सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 745, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 745

६९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ]
( २ ) न, भागतोऽग्न्यादिप्राप्तेः ।
( ३ ) पुरुषस्य मृतौ ब्रह्मन् प्राणा भागत एव तु ।
अधिदैवं प्राप्नुवन्ति भागतोऽनुव्रजन्ति तम् ॥
प्यंशेन गमने 'अनावृत्तिर्देहिनां देहपाते' इत्युक्तिविरोध इति
वाच्यम्। वायुः अनावृत्तिमोक्षप्रद इति वा अनस्य मुख्यप्राणस्य
अवृत्तिः असत्त्वमिति वा देहपाते अनस्यावृत्तिः कारणमिति वा
तस्य व्याख्यानात् ॥
( २ ) सिद्धान्तांशं व्याचष्टे—नेति ॥ न प्राणानां श्रुतिबलाद्
सहगतिर्वक्तव्येत्यर्थः । कुतो नेत्यतस्तद्धेतुत्वेन उक्तश्रुतेः साव-
काशत्वादित्याशयेन तदुक्तचोद्ये प्रवृत्तस्य भाक्तत्वादित्यंशस्या-
ग्न्यादिगतिश्रुतेः भाक्तत्वात् गतिश्रुत्योर्भाक्तत्वादित्युभयत्रान्वय-
मभिप्रेत्याह—भागत इति । भागेनेत्यर्थः । प्राणानामित्यनुवर्तते ।
श्रुतेरिति शेषः । तथा च प्राणानामग्न्यादीन् प्रति भागतः प्राप्तेः
श्रुतेरपि प्राणानामग्न्यादीन् प्रति भागतः प्राप्तिविषयत्वादित्यावृत्त्या
योजना ॥
( ३ ) जीवेन सह के चन प्राणभागा गच्छन्ति, अग्न्यादीन् प्रति
तु के चनेत्ययं विभागः कुतोऽवगत इत्यत आह—पुरुषस्येति ॥
जीवस्येत्यर्थः । उभयान्वयीदम्—पुरुषस्य मृतौ सत्यां पुरुषस्य
प्राणा इति । 'ब्रह्मन्' हे ज्ञानिवृद्धेति चतुर्मुखो नारदं प्रति वक्ति ।
'प्राणाः' इन्द्रियाणि तद्देवाश्च । एवेति समस्तभागं व्यावर्तयति ।
तुशब्दो मृतौ त्विति वा प्राणास्त्विति वाऽन्वेति । द्वितीयान्वयेनोपचि-
तेष्वेवायं विवेक इति सूचितम् । 'अधिदैवं' अग्न्यादीन् 'तं' पुरु-
षम् । ननु प्रतिमरणं अधिदैवमिन्द्रियभागापगमे कालतः सर्वापगमः
स्यात् । तथा च सर्वभूतापगमः प्राप्त इत्यत आह—पुनरिति । स्वर्गा-
दिभोगानन्तरं भूलोकं प्राप्तस्य शरीरान्तरप्राप्तौ सत्यां यमनुव्रजन्ति
'तमेव' पुरुषं जीवमनुसृत्य तेन सह शरीरान्तरं प्रविशन्तीत्यर्थः ।
गमनप्रवेशयोः समुच्चये चशब्दः । अत्र जीवानां भूलोके शरीरत्याग-
प्राप्त्योरेवेन्द्रियाणां गमनागमनयोरभिप्रेतत्वेन स्वर्गादिभोगाय पूर्व-
शरीरत्यागेन ज्योतिर्मयादिशरीरान्तरप्राप्तौ गमनागमनयोरभावात्त-
दुक्तमनुपपत्तिरिति चोद्यानवकाशः ।
गतैर्भागैरपि पुनः विशेषोपभोगसिद्धये ।