पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 343, कुल 1267 में से
संदर्भ में पढ़ें२९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ३. ]
तदुपरि मनुष्याणां सतां देवादित्वप्राप्त्युपरि । सम्भ-
वति हि तेषां विशिष्टबुद्ध्यादिभावात् ।
(४) तिर्यगादीनां तदभावादभावः । तेषामपि यत्र विशि-
ष्येतदेवावृत्त्य हेतुतया योजयति—विशिष्टेति । तेषामित्यत्राप्यन्वीयते ।
तथा च 'तेषां' योग्यमनुष्याणां विद्याकर्मभ्यां देवादित्वप्राप्तिमतां
'सम्भवात्' विशिष्टबुद्ध्यादिभावादर्थग्रहणानुष्ठानोपयुक्तबुद्धिविशे-
षादिसद्भावादित्यर्थः । अर्थित्वसामर्थ्ये आदिपदेन ग्राह्ये । न चार्थि-
त्वाभावः इत्यत्रापि तेषां सम्भवति हीत्येव हेतुः। विद्याभिस्तेषां मोक्ष-
सिद्धिः सम्भवति हीति तदर्थः। अनेन—सूत्रे तदित्यावर्तते । मनुष्य-
परामर्श चेदं बुद्धिस्थपरामर्शी च । अपिः समुच्चये । अधिकार इति
बुद्ध्या विविच्यत्रान्वेति। अनधिकाराधिकाराभिधायकजैमिनिबादरा-
यणोक्तिरूपविप्रतिपत्तिसूचनाय बादरायणपदम् । तत्त्वप्रदीपरीत्या
तात्पर्यज्ञापनाथंमधिकाराधिक्यज्ञप्तिदार्थ्यार्थं च बादरायणः स्वयमे-
व वक्तीत्याहोति वा । सम्भवादिति चावर्तते । तथा च यतो न केव-
लं देवादिपदयोग्यजीवानां पदप्राप्तेः पूर्वे भूमौ किंचित्कालं मनुष्या-
णां सतां तस्यां दशायामेव अधिकारः, किन्तु 'तदुपर्यपि' तस्मान्म-
नुष्यत्वादुपरि तदत्ययेन ताभ्यां विद्याकर्मभ्यां तस्याः देवादित्वप्राप्ते-
रुपरितनकालेऽपि देवभावमापन्नानामपि वेदविद्यायामधिकारोऽस्त्ये-
व । न च तत्कारणाभावः । 'सम्भवात्' अधिकारोपयोगिनो विशिष्ट-
बुद्ध्यादेस्तेषु सम्भवात् । न च देवादीनां विशिष्टबुद्धिसामर्थ्यसद्भावे-
ऽप्यर्थित्वाभावादधिकाराभाव इति वाच्यम् । कुतः ? 'सम्भवात्' वि-
द्यासाध्यज्ञानमोक्षयोरर्थित्वसम्भवादिति भगवान् बादरायणो मन्यत
इति सूत्रार्थ उक्तो भवति ॥
(४) ननु न देवा वेदविद्याधिकारिणः, तथा सति सूत्रेऽमनुष्य-
मात्रव्यावर्तकमनुष्यपदप्रयोगेन तिर्यगादिवदमनुष्यत्वान्न देवा वेद-
विद्याधिकारिण इत्यनुमानसूत्रासद्विरोधापत्तेरित्यत आह—तिर्य-
गादीनामिति ॥ आदिपदेन स्थावराणि मूढमनुष्या वा गृह्यन्ते । 'तद्-
भावात्' विशिष्टबुद्ध्यादेरभावात् 'अभावः' तस्य वेदविद्याधिकारस्य।
अनेनाधिकाराभावे विशिष्टबुद्ध्यादिराहित्यस्य प्रयोजकत्वोक्त्या परो-
क्तामनुष्यत्वहेतोः सोपाधिकत्वं साध्यव्यतिरेकसाधकोपाधिव्यतिरे-
कास्यप्रतिपक्षग्रस्तत्वं चोक्तं भवति । सौत्रमनुष्यपदं च मननादिशी-