपत्वात् श्रुतिमूलत्वं, न्यायव्युत्पादकत्वाद्युक्तिमूलत्वं च सू-
चितम् । तथा च सिद्धं ब्रह्मसूत्राणां प्रामाण्यमिति भावः ॥
(५) उक्तमेवार्थं प्रमाणेन स्थापयति — 'तच्च' इति । 'च' शब्द
[ अधि - १. सू - १० ] दीपिकासाहितम् ७
नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।
किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥
( ६ ) गौतमस्य ऋषेशापाज्ज्ञाने त्वज्ञानतां गते ।
एवार्थे । तथा च - यदस्माभिः 'द्वापरे' इत्यादिनाक्तं तत् स्कान्दपु
राणोक्तमेवेति भावः । न केवलमस्माभिः किन्तु स्कान्दे चोक्तमिति
समुच्चये वा 'च' शब्दः । तथोक्तं तत्त्वप्रदीपे - यद्यप्याचार्यः स्वो
क्तार्थे स्वयमेव प्रमाणं, सर्वज्ञत्वादविप्रलम्भकत्वात् । तथाऽपि स्का
न्दे चोक्तमिति प्रौढवादं करोतीति । 'न केवलमस्माभिः' इति प्रमे
यदिपेऽपि । किमुक्तमित्यतस्तत्पठति - 'नारायणात्' इति । तदुपदे
शादित्यर्थः । 'ब्रह्मादिद्वारा' इति शेषः । यद्वा - उत्पत्त्याद्यष्टके ज्ञा
नस्य प्रविष्टत्वात् तस्य नारायणजन्यत्वोपपत्तिः । 'निष्पन्नं' उत्पन्नं
'अखिलं' सगुणत्वादिसर्वविषयकमित्यत्रापि सम्बध्यते । 'ज्ञानं' स
म्यग्ज्ञानं 'स्थितं' यथोत्पन्नं तथैव संशयाद्यनास्कन्दितमेव स्थितम् ।
'सत्सु' इति शेषः । ज्ञानविषये संशयादिकं नाभूदिति फलितार्थः ।
'त्रेतायां' युगे 'तत्' ज्ञानं 'किञ्चित्' विषये 'अन्यथाजातं' इदमदो वे
ति पूर्वोक्तसंशयविषयतां अन्यदेवेति मिथ्याज्ञानविषयतां च प्राप्तमि
त्यर्थः । अत्र द्वापरवत् त्रेतादिरप्यष्टाविंशो ग्राह्यः । द्वापरे युगे अखि
लं सर्वविषयं तदन्यथा जातमित्यन्वयः ॥
( ६ ) ननु कालप्रयुक्तमन्यथात्वं चेत् द्वापरयुगे भागद्वयस्यैवान्य
थात्वं युक्तं, न तु सर्वस्येत्यतो विशेषकारणं चाह - 'गौतमस्य' इ
ति । 'तु' शब्दश्चार्थः शापे विशेषकारणत्वस्य ज्ञाने वा सम्यक्त्व
स्य द्योतकः । तथा च गौतमस्य ऋषेः शापाच्च ज्ञाने गुणपूर्णत्वादि
सम्यग्ज्ञाने अज्ञानतां नेदं तत्त्वज्ञानमिति तत्त्वज्ञानभिन्नत्वप्रकारकप्रती
तिविषयतां संदेहविषयतां च गते प्राप्ते सति, ज्ञानविषये सम्यग्ज्ञानवि
रुद्धसंशयविपर्ययविषयतां गते सतीति यावत् । 'ब्रह्मरुद्रपुरस्सराः'
तदादयो 'देवाः' 'सङ्कीर्णबुद्धयः' अज्ञानादिमिश्रज्ञानिनः यद्विषये
ज्ञाने जातं पुनस्तद्विषयगतप्रकारेषु अज्ञानसंशयादिमन्तः सन्तः 'श
रण्यं' तत्र साधुं शरणेषु रक्षकेषु अग्र्यम् 'अनामयं' प्रमाणलक्षणटी
कोक्तरीत्या अत्र आमयपदं रोगवाचकं दोषान्तरोपलक्षकं तथा च नि
तु भवान्" = "May you, sir, revive her!"
Look at line 27:
"तु भवान् इत्येवमनुतापिनं तमभिलप्यापसरतेत्युक्त्वा हेरम्बोऽम्बि"
YES!
Line 26 ends with: "तामु...जीवय"
Line 27 starts with: "तु भवान्"!
"तामु[ज्]जीवयतु भवान्"!
The verb is definitely "उज्जीवयतु"!
With 'ताम्' (accusative of तद्, referring to the cow):
ताम् + उज्जीवयतु = तामुज्जीवयतु!
Now, why does 'ज्जी' look strange?
Let's look closely at 'तामुज्जीवय':
Is it 'तामुज्जीवय'?
Wait, what are the exact letters printed?
Let's inspect: 'ता', 'म' with 'ु' ('मु'), then:
Wait, is there an extra letter?
Look at:
ता (1)
मु (2)
Then a glyph: it looks like 'रु' or 'ज्'?
Then 'जी'? No, wait!
Could it be 'तामुज्जीवय'?
Wait, look at the glyphs:
ता | मु | [?] | जी | व | य
Let's count characters in line 26:
त (1) तो (2) ह (3) र (4)
[अधि - १. सू - १०.] दीपिकासहितम्. ९
(७) तैर्विज्ञापितकार्यस्तु भगवान्पुरुषोत्तमः ।
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान्भगवान्वेदानुज्जहार हरिःस्वयम् ।
चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैव च सहस्रधा ।
कृष्णो द्वादशधा चैव
(८) पुनस्तस्यार्थवित्तये ।
त्ससौ मुनिस्तद्धत्याऽघात् विमुक्तश्च। अत एव गोदावरीति तस्याः सं
ज्ञा समजनि। अथ विनायकचेष्टितं प्रतिबुध्य ऋषिभ्यश्चुक्रोध, अ
शपच्च गौतमः यदस्मदन्ननिमित्तज्ञानबलादेते गां निरमंस्त तत् ज्ञा
नमपैत्विति ॥
(७) देवैः प्रार्थितो भगवान् किमकरोदित्यत आह — 'तैः' इ
ति । 'तुः' अवधारणे । 'महायोगी' मुनिरूपः महाशक्तिर्वा ।
'पुरुषोत्तमः' क्षराक्षरचेतनाभ्यां उत्तमो 'भगवान्' नारायणः 'तैः'
स्वशरणागतिं प्राप्तैरेव देवैः 'विज्ञापितकार्यः' सन् विज्ञापितं प्रति
पादितं अवतारादिरूपं कार्यं यस्य सः, रूपेण 'महायोगी' नाम्ना कृ
ष्णः 'पराशरात् सत्यवत्यामवतीर्णः' इत्यन्वयः । अवतारानन्तरिकप्र
योजनमाह — 'उत्सन्नान्' इति । 'स्वयं' साक्षात् 'हरिः' 'भगवान्'
ज्ञानादिगुणशाली व्यासः 'उत्सन्नान्' अपपाठादिना तिरोहितान्
'वेदान्' 'स्वयमेव' अन्योपदेशमन्तरेण 'उज्जहार' उच्चारणेन व्यक्ती
चकार । तांश्च प्रागेव चतुर्धा विभक्तान्वेदान् पुनः 'चतुर्धा व्यभजत्'
चतुर्भागानकरोत् । एकैकं च भागं 'पुनः' चतुर्विंशत्यादिशाखारूपे
ण ऋग्वेदं 'चतुर्विंशतिधा', यजुर्वेदं 'एकशतधा' एकोत्तरशताख्यैक
प्रकारेण, सामवेदं 'सहस्रधा' अथर्वणवेदं 'द्वादशधा च' व्यभज
दित्यर्थः । भगवत्त्वस्य मुख्यत्वज्ञापनाय 'भगवान्' इति पुनरुक्तिः ।
'एव' शब्दाः प्रकाराधिक्यव्यवच्छेदकाः । 'च' शब्दाः प्रकाराणां
परस्परसमुच्चायकाः ॥
(८) प्रकृतमाह — 'पुनः' इति । पूर्वेणैवास्यान्वयः । यद्वा - उ
त्तरेणाप्यन्वयः । वेदविभागानन्तरं इत्यर्थः । 'तस्य' वेदस्य 'अर्थ
वित्तये' अर्थज्ञानाय । वेदानां बहुत्वेऽपि अर्थस्यैकत्वात्तद्विवक्षया ता
२
१० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ।
( ९ ) अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।
न्वेदानिति बहुवचननिर्दिष्टनामपि वेदानां तस्येत्येकवचनेन निर्देशो
नानुपपन्नः, तस्येत्यस्य समुदायैकवचनत्वात् । नित्यसापेक्षत्वात् 'अ
र्थवित्तये' इति समासस्साधुः । पुनश्शब्दस्यानन्तर्यार्थत्वं च 'पुनर
प्रथमे भेदे' इत्यमरोक्त्या 'पुनरेव समभ्यसेत्' इत्यत्र पुनः निद्राप
- गमानन्तरमिति सुधोक्त्या 'तृतीये पुनरेव च'इत्यत्र वरत्रयानन्तर
मिति विश्वेशतीर्थोक्त्या च सिद्धम् । 'चकार' इत्यत्रापि 'कृष्णो
व्यासः' इत्यनुषज्यते । ननु सूत्रान्तरैरेव वेदार्थनिर्णयसम्भवात्किं
ब्रह्मसूत्रैरिति गतार्थताशङ्कापरिहारायाह—'येषां' इति । 'सूत्रत्वं' सू
त्रशब्दप्रवृत्तिनिमित्तं 'अञ्जसा' मुख्यतोऽस्तीत्यर्थः । अस्य तानि
'चकार' इति पूर्वेण 'एवंविधानि' इत्युत्तरेण वा अन्वयः ॥
(९) किं तत् सूत्रत्वं यदञ्जस्यं ब्रह्मसूत्राणामित्यत आह—'अ
ल्प' इति । यावदक्षरां विना श्रुत्यर्थाभ्यां विवक्षितार्थसिद्धिर्नास्ति
तदर्थप्रतिपादनाय तावन्मात्राक्षरमसति नियामके ततोऽधिकाक्षररहितं
'अल्पाक्षरम्' । केचित्तु—अल्पाक्षरबह्वक्षरयुक्तपर्यायपदयोर्मध्ये अ
ल्पाक्षरपदोपेतत्वं अल्पाक्षरत्वमित्याहुः । तट्टीकानुगुणम् । एवं च
भवितुमर्हतीत्यनुच्यमानार्थं 'असन्दिग्धम्' असन्दिग्धार्थे निर्णीता
र्थमिति तत्त्वप्रदीपोक्तेः । अनन्यलभ्योत्तमार्थयुक्तं 'सारवत्' । बहु
शाखागतपदवाक्यार्थनिर्णायकं 'विश्वतोमुखम्' । तत्त्वप्रदीपे तु एकं
प्रयोजनं प्रत्यपेक्षितार्थस्य कृत्स्नस्य प्रतिपादकं 'विश्वतोमुखं' इत्यु
क्तम् । अर्थज्ञानमन्तरेण गानभागपूरणादिप्रयोजनान्तरगार्थाक्षररहितं
'अस्तोभम्' । शब्दार्थदोषविधुरं 'अनवद्यम्' । यदेतावद्विशेषणयुतं
तदेव 'सूत्रं' इति 'सूत्रविदः' सूत्रलक्षणाज्ञाः 'विदुः' अभ्युपयन्तीत्य
र्थः । अत्र भाष्यनिर्णयहेतुशून्यवाक्यं कुशलपुरुषोक्तलौकिकवार्तादि
कं भगवन्नाममन्त्रादिकं अर्थाप्रतिपादकत्वेऽपि ऋगक्षराव्याप्तगानभा
गपरिपूरकसामगतस्तोभाक्षराणि अपशब्दोपेततादृशवाक्यं च व्या
वर्तयितुं क्रमेण विशेषणानीति पदप्रयोजनं तत्त्वप्रदीपोक्तमनुसन्धेयम् ।
अत्र सर्वत्र धर्मिकथनेऽपि तद्वारा सूत्रपदप्रवृत्तिनिमित्तमप्युक्तमिति
व
भावस्कूतिः ॥
[ अधि - १. सू - १० ] दीपिकासहितम्. ११
( १० ) निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः ।
यथा व्यासत्वमेकस्य कृष्णस्यान्ये विशेषणात् ।
( ११ ) सविशेषणसूत्राणि ह्यपराणि विदो विदुः ।
( १० ) नन्वेतत्सूत्रत्वं कुतो ब्रह्मसूत्राणामाञ्जस्येनेत्यत आह—
'निर्विशेषित' इति । 'ब्रह्मसूत्रस्य' इति समुदायैकवचनम् । चोऽव
धारणे यत इत्यर्थे च । 'अपि' शब्दो मुख्यसूत्रत्वसमुच्चये । तथाच
यतो ब्रह्मसूत्राणां मुख्यसूत्रत्वमस्ति अत एव हि 'निर्विशेषितसूत्रत्वं'
निर्गता विशेषा यस्मात्तन्निर्विशेषं तथाख्यातं निर्विशेषितं तादृशं सू
त्रपदं यस्य तस्य भावः । यद्वा — विशेषो विशेषणं, तस्याभावोऽस्य
सञ्जातः तादृशः सूत्रशब्दो यस्य तस्य भावो निर्विशेषितसूत्रत्वम् ।
विशेषणरहितकेवलसूत्रपदवाच्यत्वमस्ति पुराणादावुक्तम् । अन्यथा
तन्न स्यात्, व्यापकाभावे व्याप्याभावनियमादित्यर्थः । अत्राद्यपक्षे त
थाख्यातमित्यर्थे ण्यन्तात्कर्मणि क्तः, द्वितीये तद्धितः 'इतच्' इति विवे
कः । अनेन ब्रह्मसूत्राणां मुख्यसूत्रत्वे निर्विशेषितशब्दवाच्यत्वादिति
हेतुरुक्तो भवति । अत्र हेतोरप्रयोजकत्वमाशङ्क्य व्याप्तिवचनेन तां प
रिहर्तुं तत्र प्रथमं यद्यन्न निर्विशेषितं तत्तन्न मुख्यमित्यन्वयव्याप्तिमभि
प्रेत्य तत्र दृष्टान्तमाह --- 'यथा' इति । 'एव' इत्यनुवर्तते । तेनैक
शब्दार्थस्य मुख्यत्वस्य व्यापकता लभ्यते । तथाच यथा एकस्यैव
सतः कृष्णस्य वेदव्यासस्य व्यासत्वं निर्विशेषितव्यासपदवाच्यत्वम
स्तीत्यर्थः । तथाच निर्विशेषितत्वान्मुख्यसूत्रत्वं ब्रह्मसूत्राणामिति
वाक्यशेषः । इदानीं ये अमुख्याः न ते निर्विशेषपदवाच्याः किन्तु स
विशेषपदवाच्याः इति व्यतिरेकव्याप्तिमभिप्रेत्य तत्र दृष्टान्तमाह —
'अन्ये' इति । 'यथा' इत्यनुवर्तते । पूर्वमेकशब्दश्रवणादत्रामुख्या
इति लभ्यते । 'व्यासः' इति शेषः । तथाच - यथा कृष्णात् 'अन्ये'
द्रौण्यादयो ये ऽमुख्यास्ते 'विशेषणात्' एव विशेषणमपेक्ष्यैव व्या
साः न तन्नैरपेक्ष्येण । तृतीयार्थे वा पञ्चमी, सविशेषणव्यासपदवा
च्या एवेति योजना ॥
( ११ ) नन्वस्तु ब्रह्मसूत्राणां मुख्यत्वं, तथाऽपि तदन्येषामप्यस्ति,
न तेषामेव, इतरेषाममुख्यत्वे कारणाभावादित्याशङ्क्य, तत्र निर्विशे
षितत्वहेतोः समव्याप्तिपरेण तदर्थमेव प्रागुक्तव्यतिरेकव्याप्तिदृष्टान्तव
१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( १२ ) मुख्यस्य निर्विशेषेण शब्दोऽन्येषां विशेषतः ।
( १३ ) इति वेदविदः प्राहुः शब्दतत्त्वार्थवेदिनः ।
( १४ ) सूत्रेषु येषु सर्वेऽपि निर्णयास्समुदीरिताः ।
चनेनोपपादितान्वयव्याप्तिकमनुमानं नियामकत्वेनाह — ‘सविशेष
ण’ इति । ‘अतः’ इत्यनुवर्तते । अपराणीति चावर्तते । ‘हि’ शब्दो
हेत्वर्थे । तथाच - यतः ‘अपराणि’ ब्रह्मसूत्रेभ्योऽन्यानि सूत्राणि
‘अपराणि’ अमुख्यानि अत एव ‘विदो’ ज्ञानिनः ‘अपराणि’ ‘सवि
शेषणसूत्राणि’ विशेषणसहितसूत्रपदवाच्यानीति ‘विदुः’ उपजान
न्तीत्यर्थः । तथाच अन्यसूत्राणां सविशेषणसूत्रत्वात् अमुख्यत्वमेव,
न मुख्यत्वमिति भावः ॥
( १२ ) निर्विशेषितत्वमुख्यत्वयोः सविशेषणत्वामुख्यत्वयोश्च दृष्टा
न्तमुखेनोपपादितां व्याप्तिं दृष्टान्ते मुख्यत्वामुख्यत्वयोः वेदविभागग्र
न्थविस्तरकर्तृत्वतत्साहश्यादिरूपान्यकारणप्रयोज्यत्वसम्भवादसि
द्धा व्याप्तिरित्याशङ्कापरिहाराय प्रमाणेन साधयति—‘मुख्यस्य’ इ
ति । सावधारणमेतत् । एवं ‘अन्येषां’ इत्यपि । तेन मुख्यत्वामुख्य
त्वयोर्व्यापकतासिद्धिः । वाचकत्वं षष्ठ्यर्थः । तथाच यतो मुख्यस्यै
व ‘निर्विशेषेण’ विशेषाभावेन ‘वाचकशब्दोऽस्ति’ निर्विशेषितशब्दवा
च्यत्वमस्तीति यावत् । ‘अन्येषां’ अमुख्यानामेव ‘विशेषतो’ विशे
षणमपेक्ष्य, विशेषणेनेति वा, ‘शब्दो’ वाचकः। सविशेषणपदवाच्यत्व
मिति यावत् ॥
( १३ ) ‘इति’ एवंप्रकारेण ‘शब्दतत्त्वार्थवेदिनः’ शब्दस्य यथाभू
तार्थज्ञानिनो ‘वेदविदो’ वेदार्थज्ञाः वृद्धाः ‘प्राहुः’ वदन्तीत्यर्थः । अ
स्य “अतो ‘येषां सूत्रत्वमञ्जसा’ ‘सविशेषणसूत्राणि अपराणि अ
मुख्यानि’ इत्युक्तं युक्तं” इति वाक्यशेषेणान्वयः । ‘विशेषितः’ इ
ति क्वचित्पाठः । विशेषणं प्राप्त इति तस्यार्थः । तथाच मुख्यामुख्य
योर्निर्विशेषणसविशेषणशब्दवाच्यत्वे वेदो वृद्धव्यवहारश्च प्रमाणमि
त्युक्तत्वान्न तयोः कारणान्तरं शङ्क्यमिति भावः ॥
( १४ ) अस्त्वेतत्सूत्रत्वमञ्जसा ब्रह्मसूत्राणाम् । तथाऽपि वेदार्थनि
र्णयस्य सूत्रान्तरैरेव सम्भवात् किं ब्रह्मसूत्रैरिति चोद्यस्य कथं ‘ये
षाम्’ इत्यनेन परिहार उक्तइत्यतस्तद्वाक्योक्तं विवृणोति—‘सूत्रेषु’
(१५) शब्दजातस्य सर्वस्य यत्प्रमाणञ्च निर्णयः ।
इति। निमित्तसप्तमी इयम्। अपिः अभिव्याप्तौ सङ्कोचनिवर्तकः। निर्ण-
यस्य सर्वत्वं विषयद्वारा तस्य च शब्दद्वारा बोध्यम्। तथाच ये-
भ्यः सूत्रेभ्यः सर्वे निर्णयाः सर्वशाखार्थनिर्णयाः भाव्यतया समुदीरि-
ताः, येषां सर्वशाखानिर्णायकत्वमुक्तं प्रमाण इत्यर्थः। यद्वा—निर्णी-
यन्त इति निर्णयाः निर्णेतव्यार्थाः। अयं भावः — ‘येषां’ इति वाक्ये
तावत् ब्रह्मसूत्राणामेवाञ्जसा सूत्रत्वमित्युक्तम्। सति चैवं तदन्तर्गतं
सूत्रधर्मतयोक्तं विश्वतोमुखत्वमपि तेषामेवाञ्जसा भवति। यदा चैवं
तदा तेषामसङ्कुचितसर्वशाखानिर्णायकत्वमुक्तं भवेत्, कतिपयशाखा-
निर्णायकत्वे आञ्जस्यानुपपत्तेः। यत एवमतः सर्ववेदशाखार्थनिर्णाय-
कानां ब्रह्मसूत्राणां असर्वनिर्ण
१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( १६ ) एवंविधानि सूत्राणि कृत्वा व्यासो महायशाः ।
( १७ ) ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ।
( १८ ) ज्ञानं संस्थाप्य भगवान् क्रीडते पुरुषोत्तमः । इत्यादि ।
( १६ ) 'एवंविधानि' इति । अञ्जसा विश्वतोमुखत्वाद्युपेतानीत्य
र्थः । अस्योपसंहाररूपत्वान्न 'तानि चकार' इत्यनेन पुनरुक्तिः ॥
( १७ ) 'देवेषु' इत्यनेन कर्मजाजानजदेवदेवगन्धर्वा अपि सङ्गृही
ताः । मनुष्यपदं “निवीतं मनुष्याणां" * इत्यादाविव मननशील
र्षिपरम् । पान्तीति पाः चक्रवर्तिनः । क्षीति क्षयार्थस्य क्षेः रूपं मनु
ष्योत्तमवाचकम्, तेषामितरापेक्षया अत्यल्पायुष्ट्वात् । मनुष्यगन्धर्वा
णामप्युपलक्षकमेतत् । मनुष्याश्च पितरश्च पाश्च क्षयश्चेति विग्रहः ।
अनेन देवर्षिपिट्टपनराः इत्युक्ताः पञ्चविधा अपि मुक्तियोग्याः सङ्गृ
हीता भवन्ति । पक्षीत्यस्याखण्डत्वे पक्षिशब्दो जरितार्यादियोग्य
तिर्यक्परः ॥
( १८ ) 'ज्ञानं' सम्यग्ज्ञानं विशेषज्ञानं 'संस्थाप्य' उत्पाद्य दृढी
कृत्येति वा । दृढीकरणं नाम ज्ञानविषये संशयविपर्ययनिरासः । तथा
च पुरुषोत्तमो महायशाः उत्तमश्लोको भगवान् व्यासो येषु
सूत्रेषु सर्वे निर्णयाः समुदीरिताः, येषां सर्वशाखानिर्णायकत्वमुक्तम्,
तथा सर्वैः शब्दसमूहैः जैमिन्यादिसूत्रान्तरात्मकैर्निर्णायकैः स्मृत्या
दिभिश्च क्रियमाणो लोककर्तृकवेदैकदेशावान्तरतात्पर्यनिर्णयो यन्मू
लको यज्जन्यसर्ववेदमहातात्पर्यनिर्णयमूलकः तदुपजीवी — तं वि
ना अवान्तरतात्पर्यज्ञानमात्रेण मुक्तिफलासिद्धेरिति चोक्तं 'येषां' इ
ति पूर्ववाक्ये प्रमाणे च—एवंविधानि एतादृक्प्रकाराणि सूत्राणि कृ
त्वा ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु ज्ञानं संस्थाप्य क्रीडते इति म
हावाक्ययोजना । 'क्रीडते परमेश्वरः' इति पाठे ऐश्वर्यं एवंविधसूत्र
करणे असामर्थ्यशङ्कानिरासकतयोक्तमिति ध्येयम् । अत्र ब्रह्मादिषु ज्ञा
नसंस्थापनं नाम पूर्वं स्थितस्यैव ज्ञानस्य विशेषयुक्त्यादिभिः दृढीक
रणं किञ्चिदप्राप्तलाभश्चोच्यते, 'जानन्तोऽपि विशेषार्थज्ञानाय स्था
पनाय वा' इति गीतातत्पर्योदाहृतवचनात् । न च 'एवं ज्ञानं पुनः
- तै. सं. २-५-११.
[ अधि - १. सू - १. ] दीपिका सहितम्. १५
( १९ ) सू— ॐ ॥ ॐ अथातो ब्रह्मजिज्ञासा ॥ ॐ ॥ १ ॥
प्रापुर्देवाश्च ऋषयस्तथा' इति भारततात्पर्यनिर्णयविरोधः, अत्र पुन
शब्दात्सर्वदेवादीनां अज्ञातविस्मृतार्थज्ञानप्राप्तेरुक्तत्वादिति वाच्य
म्, तस्याप्युक्तार्थत्वात् । विरिञ्चेतेरेषां तिरोहितार्थज्ञानलाभो वा
ऽत्रोच्यते, यत आहुर्गीतातात्पर्ये आचार्याः- "ब्रह्मणस्तु प्रायो नाप्रति
भासितं" इति । 'इत्यादि' इत्यस्य 'तच्चोक्तं' इत्यनेनान्वयः । लुप्त
विभक्तिकोऽयं निर्देशः ॥
(१९.) प्रमाणाभावेन जीवचैतन्यातिरिक्तब्रह्मणोऽभावात्, जीवस्य
च स्वप्रकाशत्वेनासन्दिग्धत्वात्, तथाच विषयाभावात् प्रत्यग्रूपे
ब्रह्मण्यहमिति प्रतीयमानेऽपि मोक्षानुपलम्भेन प्रयोजनाभावात् तत
एव तत्प्रतिबद्धाधिकार्यभावाच्च न ब्रह्मजिज्ञासा कर्तव्येति प्राप्ते सिद्धा
न्तितं भगवता सूत्रकारेण 'ॐ अथातो ब्रह्मजिज्ञासा ॐ' इति ।
इदमेकं सूत्रमेकमधिकरणम् । अधिकरणं नाम विषयसंशयपूर्वप
क्षसिद्धान्तप्रयोजनरूपपञ्चाङ्गसमुदायः । यथाऽत्रैव जिज्ञासाधिकर
णे "तद्विजिज्ञासस्व" इति जिज्ञासाभिधायकवाक्यविहिता श्रवणा
दिरूपा जिज्ञासा विषयः । कर्तव्या न वेति सन्देहः । न कर्तव्येति पू
र्वः पक्षः । अस्मिन् पक्षे च शास्त्रस्यानारम्भणीयत्वनिश्चयः फलम् ।
कर्तव्येति सिद्धान्तः । तत्र चारम्भणीयत्वनिर्णयः फलं, न्यायानुसन्धा
नात्मकमीमांसारूपजिज्ञासायाः अकर्तव्यत्वे न्यायग्रथनात्मकमीमां
साशास्त्रस्यानारम्भणीयत्वावश्यंभावात् । एवमन्यत्रापि ।
एकस्याधिकरणस्य सङ्गतिपञ्चकम् । तच्च—शास्त्रसङ्गतिः, अ
ध्यायसङ्गतिः, पादसङ्गतिः, पूर्वाधिकरणसङ्गतिः, तद्विषयवाक्यसङ्ग
तिश्चेत्येवंरूपम् । सङ्गतिरपि सामान्यतो द्विविधा, अन्तर्भावरूपा आ
नन्तर्यलक्षणा चेति । तत्र शास्त्राध्यायपादैरन्तर्भावरूपा सङ्गतिः । पू
र्वाधिकरणतद्विषयवाक्याभ्यां तु आनन्तर्यरूपा । साऽपि आक्षेपिकी
आतिदेशिकी औपोद्धातिकी आपवादिकी प्रासङ्गिकी इत्यादिरूपेण ब
हुविधा । तत्र पञ्चाधिकरणपर्यन्तं शास्त्रसङ्गतिमात्रं, नाध्यायपाद
सङ्गतिः । समन्वयैकत्योरध्यायेन सङ्गतिसत्त्वेऽपि पादेनाभावात्सङ्ग
त्योरभावः पञ्चाधिकरणीसाधारणः । तथा पूर्वाधिकरणतद्विषयसङ्ग
ती अपि नैतदधिकरणस्य भवतः, अस्यैवाद्याधिकरणत्वात् श्रुतिकि