पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
२८० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
सू—ॐ ॥ अनुकृतेस्तस्य च ॥ ॐ ॥ २२ ॥
' तमेव भान्तमनुभाति सर्वम् ' इत्यनुकृतेः , 'तस्य
प्योः 'अनुभाति' इतिश्रुत्यनुसारादनुभानादिति वाच्यम् । तथाऽपि
तापिनी पाचिनी चैव शोषिणी च प्रकाशिनी ।
नैव राजन् रवेश्शक्तिः शक्तिर्नारायणस्य सा ॥
इति ऐतरेयभाष्योदाहृतपद्मवचनात्सूर्यादिकर्तृकप्रतपनादिकमपि प-
रमात्माधीनमिति दर्शयितुमनुकृतेरित्युक्तम् । सूत्रे तदनुसारिभाष्ये
च चशब्दो द्वितीयसूत्रस्य वक्ष्यमाणव्याख्यानभेदेन सर्वजगत्प्रकाश-
कत्वरूपोक्तहेतुसमुच्चये वा, सूर्याद्यप्रकाश्यत्वरूपानुक्तहेतुसमुच्चये
वा द्रष्टव्यः । सूत्रे समन्वयसूत्रादनुवृत्तस्य विधेयपरस्य तत्त्वित्यस्या-
र्थमाह—परमात्मैवेति । न तु ज्ञानिसुखमित्येवशब्दार्थः । लिङ्गसमन्व-
येन भवत्फलं दर्शयति—अनिर्देश्येति । अनिर्देश्यश्चासौ सुखरूप
इति वा, अनिर्देश्यं यत्सुखं तद्रूप इति वा विग्रहः । अत्र रूपशब्दो
भिन्नक्रमः । तथा चानिर्देश्यं परमं सुखं परमात्मरूपमित्यन्वयः । एक
इत्यादौ पुल्लिङ्गेन प्रकृतस्यैतदिति नपुंसकलिङ्गेन ग्रहणाय रूपशब्द-
प्रयोगः । उपलक्षणमेतत् । अनुग्राह्यश्चेत्यपि द्रष्टव्यम् । वस्तुतस्तु— '
वचनाच्चेतिशब्दस्य सुखरूपश्चेत्यपि सम्बन्धे तेनैवानुकूल्येन गृह्यमा-
णाख्यः साध्यधर्मो सूचित इति ध्येयम् । यद्यप्यनिर्देश्यत्वमज्ञेयत्वं
चेत्युपक्रमादुभयं ग्राह्यं, न त्वेकम्, सुखरूपमिति चाधिकम् । तथाऽ-
पि पूर्वपक्ष्युक्तसुखश्रुतेः सुखरूपे ब्रह्मणि सावकाशत्वज्ञापनाय ' तदे-
तन् ' इतिवाक्योक्तमनिर्देश्यसुखरूपत्वमेव गृहीतम् । अज्ञेयत्वमपि
द्रष्टव्यम् । यद्यप्यत्र भाष्ये लिङ्गद्वय
[ अधि - ६. सू - २२. ] दीपिका सहितम्. २८१
भासा सर्वमिदं विभाति' (कठ. ५-१५.) इति वच
नाच्च परमात्मैव अनिर्देश्यसुखरूपः ।
किन्त्वनिर्देश्यं सुखमित्यत्र समीपोक्तज्ञानिसुखपरित्यागे हेतुरुच्यते इ
त्यत्र ज्ञापकम्, टीकाऽपि तदनुसारिणीत्याहुः । तथा चायं सिद्धान्ते
श्रुत्यर्थः—
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीराः ॥ (कठ. ५-१२.) ॥
इति पूर्ववाक्ये 'य एको' ज्ञानानन्दाद्यभिन्नः समाभ्यधिकशून्यो वा
यः सर्वमस्य वशेऽस्तीति 'सर्ववशी' यः 'सर्वभूतान्तरात्मा' सर्वप्रा
णिनामन्तर्नियामकः 'य एकं' स्वस्वरूपं बहुधा करोति नियम्यान
न्यान् । 'तं' प्रकृतं 'आत्मस्थं' जीवहृदयस्थितं ये 'धीराः' ज्ञानि
नः अनुपश्यन्तीति प्रकृता ये ज्ञानिनस्तेषामेव 'शाश्वतं सुखं' नित्या
भिव्यक्तसौख्यं नेतरेषाम्। अनेन ब्रह्मसामर्थ्यमुक्तं भवति। एवं 'नित्यो
नित्यानाम्'इति वाक्यमपि ब्रह्ममाहात्म्यपरतया व्याख्येयम् । 'तदेतत्'
इत्यादिनाऽपि प्रकृतभगवत्स्वरूपमेव विशेषतः प्रतिपाद्यते इति। मन्य
न्ते इत्यस्योत्तरत्रान्वयः । तथा च 'यतो वाचो निवर्तन्ते' ( तै.२-४-
१.) 'एषोऽस्य परम आनन्दः' ( बृ. ६ - ३ - ३२.) इत्यादौ प्रसिद्धं
अनिर्देश्यं परमं सुखं कथं नु तद्विजानीयामिति मन्यन्ते इत्यानुकूल्ये
न गृह्णन्ति। ज्ञानार्थं तद्वा-तज्ज्ञानं वा प्रार्थयन्ते। 'किमु भाति न भाति
वा' इति तस्य दुर्ज्ञेयत्वं च वदन्ति ज्ञानिनः। तत् ब्रह्मणो रूपं स्वरू
पभूतं सुखमेतदेकं रूपं बहुधा यः करोतीतिप्रकृतेश्वररूपाभिन्नमिति
मन्यन्ते ज्ञानिन इति। एतच्छब्दस्येश्वरपरत्वेऽपि रूपशब्दसामाना
धिकरण्यात् नपुंसकलिङ्गोपपत्तिः । तदुक्तं न्यायविवरणे—' यद्ब्रह्मा
निर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्त इति' । का
ठकभाष्ये तु—' तद्गुह्यं ब्रह्म सनातनम्' इत्युपक्रान्तं 'रूपं रूपं
प्रतिरूपो बभूव' (कठ. ५-९.) इति जीवस्य प्रतिबिम्बभूतं
रूपशब्देन प्रकृतमेतत् 'एकं रूपम्' इत्यत्र प्रकृतं च भगवद्रूपं 'अनि
र्देश्यं' इत्थमिति साकल्येन निर्वक्तुमशक्यं परमं सुखमिति मन्यन्ते
ज्ञानिन इति सुखरूपत्वविधिपरतया व्याख्यातम् । भाष्येऽप्यनिर्देश्य
सुखरूप इत्येतावन्मात्रग्रहणेन श्रुतौ सुखरूपत्वं विधेयमिति सूचित
३६
१८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( ३ ) न हि ज्ञानिसुखमनुभाति सर्वं, न च तद्भासा ।
( ४ ) ' अहं तत्तेजो रश्मीन्' इति नारायणभासा हि सर्वे
भाति ॥ २२ ॥
म् । तदनिर्देश्यपरमसुखात्मकं भगवद्रूपं तत्प्रसादमृते किमु भाति न
भाति वेति सम्यग्भाति न भातीति कथं न्वहं जानीयामिति शिष्टवा-
क्यार्थस्तत्रैवोक्तः । विवृतं चैतद्व्यासतीर्थीये—' तत्' अनिर्देश्यपरम-
सुखात्मकं भगवद्रूपं तत्प्रसादमृते किमु सम्यग्भाति ? न भाति वा ?
इति प्रश्नस्योत्तरभूतं एकं निश्चितार्थं ' कथमहं विजानीयां' न केना-
पि प्रकारेणेति । अत्रेतिशब्द उभयान्वयी । तथा च किमु भातीति प्र-
श्नस्योत्तरभूतं न भातीतिवाक्योक्तमेकमज्ञेयत्वरूपमर्थमिति योजना ।
केचित्तु—यदेवं ब्रह्म तत्प्रसादमृते 'नु' इदानीं 'कथमहं विजानी-
याम्' प्रार्थनायां लिङ् । न कथमपीत्यर्थः । ज्ञानिवाक्यानुकरणमेतत् ।
भगवत्प्रसादादपि किं साकल्येन तज्ज्ञानं भवतीति नचिकेता यमं पृ-
च्छति-किमु भातीति । उशब्दः सम्यगित्यर्थे । किम्बित्येकं वा । तथा-
त्वे सम्यगिति शेषः । उत्तरमाह यमः—न भातीति । वाशब्दोऽवधा-
रणे । न भात्येवेति व्याख्याति ॥
( ३ ) ननु 'तमेव भान्तम्' इतिवाक्ये सूर्यादितेजसां परमात्मा-
धीनप्रकाशकर्तृत्वस्य 'तस्य भासा' इतिवाक्ये च सर्वस्य जगतस्त-
त्प्रभाप्रकाशयत्वस्य च श्रवणेन असिद्धिपरिहारे कुतस्तयोर्विष्णुत्व-
साध्येनाव्यभिचरितत्वम्, येन तल्लिङ्गद्वयबलात्समीपोक्तज्ञानिसुखप-
रामर्शपरित्यागः स्यादित्यत आह—न हीति ॥ सर्वमित्युभयान्वयी ।
भातीति शेषः । तथा च 'हि' यस्मात् 'सर्वं' सूर्यादितेजः ज्ञानिसु-
खमनुसृत्य 'न भाति' न प्रकाशते । तथा 'तद्भासा' तस्य ज्ञानिसु-
खस्य प्रकाशेन 'सर्वं' जगत् 'न भाति' न प्रकाशते चेत्यर्थः । वक्ष्यमाण-
प्रमाणविरोधादिति भावः । चशब्दः समुच्चये । अतो न लिङ्गद्वयमन्यै-
त्रावकाशवदिति वाक्यशेषः ॥
( ४ ) अस्त्वेतदुभयं ज्ञानिसुखेऽनुपपन्नम् । तथाप्यनेन कुतः परमा-
त्मनो ग्रहणं, अस्य परमात्मत्वसाध्यसामानाधिकरण्यानिश्चयादित्य-
तस्तत्र द्वितीयसूत्रस्थापिपदेन सूचितां श्रुतिमाह-अहमिति ॥ अहमिति-
त्यनन्तरं श्रुतेरिति शेषः। इतिशब्द आद्यर्थे। तेन 'तमेव भान्तमनुभा-
ति सर्वं तस्य भासा सर्वमिदं विभाति' (कठ.५-१५.) इत्याथर्वणश्रुतिर
[ अधि - ६. सू - २३. ] दीपिकासहितम्. २८३
(५) सू—ॐ ॥ अपि स्मर्यते ॥ ॐ ॥ २३ ॥
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ (गी. १५-१२.)
इति ।
पि गृह्यते । नारायणेति । नारायणाधीनभासेत्यर्थः । हिशब्दो यत इत्य
र्थे, प्रसिद्धौ च । 'सर्वे' सूर्यादितेजः 'भाति' प्रकाशते । यद्वा—' नारा
यणभासा ' नारायणीयभासा 'सर्वे' जगत् 'भाति' प्रकाश्यत इत्य
र्थः । ' इति ज्ञायते ' इति शेषः । श्रुतौ ' रश्मीन् ' इत्यनेन सूर्यादितेज
सां नारायणाधीनप्रकाशकर्तृत्वस्य, 'तेजः' इत्यनेन सर्वस्य जगतो
नारायणीयप्रकाशप्रकाश्यत्वस्य चोक्तत्वादिति भावः । ' अहम्' इति
श्रुतिस्त्वन्तर्नये व्याख्याता । अनेन—तदुक्तमित्यतः सूत्रे तदित्यनुव
र्तते । तस्येत्यावर्तते विपरिणम्यते च । असम्भवादिति चानुवर्तते ।
तथा च—
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयाम् ॥ ( कठ. ५ - १४. ) ॥
इत्यानुकूल्येन गृह्यमाणं तदेतच्छब्दपरामृश्यं सुखं अनिर्देश्यं सुखं त
स्तु विष्णुरूपमेव, न समीपोक्तज्ञानिसुखम् । कुतः ? ' तस्य ' सूर्यादि
तेजसः ' तस्य ' आनुकूल्येन गृह्यमाणस्य सुखस्य तस्मिन् ' तमेव
भान्तम् ' इति ' अनुकृतेः ' अनुभानश्रवणात्तस्यैतदधीनप्रकाशक
र्तृत्वश्रवणादस्यान्तेजोनियन्तृत्वश्रवणादिति यावत् । तथा तस्य
सर्वस्य जगतस्तस्य तत्प्रकाशप्रकाश्यत्वस्य 'तस्य भासा' ( कठ.
५-१५.) इति श्रुतावुक्तत्वात्तस्य सर्वजगत्प्रकाशकत्वोक्तिरिति याव
त् । तस्य च लिङ्गद्वयस्य ' अहं तत्तेजः ' ( चतुर्वेदशिखा. ) इत्या
दिश्रुत्या स्मृत्या च तस्मिन्विष्णावेव निश्चयेनोपपत्तेर्ज्ञानिसुखे च ' अ
सम्भवात् ' अनुपपत्तेः । तथा तस्मिन्नुपसंहारे तस्यानुकूल्येन गृह्य
माणस्य 'न तत्र सूर्यो भाति' इति वाक्ये तस्य सूर्याद्यप्रकाश्यत्वस्य
चोक्तेश्चेति सूत्रार्थ उक्तो भवति ॥
(५) यदेतल्लिङ्गद्वयस्य विष्णुनिष्ठत्वं 'अहम्' इति श्रुत्योपपा
दितम् । तत्स्मृत्याऽप्युपपादयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति—अ
पीति ॥ इति स्मर्यत इत्यन्वयः । ' यत् ' आदित्यादिषु स्थितं तेजस्त
त् ' मामकं ' मदधीनं मदीयं च, मत्तेज एवादित्यादिषु प्रेरकत्वेना
:
It has a top bar. Then a curved left belly, going down to a virama. That is clearly a 'त्' with virama!
Wait, why would it be "रश्मीत्"?
Could it be "रश्मीन्"?
Wait, look at "रश्मीत्" vs "रश्मीन्":
Let's look at the top left of the letter: it has a rounded loop/arch, then goes down. 'त' has a single curve: left-down.
'न' has a loop at the bottom left, then goes right to a vertical stem.
The letter in line 20 has NO vertical stem on the right! It is just 'त्'!
Wait, is it "रश्मीत्"? Yes! It looks like रश्मीत् !
Wait, let's search: does "अहं तत्तेजो रश्मीत्" exist, or is it a typo in the book for "रश्मीन्" or "रश्मिषु"?
Wait, maybe "अहं तत्तेजो रश्मीन्" was intended, but the typesetter set 'त्'?
Wait, look at the image really closely:
Is it 'त्' or 'न्'?
Wait, look at 'त्' in line 8: 'प्रतिपाद्यः' - the 'त्' in 'प्रति' has a loop going down to the left.
In line 20: 'तत्तेजो' has 'त्' which curves left-down.
Now
[ अधि - ७. सू - २३. ] दीपिकासाहितम्. २८५
इति च ॥ २३ ॥
७. अधिकरणम् ॥
( १ ) विष्णुरेव जिज्ञास्य इत्युक्तम् । तत्र
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥ (कठ.५-३.)
इति सर्वदेवोपास्यः कश्चित्प्रतीयते ।
तस्य परमात्मनो भासा ‘सर्वमिदं’ जगत् ‘भाति’ प्रकाश्यते’ इति
व्याख्यातम् । तथापि टीकानुसारात् ‘सर्वं’ सूर्यादि तेजः ‘भान्तं’
प्रकाशमानं भगवन्तमनुसृत्यैव ‘भाति’ प्रकाशते । ‘तस्य’ भगवतो
‘भासा’ प्रकाशेन ‘इदं सर्वं’ जगत् ‘भाति’ प्रकाश्यत इति व्याख्ये-
यम् । व्यासतीर्थीयं तु व्याख्यानान्तरं टीकाकृदभिप्रेतं भविष्यतीति
न तद्विरोधः ॥ ६ ॥
॥ इति अनुकृत्यधिकरणम् ॥
७. अधिकरणम् ॥
( १ ) अत्राधिकरणे ईशाननामसमन्वयः क्रियते । श्रुत्यादिसङ्गतिं
विषयसंशयौ च सूचयति—विष्णुरेवेति ॥ जिज्ञासासूत्रे विष्णुरेव
सर्वैर्मुमुक्षुभिर्मोक्षार्थं जिज्ञास्य इत्युक्तमित्यर्थः । न च तत्र जिज्ञास्य-
त्वायोगव्यवच्छेद एव कृतः, न त्वन्ययोगव्यवच्छेद इति वाच्यम् ।
अन्यस्यापि जिज्ञास्यत्वे तस्यापि मोक्षदातृत्वापत्त्या ‘यतो नारायण-
प्रसाददृते’ इत्यादिविवरणानुपपत्तेरन्ययोगव्यवच्छेदस्यापि तत्राभि-
प्रेतत्वात् । अतोऽत्रैवकार उभयान्वयितया व्याख्येयः । ततः किमित्य-
त आह—तत्रेति । इदं चावर्तते । तत्रेत्यव्ययं तदित्यर्थेऽपि । तथा च
‘अथातो ब्रह्मजिज्ञासा’ इति यत्पूर्वे विष्णोर्जिज्ञास्यत्वमुक्तं ‘तत्र’
जिज्ञास्यत्वे ‘तत्र’ ‘ईशानो भूतभव्यस्य’ इत्युक्त्वा आम्नाते ‘ऊ-
र्ध्वम्’ इति काठकवाक्ये ‘कश्चित्’ ईशानो धर्मित्वेन प्रतीयते । क-
थं? यतोऽयं ‘सर्वदेवोपास्यः’ तैर्जिज्ञास्यः प्रतीयते अत इति वाक्य-
योजना । न च वायोः सर्वदेवोपास्यत्वेऽपि न विष्णोस्सर्वदेवोपास्य-
त्वहानिरिति वाच्यम् । तावताऽपि सर्वैर्मुमुक्षुभिर्विष्णुरेव जिज्ञास्य इ-
ति नियमस्यासिद्धेः । न च श्रुतिगतविश्वेदेवशब्दस्य गणविशेषवा-
२८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( २ ) स च ‘ एवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेवसन्नि-
धत्ते’ (प्रश्न.३-४.) ‘योऽयं मध्यमः प्राणः’ (बृ.३-५-२१.)
चित्वात् सर्वदेवोपास्य इत्युक्तिरनुपपन्नेति वाच्यम् । गणविशेषपर-
त्वे तस्य गुणाधिक्यासिद्ध्या सर्वदेवपरत्वावश्यंभावात् । अनेन—
ईशानशब्दस्यान्यनिष्ठत्वाक्षेपमुखेन फलतो मुमुक्षुकर्तृकजिज्ञास्यत्व-
स्यान्यनिष्ठत्वाक्षेपात् जिज्ञासाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भ-
वति । तथेशानाख्यो विषयश्च सूचितः ॥
( २ ) सयुक्तिकं पूर्वपक्षयति—स चेति ॥ अत्रेत्थं योजना—‘ स
च ’ सर्वदेवोपास्यश्चेशानो वायुरेव भवेत्, न विष्णुः । कुतः? अत्र
प्राणव्यवस्थापकत्वश्रवणात् । तथा मध्यमत्वोक्तेः सर्वदेवतोपास्य-
त्वोक्तेश्च । न चैषां वाय्वेकनिष्ठत्वासिद्धिः । यतोऽयं वायुः ‘एवमे-
वैष प्राणः’ (प्रश्न.३-४.) ‘योऽयं मध्यमः’ ‘कुविदङ्ग’ (ऋ.७-९१-१०.)
इत्यादिना वाक्येन स प्राणव्यवस्थापकत्वादिमान् प्रतीयते, अत
इति । काठके हि—
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य ॥ ( कठ. ४-१२. )
इत्यनेन भगवतोऽङ्गुष्ठमात्रत्वं पूर्णषड्गुणत्वं देहमध्यस्थत्वं भूतभवि-
ष्यद्वर्तमानेशानत्वमित्यादिमाहात्म्यमभिधायेशानपदोक्तस्य तस्यैव
‘ ऊर्ध्वम् ’ इत्यादिना महिमान्तरमुच्यते । तत्र मध्यशब्दः सिद्धान्ते
ऊर्ध्वप्रत्यक्छब्दसमभिव्याहारात् देशविशेषवचनः, न त्ववान्तरेश्व-
रत्वादिरूपमध्यमत्वार्थकः । तथा च यः प्राणाख्यरूपेण ‘प्राणं’ प्राणा-
ख्यवायुमूर्ध्वं ‘उन्नयति’ उद्गमयति ऊर्ध्वगतिमत्तया प्रेरयति । अ-
पानरूपी चापानाख्यं वायुं ‘प्रत्यक्’ अधस्ताद्विण्मूत्रादिनिष्कासमहे-
तुतया ‘अस्यति’ निरस्यति प्रेरयतीति यावत् । तं ‘देहमध्ये’ हृद-
ये ‘आसीनं’ उपविष्टं ‘वामनं’ सौन्दर्यप्रधानाः स्त्रियो वामाः ताः ने-
तारं विष्णुं ‘विश्वे देवाः’ सर्वे देवाः ‘उपासते’ जिज्ञासन्त इति
सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षी त्विदं वायुपरं मत्वा मध्यशब्दो
‘योऽयं मध्यमः’ इति श्रुत्यन्तरसमाख्यानान्मध्यमेश्वरत्ववचनो न दे-
शविशेषवचन इत्याह । ‘एवम्’ इति षट्प्रश्नवाक्यं च ‘यथा सम्रा-
डेवाधिकृतान्विनियुङ्क्ते एतान्ग्रामानधितिष्ठस्वेति’ इति दृष्टान्तवाक्ये-
न सह व्याख्येयम् । तत्प्रकारस्तु-यथा ‘सम्राट्’ सार्वभौमः ‘अधिकृता
?
Wait, if it's सार्क, does it have an anusvara? No, there is no dot.
Wait, let's look really closely at the letter 'सा':
Is it 'सा' or 'स'?
Wait! Look at the space between 'स' and 'क':
It's just 'सा' - wait, is that a danda of 'सा'? Yes, 'सा'.
And above 'क' is a repha. So the printed text has सार्क!
Wait, or could it be साकं where the "repha" is just an elongated anusvara? No, it looks like a repha. I will transcribe it as printed: सार्क (or if it's a typo for साकं, let's be careful). Wait, let's look at सार्क: if a reader sees सार्क, they know.
Wait, let's re-examine line 15:
मित्ताद्वा अवान्तरेेश्वरत्वाद्वा मुख्यप्राणस्य सर्वोत्तमत्वरूपकाष्ठात्व-
Let's look at अवान्तरेेश्वरत्वाद्वा:
Wait, could that letter be अवान्तरे श्वरत्वाद्वा?
Wait, what is that glyph between 'रे' and 'श्व'?
Wait, let's look at the word:
Could it be अवान्तरेश्वरत्वाद्वा?
Wait, why did I see two 'े'?
Let
३८८ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - ३.]
वामनशब्दादेव विष्णुरिति प्रमितः ।
( ३ ) न हि श्रुतेर्लिङ्गं बलवत् ।
( ४ ) श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।
दिति चोद्यपरिहाराय लिङ्गेभ्यः श्रुतेः प्राबल्यमाह । यथोक्तं सुधायां
म्—एवशब्दव्याख्याने बलवदिति 'शब्दादेव प्रमितः' इति यथेति । स
मन्वयसूत्रादनुवृत्तस्य तदित्यस्यार्थो विष्णुरिति । विधेयभूतविष्णु
स्वस्यान्ययोग्योद्देश्यद्योतनायेतिशब्दप्रयोगः । आवर्तते चायम् । इ
तिशब्दात्परमपि एवशब्दो योज्यः । तेनानुवृत्तस्तुशब्दो व्याख्यातः ।
तथा च 'ईशानो भूतभव्यस्य' (कठ. ४ - १२.) इतिश्रुत ईशानो
विष्णुरेव भवेत् । कुतः ? यस्तत्र प्रमितो विष्णावेव महायोगविद्वद्रू
ढिभ्यां प्रसिद्धो 'मध्ये वामनम्' इतिश्रुतो वामनशब्दस्तस्मादेवेति
योजना । प्रमितपदं श्रुतेर्निरवकाशत्वसूचकम् । अनेन सूत्रे इतिश
ब्दोऽध्याहार्य इति सूचितम् । तथा च 'ईशानो भूतभव्यस्य' इतिश्रुत
ईशानः 'तत्तु' विष्णुरेव भवेत् । कुतः ? यस्तत्र विष्णावेव प्रमितो
महायोगविद्वद्रूढिभ्यां प्रसिद्धोऽन्यत्रनिरवकाशो 'मध्ये वामनमासी
नम्' (कठ. ५ - ३.) इतिश्रुतो लिङ्गात्प्रबलो वामनशब्दस्तच्छ्रुति
स्तस्मादिति सूत्रार्थः ॥
( ३ ) सूत्रे एवकारप्रयोगेन सूचितं श्रुतेः प्राबल्यं लिङ्गस्य प्राब
ल्यनिषेधमुखेन दर्शयति—न हीति ॥ श्रुतेरिति पञ्चमी । हिशब्दो व
क्ष्यमाणप्रमाणविरोधादिति हेतुसूचकः । तथा च 'हि' यस्मान्न
श्रुतेर्लिङ्गं बलवत्, किन्तु दुर्बलमेव । तस्माल्लिङ्गात् प्रबलात् वामनश
ब्दादेवेशानो विष्णुरेवेत्यर्थः ॥
( ४ ) कुतो न श्रुतेर्लिङ्गं बलवदित्यतस्तथासति श्रुतेर्लिङ्गात्प्राबल्य
वचनविरोधापत्तेरित्याशयेन तद्वाक्यं पठति—श्रुतिरिति ॥ इति स्का
न्द इत्यनन्तरं वचनादिति शेषः । अस्य न हीत्यनेनान्वयः । वाचक
शब्दश्श्रुतिः । असाधारणधर्मो वा, तद्बोधकशब्दो वा लिङ्गम् । निर्णी
तस्यान्यत्र समानोक्तिः समाख्या । सा द्विविधा—अर्थतःशब्दतोऽपी
ति । समभिव्याहृतपदैरेवाकांक्षापूर्तौ तच्छान्त्यर्थं पदान्तरानिरपेक्षा
णि पदानि वाक्यम् । एकप्रमेयप्रतिपादकानेकवाक्यानि प्रकरणम् ।
अनुक्तस्थानसमुच्चये तथेतिशब्दः । अनेकप्रमेयप्रतिपादकमेकार्थता
[ अधि - ७. सू - २४. ] दीपिका सहितम्. २८९
पूर्वे पूर्वे बलीयः स्यादेवमागमनिर्णयः ।
इति स्कान्दे ।
त्पर्ययुक्तं वचनं स्थानम् । अत्र ' वाक्यं प्रकरणं स्थानं समाख्या च
तथाविधा ' इत्यनुव्याख्यानानुसारेण समाख्यायाः स्थानानन्तर्यमेव ग्रा-
ह्यम्, न त्वत्रोक्तक्रमानुसारेण वाक्याद्यपेक्षया प्राथम्यम् । अत्रोक्तक्र-
मस्याविवक्षितत्वात् । उक्तं हि प्रमाणलक्षणटीकायां—समाख्यादित्वे-
न ग्रहणं 'श्रुतिर्लिङ्गं समाख्या च ' इत्यविवक्षितक्रमं वाक्यमनुसृत्ये-
ति । अत एव जैमिनिः—'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां स-
मवाये पारदौर्बल्यमर्थविप्रकर्षात्' इति स्मृत्युक्तादन्यथाक्रममाह—पू-
र्वपूर्वमिति । पूर्वोद्दिष्टमित्यर्थः । एकत्र समवेतं विरुद्धमिति च शेषः ।
' बलीयः ' अतिशयेन स्वभावतो बलवत् यथाऽत्रैवाधिकरणे अनन्त-
रोद्दिष्टलिङ्गापेक्षया पूर्वोद्दिष्टा वामनश्रुतिः स्वतः प्रबला । वाक्या-
पेक्षया प्रबलं लिङ्गम् । यथा—दहराधिकरणे दहराकाशस्य साक्षात्स-
र्वाधारत्वप्रापकात् ' किं तदत्र विद्यते.. उभे अस्मिन् द्यावापृथिवी '
(छां. ८-१-२, ३.) इति वाक्यात्प्रबलं विष्णोस्तत्प्रापकापहतपाप्मत्वादि-
कं लिङ्गम् । प्रकरणापेक्षया प्रबलं वाक्यम् । यथा—'ज्योतिर्दर्शनात्'
इत्यधिकरणे जीवस्य 'हृद्यन्तर्ज्योतिः' (बृ. ६-३-७.) इतिवाक्यबोध्य-
ज्योतिष्ट्वसाधकाज्जीवप्रकरणात्प्रबलं विष्णोर्ज्योतिष्ट्वप्रापकं 'कतम आ-
त्मा' (बृ. ६-३-७.) इति प्रश्नवाक्यम् । स्थानापेक्षया प्रबलं प्रकरणम् ।
यथा—समग्रोपनिषद ईश्वरपरत्वसाधकात् षट्प्रश्नरूपस्थानात् प्रबलं
'आत्मन एष प्राणो जायते' (प्रश्न. ३-३.) इत्येतत्खण्डरूपं मुख्यप्राणप्र-
करणम् । अत एवात्राधिकरणे षट्प्रश्नोक्तप्राणव्यवस्थापकत्वादीनां
मुख्यप्राणलिङ्गत्वमुपेत्य श्रुत्या बाध उक्तः । समाख्यापेक्षया प्रबलं स्था-
नम् । यथा—अन्नमयादिशब्दानां कोशपरत्वसाधकात् 'अन्नमयप्राणम-
यमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम् ' ( याज्ञिकी. ६६. ) इति
नारायणातुवाक'समाख्यायाः प्रबलं तेषां विष्णुत्वसाधकं ब्रह्मपरानेक-
प्रकरणसन्दर्भंरूपं स्थानम् । एतान्येव श्रुत्यादिनाऽर्थनिर्णयस्थलानि ।
आद्यया समाख्यया निर्णेतव्यं यथा—पुरुषसूक्तसमाख्यया वैश्वानर-
स्य विष्णुत्वम् । द्वितीयया यथा—अंभृणीसूक्तसमाख्यया विश्वकर्म-
सूक्तोक्तस्याजस्य विष्णुत्वम् । अस्त्वेवं ततः किमित्यत आह—एव-
मिति । विरुद्धैस्तेषां समवाये सति प्रबलेन पूर्वेणोत्तरबाधे च सति
३७
२९० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
( ५ ) तच्च लिङ्गं विष्णोरेव । तस्यैव प्राणत्वोक्तेः ‘तद्वै त्वं
प्राणो अभवः’ इति ॥ २४ ॥
‘आगमनिर्णयः’ आगमार्थस्य विप्रतिपन्नस्यैतैः निर्णयो भवतीत्यर्थः ॥
( ५ ) नन्वस्तु श्रुतेः स्वभावतः प्राबल्यम् । तथापि बाहुल्येन पूर्व-
पक्ष्युक्तलिङ्गानामपि प्राबल्यात्साम्येनानिर्णय एवेत्यत आह—तच्चेति॥
चस्त्वर्थः । लिङ्गमिति समुदायैकवचनम् । तथा च ‘तत्’ पूर्ववाद्युक्तं
लिङ्गजातं तु विष्णोरेव युक्तम्, न वायोरित्यर्थः । तथा च बाहुल्येऽपि
लिङ्गानां सावकाशत्वात्तेभ्यः श्रुतेरेकस्या अपि निरवकाशायाः प्राब-
ल्यान्निर्णय इति भावः। ननु न लिङ्गं विष्णौ सावकाशं, पूर्वपक्ष्यु-
दाहृतसमाख्यारूपश्रुत्यन्तरेण तस्य प्राणनिष्ठतयैवोक्तत्वादित्यत
आह—तस्यैवेति । ‘तद्वै त्वम्’ इति श्रुतौ ‘तस्य’ विष्णोः प्राण-
त्वस्य प्राणशब्दवाच्यत्वस्योक्तेरुक्तत्वादित्यर्थः । एवं ‘अत एव’ इत्य-
त्राध्यात्मिकाशेषशब्दस्य समन्वयं ब्रुवता तथा—‘शास्त्रदृष्ट्या’ इ-
त्यत्रान्तर्यामिपरत्वं ब्रुवता सूत्रकारेणेतरव्यावृत्त्या तस्यैव प्राणत्वोक्तेः
साधितत्वादित्यपि व्याख्येयमेतत् । तथा च श्रुत्यन्तरे प्राणनिष्ठतया
लिङ्गस्योक्तावपि न तद्विरोधः । तस्य प्राणस्य विष्णुत्वाभ्युपगमादि-
ति भावः । ननु तथापि ‘कुविदङ्ग’ इति ऋचि वायुनिष्ठतया लिङ्गो-
क्तेस्तद्विरोध इत्यस्यापीदमेवोत्तरम् । अस्मिन् पक्षे प्राणत्वमिति वा-
युत्वमुपलक्ष्यते । तथा चान्तर्नये आधिदैविकाशेषशब्दसमन्वयं ब्रुव-
ता सूत्रकारेण ‘तस्यैव’ विष्णोरेव ‘प्राणत्वोक्तेः’ वायुशब्दवाच्यत्व-
रूपवायुत्वस्योक्तत्वादित्यर्थः । तथा च न तद्विरोधोपीति भावः । न
च सिद्धान्तेऽपि स्थानापेक्षया प्रबलात्प्रकरणात् ‘एवमेवैषः’ इतिश्रु-
त्यन्तरगतप्राणशब्दस्य, तथा ‘योऽयं मध्यमः’ (बृ. ३-५-२१०) इत्यत्र-
त्यस्य, तथा ‘कुविदङ्ग’ इति मन्त्रस्थवायुशब्दस्य मुख्यवायुपरत्वं,
तत्रोक्तलिङ्गानामपि तत्परत्वमुपेत्य तेषां श्रुत्या बाधस्योक्तत्वात् कथं
श्रुत्यन्तरस्थप्राणवायुशब्दयोः विष्णुपरत्वाङ्गीकारेण समाधानम् । अ-
त एव चन्द्रिकायाम्—मध्यशब्दोऽपि ‘ऊर्ध्वं प्राणम्’ (कठ. ५-
३.) इति प्राणस्य स्थानान्तरनिर्देशात्त्यागेन मध्यमस्थानस्थ-
ब्रह्मपरः, न तु श्रुत्यन्तरे मध्यमशब्दोक्तप्राणपर इत्युक्तम् । अतः
‘एवमेवैषः’ ( प्रश्न. ३-४.) इति वाक्यं स्थानात्प्रकरणस्य प्रा-
बल्ये उदाहृतमिति वाच्यम् । उक्तरीत्या मुख्यतः श्रुत्यन्तरगतप्रा-
[ अधि - ७. सू - २५. ] दीपिकासहितम्. २९१
( ६ ) सू- ॐ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ ॐ ॥ २५ ॥
णशब्दादेर्ब्रह्मपरत्वेन लिङ्गानां तत्तदन्तर्यामिनिष्ठत्वेऽपि समाकर्षन्याये
नान्यपरत्वस्याप्यङ्गीकारात् । श्रुत्यन्तरोक्तलिङ्गानामन्यनिष्ठत्वेऽपि वा
ऽनुपपत्तिः । न चैवं काठकोक्तलिङ्गानामप्यन्यनिष्ठत्वापत्त्या अन्ये-
षामीशानत्वाद्यापत्तिः । निरवकाशश्रुत्या काठकोक्तलिङ्गानां विष्णु-
निष्ठातन्निर्णयोपपत्तेः । ननु तथापि कथमीशानो विष्णुर्भवेच्छ्रुतौ
शानस्याङ्गुष्ठपरिमितत्वोक्तेः । सर्वगते च हरौ तदयोगात् । न च व्यो-
मवत्सर्वगतस्याप्यङ्गुष्ठं युज्यत इति प्रतिपादितमिति वाच्यम् । तथा
ऽपि 'अङ्गुष्ठमात्रः' इति तन्मात्रपरिमाणत्वोक्तेरयोगात् । न च
२९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
सर्वगतस्यापि तस्याङ्गुष्ठमात्रत्वं हृद्यवकाशापेक्षया
युज्यते ।
ति भेदः । अत्र टीकायां हृद्यवकाशापेक्षयेति भाष्यं सावधारणं कृत्वा
सौवतुशब्दोऽवधारणतया व्याख्यातः । तेन विष्णोरङ्गुष्ठमात्रत्वं हृद्य
पेक्षयैव, न तु लोकवत्परिच्छिन्नत्वादित्युक्तं भवति । तत्तत्स्थानिषु व्य
क्तमूर्तिविशेषापेक्षया वा उपचारेण वा तत्तत्परिमाणत्वोक्त्या 'य
स्त्वेतमेव प्रादेशमात्रम्' (छां. ५-१८-१.) इति छान्दोग्ये 'प्रादेशमात्रं
पुरुषम्' इत्यन्यत्र 'प्रादेशः पुरुषोत्तमः' इत्यपरत्र च हृद्गतस्य विष्णोः
प्रादेशपरिमितत्वोक्तेः । 'अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः' (महा
ना. १६-३.) इति श्रुत्यन्तरे 'अङ्गुष्ठमात्रः पुरुषः' इति कठवल्ल्यां च 'अ
ङ्गुष्ठमात्रः पुरुषः' इत्यपरत्र चाङ्गुष्ठपरिमितत्वोक्तेः 'अङ्गुष्ठाग्रप्रमाण
कः' इति क्वचिदङ्गुष्ठाग्रप्रमाणकत्वोक्तेर्विरोध इति चोद्यं परिहृतं भ
वति । देहे हृदयाकाशे प्रादेशपरिमितरूपविशेषस्य हृदयगतकमलक
र्णिकामूलगताकाशेऽङ्गुष्ठाग्रप्रमाणकरूपान्तरस्य कर्णिकाग्रगताकाशे
चाङ्गुष्ठपरिमितरूपान्तरस्य च व्यक्तिसम्भवात्, तत्तत्स्थानधर्मस्य
स्थानिन्युपचरितत्वसम्भवाच्च । यथोक्तं बृहदारण्यकभाष्ये—
हृदये सर्वशो व्यापी प्रादेशः पुरुषोत्तमः ।
जीवानां स्थानमुद्दिष्टः सर्वदेवसनातनः ॥
हृत्कर्णिकामूलगतः सोऽङ्गुष्ठाग्रप्रमाणकः ।
मूलेश इति नामास्मिन् सर्वे जीवाः प्रतिष्ठिताः ॥
अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ ।
प्रविशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा ॥
इति । अस्मिन् मूलेशव्यापिनोर्मध्येऽङ्गुष्ठमात्रत्वं च देहे देहा
ङ्गुष्ठमितत्वं जीवहृदि जीवाङ्गुष्ठमितत्वमिति विवेक्तव्यम् । अत्र 'अङ्गु
ष्ठं च समाश्रितः' इत्यनेन कर्मेन्द्रियाधिष्ठितत्वमुच्यत इति प्रमेयदी
पोक्तमपि ज्ञातव्यम् । ननु 'दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैज
सः' इत्यादिवचनाज्जाग्रदाद्यवस्थाप्रेरकविश्वतैजसप्राज्ञानां दक्षिणा
क्ष्यादिषु सत्त्वं तावत्सिद्धम् । यदि चैवं तदा जीवोऽपि जाग्रदवस्था
यां दक्षिणाक्षिस्थः स्वप्ने कण्ठदेशस्थः सुप्तौ हृदयस्थो भवति, 'हृद
यस्थात्पराञ्जीवो दूरस्थो जाग्रदेष्यति' इत्युक्तेः । दूरस्थोऽक्षिस्थो
जाग्रज्जाग्रत्त्वमिति तस्यार्थः । तथा च कथं हृदयव्याप्तप्रादेशपरिमित
[ अधि - ७. सू - २५. ] दीपिकासहितम्. २९३
(७) इतरप्राणिनामङ्गुष्ठाभावेऽपि मनुष्याधिकारत्वान्न
भगवद्रूपस्य सर्वदा जीवस्थानत्वम् ? कथं च हृत्कर्णिकामूलगतभग-
वद्रूपे सदा प्रतिष्ठितो जीवः? सुप्तौ हृत्कर्णिकाग्रगते हरौ प्रविशतीत्यु-
क्तिरिति चेत्—न, यतस्सर्वदा हृदि स्थितमेव जीवस्वरूपं जागरि-
ताद्यवस्थादिष्वपि विशेषसन्निहितं दीपप्रकाशवदित्यङ्गीकृतम् । य-
थोक्तमैतरेयभाष्ये-हृदि स्थितमेव तस्य रूपं जागरितेऽप्यक्ष्यादिषु
विशेषसन्निहितं भवतीति । एकस्यैव जीवस्य स्थापनधृत्याख्यप्रति-
ष्ठापनसुप्तिप्रापणाख्यप्रयोजनभेदादेकदेहे अनेकधा स्थितानां भगव-
न्मूर्तीनां शक्त्या सर्वगानामपि तत्र तत्र व्यक्तात्मना अनेकाल्पपरि-
माणवत्त्वं च युज्यत इति न काचिदनुपपत्तिः ॥
(७) ननु तथाऽपि नाङ्गुष्ठपरिमाणवत्त्वं विष्णोर्युक्तम् । तथा हि
किं तत्तदङ्गुष्ठमात्रत्वं वा यत्किंचिदङ्गुष्ठमात्रत्वं वा । नाद्यः, पश्वादी-
नामङ्गुष्ठाभावेन तदन्तर्गतस्य विष्णोरङ्गुष्ठपरिमितत्वायोगात् । न द्वि-
तीयः, अङ्गुष्ठमात्रत्वोक्तेस्तैस्तैस्तथोपासनार्थत्वेन तस्य चाङ्गुष्ठव्यक्ति-
विशेषनिर्धारणं विनाऽयोगेन यत्किंचिदङ्गुष्ठमात्रत्वोक्तेर्व्यर्थत्वात् । पि-
पीलिकादिहृदयस्थेऽङ्गुष्ठमात्रत्वसामान्यस्याप्यसम्भवाच्चेत्याशङ्कां परि-
हरन् ‘मनुष्याधिकारत्वात्’ इतिसूत्रशेषं तुशब्दस्य काकाक्षिन्यायेन
अत्राप्यन्वयं तस्याप्यर्थत्वं च अभिप्रेत्य तत्सम्बन्धिप्रदर्शनपूर्वकं व्या-
चष्टे—इतरेति ॥ पश्वादीनामित्यर्थः । अपिरावर्तते । अङ्गुष्ठमात्रत्वमि-
त्येतत् विपरिणामेनानुवर्तते । ‘न विरोधः’ इति विरोधसूत्रादाकृष्टे
पदे । तथा च ‘अपि’ तत्तदङ्गुष्ठपरिमितत्वाङ्गीकारेपीतरप्राणिनामङ्गु-
ष्ठाभावेऽपि न विष्णोरङ्गुष्ठमात्रत्वस्य विरोधेनाङ्गुष्ठमात्रत्वोक्तेरसम्भ-
वः । कुतः? अङ्गुष्ठमात्रत्वोक्तेरेतद्विद्याया ‘मनुष्याधिकारत्वात्’ मनु-
ष्यानधिकृत्य प्रवृत्तत्वात् । तदपि कुतः ? वेदविद्योपासनस्य ‘मनुष्या-
धिकारत्वात्’ मनुष्यमात्राधिकारत्वादिति योजना । सूत्रे भाष्ये च
मनुष्याणामधिकारो यस्मिन् अथवा—अधिक्रियतेऽत्रेत्यधिकार उपा-
सनं शास्त्रं वा, मनुष्याणामेव अधिकारो मनुष्याधिकारस्तस्य भाव-
स्तस्मादिति विग्रहः । ‘मनुष्याधिकारित्वात्’ इतिपाठे मनुष्या अ-
धिकारिणो यस्मिन् तत्तथोक्तम् । तथा च मनुष्याधिकारिकत्वादि-
त्यर्थः । मनुष्यपदं च वक्ष्यमाणन्यायेन मननादिशीलचेतनपरम् । ते-
न देवानां जरितार्यादीनां वक्ष्यमाणन्यायेन वेदविद्याधिकारिणामेत-
२९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
विरोधः ॥ २५ ॥
८. अधिकरणम् ॥
( १ ) मनुष्याणामेव वेदविद्याधिकार इत्युक्तम् ।
द्वियाधिकारसिद्धिः । तन्न जरितार्यादीनां स्वस्वाङ्गुष्ठपरिमितत्वेन भ-
गवदुपासनाऽसम्भवात्, तेषामेतद्विद्योत्पन्नवाक्यार्थज्ञान एवाधिकारो,
नोपास्तावपि । अत एव टीकायां मनुष्याणामेव वेदविद्योपासना-
धिकारित्वेनेति मनुष्यत्वं व्यापकत्वेनोक्तम् । न चानधिकारिणां प-
श्वादीनां देहस्थितस्य भगवतोऽङ्गुष्ठपरिमितत्वाभावे परिमाणान्तरानु-
क्तेरद्रव्यत्वापत्तिरिति वाच्यम् । पश्वादिदेहगतस्य परमात्मनः तत्त-
दाकारयुक्तत्वेन तदनुसारिपरिमाणवत्त्वात् । यथोक्तमैतरेयभाष्ये-
सङ्कर्षणश्च प्रद्युम्नस्तदाकारौ नृषु स्थितौ ।
नारायणानिरुद्धौ तु पश्वाकारौ पशुस्थितौ ॥ इति ॥
अनेन—सूत्रे तुशब्दोऽप्यर्थेऽवधारणे च । तत्राप्यर्थस्योभयत्रान्व-
यः । अङ्गुष्ठमात्रत्वं युज्यत इति शेषः । तदिति प्रधानसूत्रादनुवृत्तस्ये-
ह विपरिणामेनान्वयः । न विरोध इत्यस्याकर्षः । 'तस्य मनुष्याधि-
कारित्वात्' इत्यावर्तते । तथा च 'तु' अपि सर्वगतस्यापि 'तस्य
विष्णोरङ्गुष्ठमात्रत्वं' तदुक्तिर्युज्यते । न च विरोधः । यतोऽत्र 'हृद्य-
पेक्षया तु' हृदयवकाशापेक्षयैव अङ्गुष्ठमात्रत्वमुच्यते, न तु परिच्छिन्न-
त्वात् । तच्च मूर्तिविशेषे तन्मात्रत्वस्य सत्त्वादुपचारेण वा युज्यते ।
न च नाङ्गुष्ठमात्रत्वं विष्णोर्युक्तम्, यत्किञ्चिदङ्गुष्ठमात्रत्वोक्तेर्व्यर्थ-
त्वेनासम्भवेन च तत्तदङ्गुष्ठमात्रत्वे वाच्ये तस्य च पश्वादीनामङ्गुष्ठा-
भावेन तदन्तर्गतविष्णावयोगादिति वाच्यम् । यतः 'तु' अपीतरप्रा-
णिनामङ्गुष्ठाभावेऽपि न विष्णोस्तत्तदङ्गुष्ठमात्रत्वस्य 'विरोधः' अस-
म्भवः । कुतः ? अङ्गुष्ठमात्रत्ववचनस्य तद्बोधकविद्यायाः 'मनुष्याधि-
कारत्वात्' मनुष्यानेवाधिकृत्य प्रवृत्तत्वात् । तदपि कुतः ? 'तस्य'
वेदविद्योपासनस्य 'मनुष्याधिकारत्वात्' मनुष्यमात्रेऽधिकारत्वाद्वि-
ति सूत्रार्थ उक्तो भवति ॥ ७ ॥
इति दामनाधिकरणम् ॥
८. अधिकरणम् ॥
( १ ) अस्मिन्नधिकरणे देवानां ब्रह्मविद्याधिकारः समर्थ्यते । प्रा
[ अधि - ८. सू - २६. ] दीपिकासहितम्. २९५
( २ ) तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणमुक्तं, न तु देवा-
द्यपेक्षयेत्याह—
( ३ ) सू— ॐ ॥ तदुपर्यपि बादरायणः सम्भवात् ॥ ॐ ॥ २६ ॥
साङ्गकत्वान्नाध्यायपादसङ्गतौ मार्गणीये । श्रुत्यादिसङ्गतिविषयसंश-
यतद्बीजानि दर्शयति— मनुष्याणामिति ॥ ‘ उक्तं ’ पूर्वसूत्रे । तुशब्दा-
र्थावधारणस्य समासप्रविष्टमनुष्यपदेनापि सम्बन्धोऽस्तीति भावेन
मनुष्याणामेवेत्यनुवादः । नैतरेषामित्येवशब्दार्थः । ‘ वेदविद्याधिका-
रो ’ वेदविद्योपासनाधिकारः । अनेन—देवाधिकाराभावमुखेन ‘ वि-
श्वे देवा उपासते ’ इत्यादिपूर्वोदाहृतश्रुत्युपलक्षिताशेषश्रुतिप्रामाण्य-
स्याक्षेपात्पूर्वाधिकरणेनास्याक्षेपिकी सङ्गतिः वेदविद्याधिकाराख्यो
विषयश्चोक्तो भवति । ‘
२९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
तदुपरि मनुष्याणां सतां देवादित्वप्राप्त्युपरि । सम्भ-
वति हि तेषां विशिष्टबुद्ध्यादिभावात् ।
(४) तिर्यगादीनां तदभावादभावः । तेषामपि यत्र विशि-
ष्येतदेवावृत्त्य हेतुतया योजयति—विशिष्टेति । तेषामित्यत्राप्यन्वीयते ।
तथा च 'तेषां' योग्यमनुष्याणां विद्याकर्मभ्यां देवादित्वप्राप्तिमतां
'सम्भवात्' विशिष्टबुद्ध्यादिभावादर्थग्रहणानुष्ठानोपयुक्तबुद्धिविशे-
षादिसद्भावादित्यर्थः । अर्थित्वसामर्थ्ये आदिपदेन ग्राह्ये । न चार्थि-
त्वाभावः इत्यत्रापि तेषां सम्भवति हीत्येव हेतुः। विद्याभिस्तेषां मोक्ष-
सिद्धिः सम्भवति हीति तदर्थः। अनेन—सूत्रे तदित्यावर्तते । मनुष्य-
परामर्श चेदं बुद्धिस्थपरामर्शी च । अपिः समुच्चये । अधिकार इति
बुद्ध्या विविच्यत्रान्वेति। अनधिकाराधिकाराभिधायकजैमिनिबादरा-
यणोक्तिरूपविप्रतिपत्तिसूचनाय बादरायणपदम् । तत्त्वप्रदीपरीत्या
तात्पर्यज्ञापनाथंमधिकाराधिक्यज्ञप्तिदार्थ्यार्थं च बादरायणः स्वयमे-
व वक्तीत्याहोति वा । सम्भवादिति चावर्तते । तथा च यतो न केव-
लं देवादिपदयोग्यजीवानां पदप्राप्तेः पूर्वे भूमौ किंचित्कालं मनुष्या-
णां सतां तस्यां दशायामेव अधिकारः, किन्तु 'तदुपर्यपि' तस्मान्म-
नुष्यत्वादुपरि तदत्ययेन ताभ्यां विद्याकर्मभ्यां तस्याः देवादित्वप्राप्ते-
रुपरितनकालेऽपि देवभावमापन्नानामपि वेदविद्यायामधिकारोऽस्त्ये-
व । न च तत्कारणाभावः । 'सम्भवात्' अधिकारोपयोगिनो विशिष्ट-
बुद्ध्यादेस्तेषु सम्भवात् । न च देवादीनां विशिष्टबुद्धिसामर्थ्यसद्भावे-
ऽप्यर्थित्वाभावादधिकाराभाव इति वाच्यम् । कुतः ? 'सम्भवात्' वि-
द्यासाध्यज्ञानमोक्षयोरर्थित्वसम्भवादिति भगवान् बादरायणो मन्यत
इति सूत्रार्थ उक्तो भवति ॥
(४) ननु न देवा वेदविद्याधिकारिणः, तथा सति सूत्रेऽमनुष्य-
मात्रव्यावर्तकमनुष्यपदप्रयोगेन तिर्यगादिवदमनुष्यत्वान्न देवा वेद-
विद्याधिकारिण इत्यनुमानसूत्रासद्विरोधापत्तेरित्यत आह—तिर्य-
गादीनामिति ॥ आदिपदेन स्थावराणि मूढमनुष्या वा गृह्यन्ते । 'तद्-
भावात्' विशिष्टबुद्ध्यादेरभावात् 'अभावः' तस्य वेदविद्याधिकारस्य।
अनेनाधिकाराभावे विशिष्टबुद्ध्यादिराहित्यस्य प्रयोजकत्वोक्त्या परो-
क्तामनुष्यत्वहेतोः सोपाधिकत्वं साध्यव्यतिरेकसाधकोपाधिव्यतिरे-
कास्यप्रतिपक्षग्रस्तत्वं चोक्तं भवति । सौत्रमनुष्यपदं च मननादिशी-
[अधि - ८. सू - २६.] दीपिका सहितम्. २९७
ष्टबुद्ध्यादिभावस्तत्राविरोधः ।
(५) निषेधाभावात् । दृश्यन्ते हि जरितार्यादयः ॥ २६ ॥
लपरं सत् विशिष्टबुद्ध्यादिरहितमेव चेतनं व्यावर्तयति, न तु मर्त्य-
भिन्नमात्रमिति न तद्विरोध इति भावः । ननु न विशिष्टबुद्ध्यादिराहि-
त्यमुपाधिः । तिर्यक्षु अधिकाराभावरूपसाध्याव्यापकत्वात् । अत ए-
व न तद्भावोऽपि साध्यव्यतिरेकहेतुरित्यत आह-तेषामपीति । अपि-
रुभयत्रान्वेति । तत्राद्यस्समुच्चये । अधिकार इति शेषः । तथा च न
केवलं देवानां, किन्तु 'तेषां' तिरश्चामप्यधिकारेऽपि न विरोधः । न
नु कथमविरोधस्तिर्यक्षु सर्वत्र वेदाधिकारे मानविरोधापातादित्यत
आह—तेषामपीति । 'तिरश्चां मध्येऽपीत्यर्थः । 'यत्र' येषु विशिष्टबु-
द्ध्यर्थित्वाख्यरागादि
२९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
(६) सू-ॐ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्श-
नात् ॥ ॐ ॥ २७ ॥
मनुष्या एव देवादयो भवन्तीति तदुपरीत्युक्तम् । त
त्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देव
ताभावाद्देवतोद्दिष्टकर्मणि विरोध इति चेत्—
तार्यादय इत्येव पाठो युक्तः, न तु जरितार्यादय इति ह्रस्वयुक्तपाठः, भा-
रतविरोधात्, तत्त्वप्रदीपविरोधाच्चेति ध्येयम् । दृश्यन्ते हीत्यनेन—दे-
वा वेदविद्याधिकारिणः निषेधराहित्ये सति विशिष्टबुद्ध्यादिमत्त्वात्,
तादृशमर्त्यवदिति सिद्धान्त्यभिमतानुमाने मनुष्यत्वोपाधिर्निरस्तो भ-
वति । जरितार्या आदिशब्दगृहीतसारङ्गकादौ च साध्याव्यापक-
त्वात् ॥
(६) देवानां वेदविद्याधिकारसिद्धयर्थं तदुपरीत्यनेनोक्तं सादित्व-
माक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपांशं तावद्व्याचष्टे-विरोध इति ॥
मनुष्या एवेति । देवादिपदयोग्या जीवाः पूर्वं भूमौ किंचित्कालं मनु-
ष्याः सन्त एव अथ देवादयो भवन्तीत्यर्थः । न तु मनुष्यभावं विनेत्ये-
वशब्दार्थः । इत्युक्तमिति । अत्रोक्तमिति । उक्तमित्यनन्तरं तद्युक्त-
मिति शेषः । कुत इत्यतस्तत्पक्षे बाधकोक्तिपरं विरोध इत्यंशं सहेतु-
कं व्याचष्टे—तत्र यदीति । यदीत्यारभ्य भवन्तीत्यन्तं पूर्ववाक्यार्था-
नुवादस्तस्यापादकत्वप्रदर्शनार्थः । तत्रेत्यव्ययं तर्हीत्यर्थकं भवन्तीत्य-
तः परं योज्यम् । यद्वा—मनुष्या एव देवादयो भवन्तीत्युक्त्या प्राप्ता-
भेदशङ्कां वारयितुं मनुष्या एवेत्यादिस्वपदानि वर्णयति—तत्रेति । य-
द्वा—तत्र देवतोद्दिष्टकर्मणीति समानाधिकरण्यम् । अत्र पक्षे यदी-
ति श्रवणात्तर्हीति लभ्यते । भवन्तीत्यनन्तरमित्युक्तमित्यस्ति । उभय-
त्रादिपदेनोपदेवादयो गृह्यन्ते । कर्मपदं शब्दस्याप्युपलक्षकम् । तथा
च यदि पूर्वं मनुष्याः सन्तोऽप्यथ देवादयो भवन्तीत्युक्तमित्युच्यते,
तर्हि 'तत्पूर्वं' तेभ्यः पूर्वं तेषां देवादिपदप्राप्तेः पूर्वं साधकत्वावस्था-
यां 'देवताभावात्' देवताया असत्त्वात् येन कर्मणा देवादित्वं सा-
ध्यमित्युक्तम्, 'तत्र' तस्मिन्नेव 'देवतोद्दिष्टकर्मणि' पूर्वकल्पे देवतो-
द्देशेन प्रवृत्तकर्मणि देवतावाचकशब्दे च 'विरोधः' तयोर्वैयर्थ्यमिति
योजना । उद्देश्याभावाद्वाच्याभावाच्चेति भावः ॥
[ अधि - ८. सू - २७. ] दीपिकासहितम्. २९९
(७) न, अनेकेषां देवतापदप्राप्तेर्दर्शनात् । 'ते ह नाकं म-
हिमानस्सचन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः' इति ॥२७॥
(७) परिहारांशं व्याचष्टे—नेति ॥ इदं चावर्तते । योजना तु—
न कर्मणि विरोधः, कुतः? यतो न पूर्वं देवताभाव इति । तेषां प्रवाह-
तोऽनादित्वेनैतद्देवानां पूर्वमभावेऽपि देवतान्तरसद्भावादिति भावः ।
न च तत्र प्रमाणाभाव इत्यतः प्राप्तमनेकेत्यंशं प्रतिपत्तिशब्दस्य ज्ञाना-
र्थत्वभ्रमं वारयन् तत्सम्बन्धिप्रदर्शनपूर्वकं व्याचष्टे-अनेकेषामिति । 'ते
हनाकम्' (तै.आ.३-१२.) इति श्रुतौ 'अनेकेषाम्' एकैकगणशोऽनन्तानां
देवत्वादियोग्यमनुष्याणां विद्याकर्मभ्यां पूर्वपूर्वदेवतापदप्राप्तेर्दर्शना-
दित्यर्थः। अनेन-तदुपरीत्यत्रोक्तं देवानां सादित्वमयुक्तं, तथा सति येन
कर्मणा देवादित्वं साध्यमित्युक्तम्, तत्र कर्मणि शब्दे च विरोधस्तस्य
वैयर्थ्यं स्यात् तत्पूर्वे देवताभावादिति चेत्—न, यतो न पूर्वे देवताऽ
भावः । तत्कथम्? एतद्देवानां पूर्वमभावेऽपि देवान्तरसद्भावात् । न
च तत्र मानाभावः । 'अनेकप्रतिपत्तेर्दर्शनात्' अनेकेषां योग्यमनुष्या-
णां पूर्वपूर्वपदप्राप्तेः 'तेह नाकम्' इत्यत्रोक्तत्वादिति सूत्रार्थ उक्तो
भवति । श्रुतौ 'यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्या-
सन्' इति पूर्ववाक्ये प्रकृताः देवास्तच्छब्देन गृह्यन्ते । हशब्दः पुनर-
र्थे प्रसिद्धौ वा । तथा च ये 'देवाः' देवत्वयोग्याः मनुष्या ज्ञानक-
र्मात्मकेन 'यज्ञेन' 'यज्ञं' विष्णुं 'अयजन्त' अपूजयन् । ततस्तेन
ज्ञानपूर्वककर्मणा देवपदं प्राप्य 'प्रथमानि' प्रथमाः मुख्याः 'धर्मा-
णि' धर्माः लोकधारका आसन् । 'महिमानः' महात्मानः महिमगु-
णात्मका वा । 'ते' देवाः 'ह' पुनः अनन्तरं स्वाधिकारावसाने 'ना-
कं' कं सुखं तदन्यत् दुःखमर्क, तन्नेति नाकं, नञ्द्वयेन पूर्णसुखात्म-
कमिति लभ्यते । एवंभूतं मोक्षं 'सचन्ते' आप्नुवन् । लडर्थे लट्।
लङ्वा, एत्वाडभावौ छान्दसौ । 'यत्र' मोक्षे 'पूर्वे' पूर्वकल्पे मु-
क्ताः 'साध्याः' बहुवचनमाद्यर्थे ।
ऋजवो ब्रह्ममुख्या हि सुपर्णश्शेष एव च ।
सरस्वती सुपर्णी च वारुणी साध्यनामकाः ॥
इत्युक्ताः साध्यादयो देवाः सन्तीति श्रुत्यर्थः । न च वसुरुद्रादित्य-
मरुत्साध्येषु वसूनामादित्वात् टीकायां वस्वादिदेवा इति वक्तव्यम्,
न तु साध्यादीति । अत एव तत्त्वप्रदीपे 'पूर्वे साध्याः वस्वादयो दे-