पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 758, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - १०. ] दीपिकासहितम्. ७२१
१०. अधिकरणम् ॥
( १ ) सू- ॐ ॥ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णा
जिनिः ॥ ॐ ॥ १० ॥
'तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्ते
कपूयचरणाः कपूयां' (छा. ५-१०-७.) इति श्रुते
श्चरणफलमेव गमनागमनं न यज्ञादिकृतः ।
१०. अधिकरणम् ॥
( १ ) अत्राधिकरणे गतागतस्य कर्मफलत्वं समर्थ्यते । पूर्वपक्ष
स्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे-चरणादि
ति ॥ श्रुतेरित्यनेन चरणादित्यस्य चरणश्रुतेरित्यर्थ उक्तः । यद्यपि छ
न्दोगा आपद्येरन्निति पठन्ति । तथाऽपि तद्देशोऽर्थतोऽनुवादः शाखा
न्तरपाठो वेत्यदोषः । 'तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रम
णीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा ।
अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्व
योनिं वा सूकरयोनिं वा चण्डालयोनिं वा' इति छन्दोगवाक्यम् । प्र
मेयान्तरारम्भेऽथशब्दः । 'तत्' तत्र कर्मिषु मध्ये ये 'रमणीयचरणाः'
सदाचारपूर्वकसाधुयज्ञादिमन्तस्ते 'इह' भूमौ संसारे 'रमणीयां'
साधु 'योनिं' जन्म 'आपद्येरन्' आपद्यन्ते । आपद्यन्त इति यत् त
च्च 'अभ्याशः' समीपं कालसामीप्येन, न तु विलम्बेन 'ह' प्रसिद्धं
मित्यर्थः । तत्त्वप्रदीपे तु- 'अभ्याशो ह यत्' यथा योन्यापत्तौ कालतः
सन्निकर्षो भवति तथा योनिमापद्यन्त इत्युक्तम् । अत्र तत्त्वप्रदीपटी
कापक्षयोः यदित्यस्य यथाशब्दार्थत्वानुवादकत्वाभ्यां अभ्याश इत्य
स्य प्रथमातृतीयाविभक्त्यर्थत्वाभ्यां आपद्यन्त इत्यस्यावृत्त्यनुवृत्तिभ्यां
च भेद इति ध्येयम् । रमणीयामित्युक्तं विवृणोति-ब्राह्मणयोनिमि
त्यादिना । 'कपूयचरणाः' असाधुयज्ञादिमन्तः । अन्यत्समम् । 'चर
णफलं' आचारफलमित्यर्थः । गमनं चागमनं च तत्तथेति द्वन्द्वैकव
द्भावः । एवकारव्यावर्त्यार्थं दर्शयति-नेति । न यज्ञादिकर्मण इत्यर्थः ।
यद्वा-यागादिकर्तुः फलं नेत्यर्थः । इति ज्ञायत इति शेषः । न च श्रुतौ
चरणस्य गमनागमनसाधकता न प्रतीयत इति वाच्यम् । रमणीयस्व
र्गादिगतेरपि तत्तत्कर्मफलत्वेनात्राभिप्रेतत्वात् । चरणफलमित्यादिना
सूत्रे चरणादित्यस्यावृत्तिः सूचिता । तथा च तत्र गतागतं चरणादेव