पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 757, कुल 1267 में से
संदर्भ में पढ़ें७१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
कुरुते स परिवर्तते' ( ) इति गतिप्रकारेणागतिः प्रतीयते ।
( २ ) अतो ब्रूते—
सू—ॐ ॥ यथेतमनेवं च ॥ ॐ ॥ ९ ॥
'धूमादभ्रमभ्रादाकाशमाकाशाच्चन्द्रलोकं यथेतमाका-
शमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽ-
भ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति'
इति काषायणश्रुतेर्यथागतमन्यथा च ॥ ९ ॥
गच्छति । यथाऽस्माल्लोकात्स्वर्गं 'इतं' गतं तथा भुवमागच्छतीत्य-
र्थः । गमने फलमाह—स इति । 'सः' जीवः कर्मफलं स्वर्गादौ भुङ्क्ते
इत्यर्थः । आगमने फलमाह—स इति । कुरुते भूमौ । गमनागमनयोरा-
मुक्त्युच्छित्तिर्नास्तीत्याह—स इति । 'परिवर्तते' आवर्तत इत्यर्थः ।
जीवविषयमेतदिति ज्ञापनाय वाक्यशेषोदाहरणम् ॥
(२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ काषायणश्रु-
तेरित्यनेन सूत्रे हेत्वनुक्तिदोषः परिहृतः । प्रतिज्ञोक्त्यैव तत्सूचनात् ।
जीवः पूर्वमन्यैः स्वेन वा 'यथा' येन पथा वा स्वर्गं प्रति गतस्तथा
ऽऽकाशपर्यन्तमागच्छति ततोऽर्वाक् भुवं प्रत्यन्यथा चागच्छतीत्यर्थः ।
यथोक्तं तत्त्वप्रदीपे--यथागतं तथाऽऽकाशपर्यन्तं आगच्छति । ततोऽ-
र्वागन्यथा चेति । चः प्रकारसमुच्चये । अनेन यथेतमनेवं चेति प्रतिज्ञा-
वाक्यं व्याख्यातम् । यद्यपि 'यथा' इत्यादि छन्दोगा अपि पठन्ति ।
तथाऽपि 'धूमात्' इत्यादेस्तैरपाठाच्छाखान्तरवाक्यमुदाहृतम् । तद-
र्थस्तु—धूमदेवतालोकादभ्रदेवलोकं गच्छति, अभ्रादाकाशं, आका-
शाच्चन्द्रलोकं गच्छति । 'यथा' येन पथा आकाशं प्रति 'इतं' गतं
तथा तेनैव पथा तावत्पर्यन्तं गतिप्रकारेणैव अगच्छतीत्यर्थः । आका-
शलोकानन्तरमागपने प्रदेशविशेषेऽन्यथात्वमाह— आकाशाद्वायुमि-
ति । वायुर्भूत्वेत्यादेः कर्मणः तत्स्वाभाव्यापत्तिरेवार्थो, न तु तदैक्य-
म्, तत्पदप्राप्तिर्वा । धूमादिस्वाभाव्यापत्तिर्नाम धूमादिदेवतास्वभाव-
सदृशस्वभाववत्त्वप्राप्तिः । सादृश्यं च तद्देहप्रवेशनं तद्गतौ गतिः त-
त्स्थितौ स्थितिरित्येवंरूपम् । अभ्रमेघयोः अवान्तरभेदात् तद्देवलोक-
योरपि भेदोक्तिः । प्रवर्षतीति । प्रवर्षणान्तर्गतो भवतीत्यर्थः ॥ ९ ॥
॥ इति यथेताधिकरणम् ॥