सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 639, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 639

आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा ॥ इति च
पाद्मे ॥ २७ ॥
१४. अधिकरणम् ॥
( १ ) ‘तत्त्वमसि’ (छा. ६-८-७.) ‘अहं ब्रह्मास्मि’ (बृ. ३-
४ - १०.) इत्यादिषु जीवस्य परेणाभेदः प्रतीयते ।
‘नित्यो नित्यानां चेतनश्चेतनानां’ (श्वे. ६-१३.) ‘द्वा
सुपर्णा’ (श्वे. ४-६.) इत्यादिषु भेदः ।
( २ ) अत उच्यते—
सू—ॐ ॥ पृथगुपदेशात् ॥ ॐ ॥ २८ ॥
ख्यसम्पत्त्या स्वात्मानं बहुधा कृत्वा क्रीडत इत्यर्थः । ‘एतेन योगः’
इत्यत्रेतरयोगशास्त्रस्यैव दृगर्थविषये अप्रामाण्यमुक्तं भगवता, न तु
परमयोगस्येति तत्त्वप्रदीप एवोक्तम् । इति पाद्मे इत्यनन्तरं सूत्रकृदु-
क्तमुक्तमिति शेषः ॥ १३ ॥
॥ इति व्यतिरेकाधिकरणम् ॥
─── * ॐ * ───
१४. अधिकरणम् ॥
( १ ) अस्मिन्नधिकरणे जीवस्य परमात्माभिन्नत्वादिविषयश्रुति-
विरोधः परिह्रियते । संशयबीजं श्रुतिद्विगानं दर्शयति-तत्त्वमसीति ॥
‘इत्यादिषु’ एवमादिश्रुतिवाक्येषु । आदिशब्देन ‘स यो हवै तत्पर-
मं ब्रह्म वेद ब्रह्मैव भवति’ (मु. ३-२-९.) इत्यादिकं गृह्यते । ‘परे-
ण’ परमात्मना । ‘नित्यो नित्यानाम्’ इत्यत्र ‘चेतनश्चेतनानाम्’ इ-
त्यत्र च निर्धारणषष्ठ्या जीवस्य भेदः प्रतीयते । ‘द्वा सुपर्णा’ इत्य-
त्र तु अभेदविरोधिद्वित्वसङ्ख्यया भेदवाचकद्विशब्देनैव वा भेदोऽव-
गम्यत इति ध्येयम् । ‘तत्त्वमसि’ इत्येतदानन्दमयाधिकरणे ‘नित्यो
नित्यानाम्’ इत्येतत् ‘नात्मा’ इत्यत्र ‘द्वा सुपर्णा’ इत्येतत् द्युभ्वा-
धिकरणे व्याख्यातम् ॥
( २ ) ‘तत्त्वमसि’ इत्यादिश्रुतेः षड्विधतात्पर्यलिङ्गोपेतत्वेन प्रबल-
त्वात् परमात्माभिन्न एव जीव इति पूर्वपक्षे सिद्धान्तयत्सूत्रमवतार्य
व्याचष्टे—अत इति ॥ उपदेशादित्यस्यार्थः श्रुतेरिति । नन्वभेदश्रुतेर-