पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 755, कुल 1267 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ की संपूर्ण सामग्री का देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण दिया गया है:
७०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
( २) अत आह—
सू— ॐ ॥ कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॥ ॐ ॥ ८ ॥
'ततः शेषेणेमं लोकमायाति पुनः कर्म कुरुते पुनर्ग
च्छति पुनरागच्छति' ( ) इति श्रुतेः ।
शेशपमत्यायान्नाशात् तत एव कर्मणस्तन्मूलबन्धस्यापि क्षयादु
च्छेदात् तदुच्छेदरूपा मुक्तिः स्वत एव भवतीति न तदर्थं वैराग्या
दिकमनुष्ठेयमिति योजना । मुक्तिरिति सूत्रे शेषोक्तिः ॥
(२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे--अत इति ॥ श्रुतेरित्यने
न भावार्थकदृष्टपदं व्याख्यातम् । चः समुच्चये । 'शेषवान्' भुक्तकर्म
शेषवानेव, न तु निःशेष इत्येवशब्दार्थः । अनेन अनुशयपदं कर्ममा
त्रवाचकमपि स्मृत्यनुसारादेवं व्याख्यातम् । सूत्रे नेति आयातीति च
शेषः । तथा च भोगेन कृतात्ययान्निमित्तात्तन्मूलबन्धात्ययात्स्वत एव
मुक्तिः स्यादिति किं वैराग्यादिसाधनैरिति चेन्न, यतोऽयं जीवः कृता
नां मध्ये कतिपयात्ययेऽपि 'अनुशयवान्' भुक्तशिष्टकर्मवानेव पर
लोकादायाति भुवम् । न चास्यासिद्धिः 'दृष्टस्मृतिभ्यां' श्रुतिस्मृति
भ्यां तत्सिद्धेरिति सूत्रार्थः । 'ततः' स्वर्गादेः 'शेषेण' कर्मशेषेण
तद्युक्त एव 'इमं लोकं' भूलोकं प्रत्यायाति कर्मी । पुनर्भूभौ कर्म कु
रुते, पुनः स्वर्गे प्रतिगच्छति पुनरायाति भुवमित्यर्थः । स्मृतावनुश
यशब्दः कर्मार्थकः । तथा च कर्मी जीवो भुक्तशिष्टकर्मवानिमां भुवं
प्राप्य पुनस्तत्र कर्म कृत्वा पुनस्स्वर्गं गच्छेत् । पुनस्ततो भुवं 'नित्य
शो' नियमेन करोत्यायाति गच्छतीत्यर्थः । अनेन श्रुतौ पुनः कर्म
कुरुते, स्मृतौ पुनः कर्म कृत्वेत्युक्त्या एवं द्वित्रिचतुरावर्तने अशेषक
र्मनिवृत्तिः स्यादिति शङ्का निरस्ता । अल्पापादने कर्मसमाप्तिरित्याश
ङ्कानिरासायाह—आचतुर्दशमाद्वर्षादिति । अत्राङ् पूर्वावधिरूपमर्या
दार्थकः आजन्मेत्यादिवत् , न त्वामुक्तीत्यादाविवोत्तरावधिरूपमर्या
दार्थकः । 'नान्तादसङ्ख्यादेः' इति निषेधस्त्विह न प्रवर्तते, निपात
नादेव । तथा च चतुर्दशमं वर्षमारभ्येत्यर्थः । 'अयं' बद्धजीवो 'नि
यमेन तु' नियमेनैव 'दशावराणां' दशसङ्ख्याका देहा येषु प्राप्तव्ये
षु देहेष्ववरकक्ष्यात्वमापन्नास्ते दशावरास्तेषाम् । अत्रावरपदबलादा
रब्धव्येषु देहेषु दशकस्य पृथक्कक्ष्यात्वसिद्धिः । इतोऽधिकानामेकाद
शादीनामपि बहुव्रीहिणैव सिद्धिः । अत एव प्रमेयदीपे 'स्त्री चाऽप्य