सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 53, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 53

६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
चतुर्विंशतिश्चैकशतधा सहस्रधा द्वादशधा च ।
(४) तदर्थनिर्णयाय ब्रह्मसूत्राणि चकार ।
(५) तच्चोक्तं स्कान्दे—
स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम् ।
उत्सन्नस्स कलिं प्राप्य वेदः प्रायेण सर्वशः ॥
इत्यथर्वणभाष्योदाहृतस्मृतौ कृतयुगे वेदैकत्वस्य त्रेतायां त्रैवि-
ध्यमात्रस्य द्वापरे पञ्चविधत्वस्य चोक्तेः, तथा सर्वस्यापि वेदस्य क-
लावेवोत्सादोक्तेः, अत्र तु 'वेदमुत्सन्नं' इत्यनेन त्रेतायुगे चतुर्धावि-
भागस्य द्वापर एवोत्सादस्य चोक्तेर्विरोधो भाति । तथाऽपि अव्यक्त-
मूलराश्यपेक्षया वेदैक्योक्तेः सम्भवात्, त्रेतायुगे प्राचुर्येण भगवद्वि-
ज्यासाधनत्वविवक्षया त्रैविध्योक्तावपि वस्तुत अथर्वणाख्यप्रकारा-
न्तरसत्त्वस्य अनिषेधेन विधान्तरस्यापि सत्त्वसंभवात्, द्वापरे अपौ-
रुषेयस्य वेदस्य चतुर्विधत्वेऽपि पौरुषेयैरितिहासपुराणादिभिः सह प-
ञ्चविधत्वस्यापि सम्भवात्, बाहुल्येन सर्वैः प्रकारैर्वेदस्य कलावुत्सा-
देऽपि व्यासावतारात्पूर्वं द्वापरेऽप्यपपाठादिरूपोत्सादस्य सम्भवात्
अविरोधः ॥
(४) एवमुपोद्घातमुक्त्वा प्रकृतमाह—'तदर्थनिर्णयाय' इति ।
तेषां सर्वेषां अर्थः तं उपक्रमादियुक्तिभिर्निर्णतुमित्यर्थः । 'ब्रह्म-
सूत्राणि' ब्रह्म वेदः, तदर्थः परब्रह्म वा, तस्य सूत्राणि तत्स्वरूप-
निर्णायिकानीत्यर्थः । गीताभाष्ये तु ब्रह्मसूत्राणि शारीरकसूत्राणीति रू-
ढिरप्युक्ता । अत्र द्वापर इत्यादिना ब्रह्मसूत्राणि चकारेत्यन्तेन वक्तु-
र्व्यासस्य नारायणावतारत्वोक्त्या प्रमादाज्ञानादिदोषाभावसाधनात्,
तत्राप्रयोजकत्वशङ्कायाश्च भगवत्त्वोक्त्या परिहृतत्वात्, ब्रह्मादीना-
मर्थितत्वोक्त्या च श्रोतृदोषाभावस्य वक्तरि तन्निमित्तविप्रलम्भाभाव-
स्य चोक्तत्वात्, 'ज्ञान आकुलीभूते तन्निर्णयाय' इत्यनेन अज्ञाननिर्ह-
रणस्य प्रसक्तत्वेन प्रसङ्गदोषाभावस्य तत एवानपहासस्य चोक्तत्वा-
दाप्तिमूलता दर्शिता भवति । 'ब्रह्मसूत्राणि' इत्यनेन ब्रह्मपरश्रुतिव्या-
ख्यानरूपत्वात् श्रुतिमूलत्वं, न्यायव्युत्पादकत्वाद्युक्तिमूलत्वं च सू-
चितम् । तथा च सिद्धं ब्रह्मसूत्राणां प्रामाण्यमिति भावः ॥
(५) उक्तमेवार्थं प्रमाणेन स्थापयति — 'तच्च' इति । 'च' शब्द