पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 756, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. सू - ९. ] दीपिकासहितम्. ७०९
भुक्तशेषानुशयवानिमां प्राप्य भुवं पुनः ।
कर्म कृत्वा पुनर्गच्छेत्पुनरायाति नित्यशः ॥
आ चतुर्दशमाद्वर्षात्कर्माणि नियमेन तु ।
दशावराणां देहानां कारणानि करोत्ययम् ॥
अतः कर्मक्षयान्मुक्तिः कुत एव भविष्यति ॥
इत्यादिस्मृतेश्च शेषवानेवायाति ॥ ८ ॥
— * —
९. अधिकरणम् ॥
( १ ) ‘यथेतमेव गच्छति यथेतमागच्छति स भुङ्क्ते [त्त] स कर्म
नूनदशकम्’ इत्यत्र दशानां सङ्घो दशकः अनूने दशको यस्येति वि-
ग्रहप्रदर्शनेन दशकस्य ततोऽधिकसङ्घ्यानां चान्यपदार्थत्वमाश्रितम्।
न च ‘जीवंश्चतुर्दशादूर्ध्वम्’ इति वचनविरोधः । अत्र चतुर्दशमं व-
र्षं तत्समाप्तिमारभ्येत्यर्थाश्रयणात् उभयत्रापि तदुत्पत्तिमारभ्य तदु-
त्पत्तेरूर्ध्वमित्यर्थाश्रयणाद्वा न विरोधः । केचित्त्वेतद्वचनविरोधाद्बि-
भ्यतो दशावरा इत्यत्र दश वरा येषु न भवंति किंतु समकक्ष्यात्वं
वाऽवरकक्ष्यात्वं वाऽऽपन्ना येषु देहेषु तेषां कारणानीति व्याचख्युः ।
तन्न, उक्तरीत्योक्तवचनविरोधाभावेन कौटिल्यकल्पनायोगात् । दश-
कस्य वरत्वमात्रनिषेधेऽपि समकक्ष्यात्वस्य वाऽवरकक्ष्यात्वस्य वाऽनु-
क्तेः, ‘आनूनदशकम्’ इत्युक्तिविरोधाच्च । ‘मुनिस्तुसुकर्मशीलोऽपि’
इति वचनान्मुनिविषयमेतदित्यपि न, मुनिरपीति कैमुत्यस्यैवोक्तथा-
ऽस्य सर्वविषयत्वात् । कर्मक्षयान्मुक्तिरिति । बन्धककर्मणो निश्शेष-
क्षयान्निमित्तात्कर्ममूलकबन्धन्निवृत्तिरूपा मुक्तिः ‘कुतो’ न कुतोऽपी-
त्यर्थः ॥ ८ ॥
॥ इति कृतात्ययाधिकरणम् ॥
— * —
९. अधिकरणम् ॥
( १ ) अत्राधिकरणे स्वर्गादागतिप्रकारो निरूप्यते । तन्नानेवमित्य-
नेन सूचितं पूर्वपक्षं दर्शयति-यथेति ॥ गतिप्रकारेणेत्याद्यावर्तते । तथा
च इति श्रुतौ यतो जीवस्यैवं गतिप्रकारेणागतिः प्रतीयते अतो गतिप्र-
कारेणैव आगतिः, न त्वनेवमपीति योजना । पूर्वमन्यैः स्वेन वा यथा
येन मार्गेण स्वर्गादिमं लोकं प्रति ‘इतं’ आगतं तथा तेन स्वर्गं प्रति