पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 324, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - २१. ] दीपिकासहितम्. २७७
'दहरः' (छा. ८-१-१.) इत्यल्पश्रुतेर्नेति चेत् -
(२६) न, 'निचाय्यत्वादेवं व्योमवच्च' इत्युक्तत्वात् ।
(२७) 'एष म आत्माऽन्तर्हृदये ज्यायान्' (छा. ३-१४-३.)
चाल्पस्थानस्थितिपरम् । श्रुतेरित्यनन्तरमसम्भवादित्यनुवर्तते । अ-
स्मिन्निति चास्ति । तथा च 'दहरः' इति वाक्ये 'अस्मिन्' दहरग-
ते वस्तुन्यल्पस्थानस्थितिरूपलिङ्गश्रुतेस्तस्याश्चास्मिन्परमात्मनि 'अ-
सम्भवात्' अनुपपत्तेरित्यन्वयः । अस्माद्धेतोर्न दहरे विष्णुः, किन्तु
स जीव एवेतीतरसूत्रानुवृत्तप्रतिज्ञयाऽन्वयः ॥
(२६) सूत्रेऽनुवृत्तनञ् आवृत्तिमभिप्रेत्य परिहारांशं व्याख्याति - ने-
ति ॥ नाल्पस्थानस्थितिश्रवणं विष्णावनुपपन्नमित्यर्थः । कुतो नेत्यतः
प्रवृत्तं तदुक्तमित्यंशं यत इत्यध्याहाराभिप्रायेण हेतुतया व्याख्याति -
निचाय्यत्वादिति । अत्रापीति शेषः । तथा च 'निचाय्यत्वात्' इत्यत्र
सर्वगतस्यापि विष्णोर्व्योमवदल्पस्थानस्थितेरुक्तत्वादित्यर्थः ॥
(२७) ननु युक्तं व्योम्नोऽंशतोऽल्पौकस्त्वं, अंशस्यापूर्णत्वात् । ब्रह्म-
णि तु अंशोऽपि पूर्ण इति कथं तस्यांशतोऽल्पौकस्त्वमित्यतः सूत्रशेषं
प्रकारान्तरेण व्याचष्टे - एष म इति ॥ चशब्दो युक्तिसमुच्चये । सूत्र-
कृच्छ्रुत्युक्तिसमुच्चये वा । 'गुणाः श्रुताः' इति श्रुतिसमुच्चये वा । 'यस्मि-
न्' इति स्मृतिसमुच्चये वा । अनेन 'अल्पश्रुतेः' 'दहरः' इति वाक्ये
सर्वगते वस्तुन्यल्पस्थानस्थितिश्रवणात्, तस्याश्च विष्णावसम्भवाद्
नुपपत्तेर्न दहरे विष्णुः, किन्तु स जीव एवेति चेत् - न, यतः 'तदु-
क्तं' तत्र निचाय्यत्वादिति पूर्वत्र तस्य सर्वगतस्यापि विष्णोर्व्योमव-
त्तदल्पस्थानस्थितत्वम्, तस्मादुपासनार्थं युक्तमित्युक्तम् । न चांशतो-
पिसर्वगततया तत्र तदनुपपत्तिः । यतस्तस्यां 'एष म आत्मा' (छा. ३-
१४-३.) इति छन्दोगश्रुतौ तेन सर्वज्यायस्त्वेन वृद्धतमत्वेन व्याप्तत्वे-
नैव प्रकारेण तस्य विष्णोस्तद्धृदयस्थत्वमुक्तं स्मृत्युक्तं चात इति सू-
त्रार्थ उक्तोभवति । न च श्रुतिस्मृत्युक्तमपि कथमेतदङ्गीकारार्हं, युक्ति-
विरोधादिति वाच्यम् । ब्रह्मणोऽचिन्त्यशक्तित्वादुपपत्तेः । 'गुणाः श्रुताः'
(सौपर्णश्रुतिः) 'यस्मिन्विरुद्धगतयः' इत्यादिवचनाच्च । मम हृदये य
'आत्मा' परमात्माऽस्ति । उपलक्षणमेतत् । सर्वहृदये च य आस्ते 'एषः'
हृदयस्थांशरूपो भगवान् 'ज्यायान्' वृद्धतमः देशकालगुणैः पूर्ण इति