पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 852, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १८. सू - ३७. ] दीपिका सहितम्. ८०९
( २ ) अत आह—
सू--ॐ ॥ तथाऽन्यप्रतिषेधात् ॥ ॐ ॥ ३७ ॥
यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासाकृतादपि ।
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते (केन.१-६०) ।
इति प्रतिषेधात् ।
ब्रह्मणोऽव्यक्तता तस्माद्व्यक्तमेवेति । न च यच्चित्ते प्रदृश्यते न तद्ब्र
ह्मेति वाच्यम् । यतस्तद्ब्रह्मरूपमेव, न ततोऽन्यत् । ननु ध्यानप्रतीतं
न ब्रह्म, तथा सति ध्यातृबहुत्वेन तस्य बहुत्वपत्तेरित्यतोऽप्युक्तं—ब्र
ह्मारूपमिति । रूपशब्दोऽत्र व्यक्तिपरः । समुदायैकवचनमेतत् । तथा
च चित्ते प्रतीतानि ब्रह्मरूपाण्येव अतः स्वरूपभेदाभावेऽपि रूपाणां
नानात्वात् ध्येयबहुत्वोपपत्तिरिति भावः ॥
( २ ) सिद्धान्तयत्तसूत्रमवतार्य व्याचष्टे—अत इति ॥ ब्रह्मेत्येतत्
तदानन्दादेरप्युपलक्षकम् । ‘उपासाकृतात्’ उपासनेन मानसवास
नामयस्य वस्तुनो मनसाऽवलोकनाख्येन विषयीकृताद्वासनामयात् ।
अपिर्भिन्नक्रमः समुच्चयेऽवधारणे च। अत्र यथा जीवानन्दादेः ब्रह्मान
न्दादिकमन्यत् तथा ब्रह्म उपासाकृतात् अन्यदिति नान्वयः। वैषम्ये
णोपमानोपमेयभावायोगात् । किन्तु जीवानन्दादेरित्यतः परं यथाश
ब्दस्यानृत्त्या योजनेन यथा जीवानन्दादेर्यथा येन विकृतत्वापरपर्याया
न्यथात्वाल्पत्वादिना कारणेन ब्रह्मानन्दादि ततः ‘अन्यत्’ वि
लक्षणं तथा तत्सदृशेन दुर्लक्षणत्वादिना कारणेन ब्रह्मापि उपासाकृ
तात् ‘अन्यदपि’ विलक्षणमेवेति । अनेन सौत्रस्तथाशब्दः ‘परमतः’
इत्यत्रोक्तन्यायातिदेशकः समुच्चयार्थ इत्युक्तं भवति । इतीति । इत्येवं
रूपे तलवकारवाक्ये उपासाकृतस्य ब्रह्मत्वप्रतिषेधादित्यर्थः। अनेन सू
त्रे तद्व्यक्तमित्यनुवर्तनीयम् । अन्यदिति चावर्तनीयम् । तथा च ‘त
त्’ ब्रह्म उपासाकृतादन्यत् । कुतः ? यतोऽन्यत् अत एव शेषशेषि
णोरैक्यानुपपत्तेरेव श्रुतौ तस्य चित्ते प्रतिबिम्बितस्य ब्रह्मत्वप्रतिषेधः,
अतः प्रतिषेधात् तद्वा ब्रह्म न, यतोऽन्यत् अतोऽव्यक्तमेव, न
व्यक्तमिति सूत्रयोजना दर्शिता भवति । यदिदं वस्तु ‘उपासते’ ध्याय
न्ति नेदं ब्रह्म, किन्तु पुरुषो यद्वस्तु ‘न मनुते’ साकल्येन न जानाति,
येन वस्तुना मनो ज्ञातमाहुः कवयस्तदेव त्वं ब्रह्मेति विद्धीत्यर्थः । उ