पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 854, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १९. सू - ३८. ] दीपिकासहितम्. ८०७
इति ब्रह्मतर्के ॥ ३७ ॥
--------------------------------------------------------------------
१९. अधिकरणम् ॥
( १ ) देशकालान्तरे अन्यतोऽपि सृष्ट्यादि युक्तम् ॥ इति ॥
( २ ) अतो ब्रूते—
सू—ॐ ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ॐ ॥ ३८ ॥
किमुपासनयेत्यत आह-उपासनेति । तुशब्दो निरर्थकत्वव्यवच्छेदकः,
स्वातन्त्र्यव्यवच्छेदको वा अवधारणे वा । तथा चोपासना तस्य ध्या-
नमेव । तस्य ब्रह्मणः प्रसादेन 'तत्' ब्रह्मापरोक्ष्यं 'गमयेत्' प्रापये-
दित्यर्थः । तद्ब्रह्मापरोक्ष्यमपरोक्षज्ञानं तद्विषयतां गमयेदिति वा । ब्रह्म-
तर्के इत्यनन्तरमुक्तं अतो न किञ्चिद्दोषावकाश इति वाक्यशेषः ॥१८॥
॥ इति तथान्यत्वाधिकरणम् ॥
::-
१९. अधिकरणम् ॥
( १ ) अत्राधिकरणे भगवत एव सर्वकर्तृत्वादि समर्थ्यते । पूर्वप-
क्षयति—देशेति ॥ 'अन्यतो' ब्रह्मणोऽन्यस्मात् । अपिरेवार्थः । तत्त्व-
प्रदीपे तु यद्यपि सृष्ट्यादि ब्रह्मण एव, तथाऽपि देशकालान्तरेऽन्यतो
युक्तमित्यपिशब्दार्थ उक्तः । तथा च न ब्रह्मणः सकाशादेव सर्वसृ-
ष्ट्यादि युक्तमिति भावः । युक्तेति पाठे क्रियेति संयोज्यम् । युक्तेत्यने-
न राजादौ तथा दर्शनादिति युक्तिरुक्ता भवति ॥
( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ प्रवर्तेत इ-
त्यन्तेन अनेनेति साध्यभागः अनेन एषु इदमित्यावृत्तिविपरिणामा-
भ्यां व्याख्यातः । सृष्ट्यादिकं प्रवर्त्तते भवतीति शेषो वा । पूर्वसूत्रेऽ-
न्यदित्यस्य विशेष्यतया प्रकृतं ब्रह्मानेनेति परामृश्यते । न त्वन्यत इ-
त्यवधारणार्थः । आधारत्वं विषयत्वं च सप्तम्यर्थः । तत्र देशकाल-
योराधारत्वं वियदादिवस्तुनो विषयत्वमिति विवेकः । कुत इत्यतोऽत्र
हेतुत्वेन प्रवृत्तं सर्वगतत्वेत्याद्यंशं सर्वगतत्वं च मायामयशब्दश्च सर्व-
गतत्वमायामयशब्दौ तयोश्शब्द इति शब्दपदावृत्त्या विग्रहं एकत्र ष-
ष्ठ्याः प्रतिपाद्यप्रतिपादकसम्बन्धार्थकत्वं अन्यत्र व्याख्यानव्याख्येय-
भावसम्बन्धार्थकत्वं चाभिप्रेत्योभयविधश्रुत्युपन्यासपूर्वकं व्याचष्टे-
एष इति । 'एषः' हरिः 'सर्वो' गुणपूर्णः व्याप्तश्चेत्यर्थः । प्रत्युद्देश्यं