पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
DevanagariHindipublished1,267 पृष्ठ
पृष्ठ 638, कुल 1267 में से
संदर्भ में पढ़ेंपृष्ठ 638
[ अधि - १३. सू - २७. ] दीपिकासहितम्. ५९१
( ३ ) ‘अथैक एव सन् गन्धवद्व्यतिरिच्यते। अथैकीभवति।
अथ बह्नीभवति । तं यथा यथेश्वरः प्रकुरुते तथा
तथा भवति सोऽचिन्त्यः परमो गरीयान्’ इति
शाण्डिल्यश्रुतिः।
(४) अचिन्त्येशशक्त्यैव ह्येकोऽप्यवयववर्जितः।
( ३ ) ननु विभक्तांशबाहुल्येन जीवस्य बहुरूपत्वाभ्युपगमेऽपि ‘स ए-
कधा’ (गौपवन.) इति श्रुतिविरोध इत्यतस्तत्र तस्याः स्वरूपैक्यविष-
यत्वादिति परिहारम्, न च भिन्नांशशून्यत्वादनेकरूपत्वानुपपत्तिरि-
त्यतस्तत्र योगसम्पदोपपत्तेरिति परिहारम्, न चेश्वरेण साम्यापात
इत्यतस्तत्र योगिनामपि बहुरूपत्वशक्तेः योगाराधितेश्वरप्रसादायत्त-
त्वादिति परिहारम्,न चेश्वरस्याप्येतदश