सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 746, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 746

[ अधि - ५. सू - ५. ] दीपिकासहितम्. ६९९
पुनश्शरीरसंप्राप्तौ तमेवानुविशन्ति च ॥
इति ब्राह्मे ॥
( ४ ) ब्रह्माण्डे च—
मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च ।
भागतो भागस्त्वेनमनुगच्छन्ति सर्वशः ॥ इति ॥ ४ ॥
—::—
५. अधिकरणम् ॥
( १ ) सू—ॐ ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ॐ ॥ ५ ॥
भोग्यलोकमनुप्राप्तम् ॥
इत्यैतरेयभाष्यस्याप्ययमेवाभिप्रायः । अत्र एकादशेन्द्रियाणां पञ्चभू-
तानां च लिङ्गशरीरात्मना अनादितो जीवेन सह विद्यमानानामपि प्र-
तिसृष्टिकाsubscription: तिसृष्टिकालं 'तेषां भूतैरुपचयः सृष्टिकाले विधीयते' इत्युक्तरीत्या उ-
पचयो भवति । प्रलये च तदपचयः । उपचितभागेष्वपि मरणकाले
केषां चिद्भागानां गमनम् । पुनश्शरीरप्राप्तावागमनं चेति विशेषः तुश-
ब्देन चशब्देन च सूचितो द्रष्टव्यः ॥
( ४ ) ननु भागतोऽग्नयादीन् प्रति गच्छद्भिः प्राणैस्सह भूतानां
गतिरस्ति न वा । अस्ति चेत् न जीवेन सह गतिः, सामस्त्येन तान्
प्रत्येव गतत्वात् । न चेत्प्राणभूतयोः समव्याप्त्यभाव इत्यत आह—
ब्रह्माण्डे चेति ॥ न केवलं ब्राह्मे अग्नयादिप्राप्तेरुक्तिः, किन्तु ब्रह्माण्डे
चेति समुच्चये चशब्दः । का उक्तिरित्यतः तां पठति—मृतीति । 'एनं'
पुरुषं 'भागतो जहति' त्यजन्तीत्यर्थः । 'सर्वशो भूतानि' पृथिव्या-
दिसर्वभूतानि प्राणांश्चैनमनुगच्छन्तीत्यर्थः । तथा च प्राणैस्सह भूता-
नां भागतो गतिसत्त्वेऽपि न सर्वशो गमनमिति जीवेन सहापि भागतो
गतिर्युक्तेति भावः । आद्यश्चशब्दः समुच्चये । द्वितीयस्तुशब्दार्थो
विशेषद्योतकः ॥ ४ ॥
॥ इति अग्नयाद्यधिकरणम् ॥
—:
:—
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे भूतानां जीवेन सह गतिराक्षिप्य समाधीयते। पूर्व-
पक्षस्य सूत्र एवोक्तत्वात् तत्पठित्वा पूर्वपक्षांशं तावद्व्याचष्टे-प्रथम इ-
ति ॥ 'तस्मिन्' (छा. ५-४-२०) इति छान्दोग्यवाक्योदाहरणेन प्रथम इत्य