पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 853, कुल 1267 में से
संदर्भ में पढ़ें८०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
( ३ ) पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् ।
ब्रह्मैव प्रतिबिम्बे यत्तस्तेषां फलप्रदम् ॥
तदुपासनं च भवति प्रतिमोपासनं यथा ।
दृश्यते त्वापरोक्ष्येण ज्ञानेनैव परं पदम् ॥
उपासनात्त्वापारोक्ष्यं गमयेत्तत्प्रसादतः ॥
मां प्रति शङ्करवाक्यमेतत् । यद्यपि तलवकारभाष्ये आसेति भिन्नं प
दमुपेत्य नेदं जीवस्वरूपं ब्रह्म, किन्तु यत् 'ते' तव 'उप' समीपे 'आ
स' नियामकतया आस्ते तदेव ब्रह्म विद्धीति श्रुत्यर्थोऽभिहितः । तथा
ऽपि प्रकृतोपयुक्तं व्याख्यानान्तरमेतत् । तत्राप्यासत्त इत्येकपदं ध्येय
विरोधः ॥
( ३ ) ननु ध्यानकाले प्रतीतस्याब्रह्मत्वे कथं ब्रह्म फलदं स्यात् ।
न ह्यन्यस्य ध्यानमन्यस्य फलदातृत्वमिति युज्यते अतिप्रसङ्गादित्यत
आह—पश्यन्तीति ॥ यन्मनसि 'प्रतिबिम्बितं' प्रतिफलितं वासनाम
यं वस्तु तत्परमं ब्रह्मेत्युच्यते । उपचारेण तदाश्रये तद्व्यपदेश इति
भावः । तदेव ध्यानकाले पश्यन्ति । केचित्तु—ध्यानानन्तरं परमं ब्र
ह्यापरोक्ष्येण पश्यन्तीत्यन्वयमाहुः । ननु प्रतिबिम्बितस्याब्रह्मत्वात् त
द्ध्यानं कथं ब्रह्मध्यानफलदं स्यादित्यत आह—ब्रह्मैवेति । यतो न ध्या
नं फलदं, किन्तु प्रतिबिम्बे यद्ब्रह्मास्ति तदेव तेषां ध्यातॄणां दर्शनाख्य
फलप्रदमतो नोक्तदोष इत्यर्थः । यतः प्रतिबिम्बे ब्रह्मास्ति अतस्तेषां
फलप्रदं भवतीत्येव वा । अल्पा अपि पिशाचादयः स्वाकारस्मृतौ
किञ्चित्फलं दद्युः किमुत सर्वज्ञं सर्वशक्तिकं ब्रह्मेति भावेन पुनर्ब्रह्मेत्यु
क्तिः । ननु स्थितिमात्रेण कथं ब्रह्म फलदमध्यातत्वादित्यत आह-तद्वि
ति । प्रतिबिम्बोपासनमित्यध्याहारेण सम्बध्यते । तदुपासनमित्यस्या
वृत्तिर्वा । तथा च यथा 'प्रतिमोपासनं' प्रतिमायामित्थंभूतो भगवा
नस्तीति स्मृतिः तदुपासनं तदधिष्ठितब्रह्मोपासनं भवति, तथा 'तदु
पासनं' प्रतिबिम्बोपासनं वासनामयवस्तुध्यानमपि 'तदुपासनं' ब्रह्मो
पासनं भवतीति योजना ॥ प्रतिबिम्बं ब्रह्मैव कुतः न भवतीत्यत आह-
दृश्यते इति ॥ यतः 'परं पदं' उत्तमं ब्रह्मापरोक्ष्येण । स्वार्थे ष्यञ्-भावत-
द्वतोरभेदोपदेशो वा। अपरोक्षेण ज्ञानेनैव 'दृश्यते' विषयीक्रियते, न तु
ध्यानेनेत्यर्थः । अपरोक्षेणेति पाठः स्वरसः। तर्हि ज्ञानायैव प्रयतितव्यं,