पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 851, कुल 1267 में से
संदर्भ में पढ़ें८०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ]
(४) सू—ॐ ॥ उपपत्तेश्च ॥ ३६ ॥
ऐश्वर्यात्परमाद्विष्णोर्भक्त्यादीनामनादितः ।
ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता ॥
इति पाद्मे ॥ ३६ ॥
——
१८. अधिकरणम् ॥
( १ ) ध्यानकाले यच्चित्ते प्रदृश्यते तदेव ब्रह्मरूपं अतः कथ
मव्यक्ततेति ।
स्वारस्यं चेति ध्येयम् । वाराह इति । उक्तार्थोऽभिहित इति शेषः ॥
( ४ ) युक्त्यन्तरेण बिम्बानन्दाद्यवैचित्र्येऽपि प्रतिबिम्बवैचित्र्यमु
पपादयत्सूत्रं पठित्वा स्मृत्यैव व्याचष्टे--उपपत्तेश्चेति ॥ न केवलं प्रति
बिम्बानन्दादिवैचित्र्यस्य बिम्बावैचित्र्येऽपि स्थानविशेषादुपपत्तिः,
किन्तु बिम्बभूतभगवदैश्वर्यवशाच्चेति सूत्रवृत्ति चशब्दस्याध्याहृतहे
तुनाऽन्वयं चाभिप्रेत्यासिद्धिपरिहारायोपपत्तेरित्यस्य उक्तहेतुकोपप
त्तिवचनादित्यर्थमुपेत्य स्मृतिरूपं तद्वचनमुदाहरति--ऐश्वर्यादिति ॥
विष्णोः परमादैश्वर्याद्ब्रह्मादीनां गुणानां भक्त्यादीनां 'अनादितः'
अनादिभक्त्यादिवशादिति यावत् । ब्रह्मादीनामानन्दादेः 'विचित्रता'
मध्वोच्चादिभेदभिन्नं तारतम्यं 'हि' आनन्दश्रुत्यादिप्रसिद्धं 'सूपपन्ना'
सम्यगुपपन्नमित्यर्थः । एकस्यैवानन्दस्य चूतफलादिभोगप्रयुक्ता ये
आनन्दादेर्विशेषास्तदात्मकत्वं विचित्रत्वं तु प्रकृतानुपयुक्तम् । भ
क्त्यादिग्रहणेन पूर्वसूत्रोक्तभक्त्यादिरूपनिमित्तं चशब्दसमुच्चेयं द
र्शितम्। भक्त्यादीनामनादित्वोक्त्या पुरुषापादानां भक्त्यादिस्थानगु
णानां कथं स्वाभाविकानन्दादिवैचित्र्ये हेतुत्वमिति शङ्का परिहृता ।
पाद्म इत्यस्य सूत्रेणान्वयः । 'उपपत्तेः' उपपन्नत्वोक्तेरित्यर्थः । अस्य
नासिद्धिरित्यध्याहृतसाध्येनान्वयः ॥ १७ ॥
॥ इति स्थानविशेषाधिकरणम् ॥
——
१८. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मणो ध्यानप्रतीतादन्यत्वोक्त्या पुनरव्यक्त
त्वं समर्थ्यते । पूर्वपक्षयति—ध्यानेति ॥ योजना तु—' यत् ' यतो ब्र
ह्म ध्यानकाले 'चित्ते' मनसि 'प्रदृश्यते' तेन प्रतीयते अतः कथं