सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 450, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 450

[ अधि - २. सू - ४. ] दीपिकासहितम्. ४०३
क्ताभ्यासे तत्काल एव फलादृष्टेः ॥ ३ ॥
————— ❖ —————
२. अधिकरणम्
( १ ) सू—ॐ ॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ॐ॥ ४ ॥
न्द्रियग्राह्यं भवतीत्यर्थः । नियमेन यत इति शेषः । अस्यात आप्तप्र-
णीतत्वनिश्चयोपपत्तेर्न योगस्मृतीनामप्रामाण्यमिति प्रकृतसाध्येनान्व-
यः । प्रत्युक्तपदतात्पर्यमाह—इति न मन्तव्यमिति । अत्राभ्यधिकाश-
ङ्कानिरासायैतेनेत्यतिदिष्टहेतुं व्यनक्ति—उक्तेति । प्रथमं फलं स्वेदनं,
द्वितीयं गात्रभञ्जनमित्येवंरूपक्रमविशिष्टफलकतया योगशास्त्रोक्तानां
स्वेदनगात्रभञ्जनादिरूपफलोपायानां ‘अभ्यासे’ अनुष्ठाने सति ‘त-
त्काल एव’ अभ्यासावस्थोत्कर्षसम्पत्तिकाल एव ‘फलादृष्टेः’ स्वेदना-
दिफलादर्शनादित्यर्थः । तथा चनियमेन फलोपलम्भहेतोरसिद्धेस्ते-
नाप्तोक्तत्वनिश्चयासम्भवाद्योगस्मृतेरप्रामाण्यमेवेति सर्वासामवैष्ण-
वस्मृतीनामप्रामाण्यं युक्तमेवेति भावः । अनेन—‘एतेन’ उक्तक्रमेण
तत्तत्फलोपायाभ्यासे तत्काल एव तदुक्तक्रमविशिष्टफलादर्शनेन ‘यो-
गः’ योगशास्त्रोदितं योगाभ्यासफलं नियमेन प्रत्यक्षोपलभ्यमिति म-
तं निरस्तम् । अत एव योगस्याप्तोक्तत्वनिश्चयो निरस्तः । अतएव
योगोऽप्यप्रमाणत्वेन निरस्त इति सूत्रार्थ उक्तो भवति ॥ १ ॥
॥ इति स्मृत्यधिकरणम् ॥
—:❖❖:—
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे विष्णोर्जगत्कारणत्वे प्रमाणत्वेनोक्तवेदादिप्रा-
माण्ये युक्तिविरोधः परिह्रियते । विषयपूर्वपक्षादेः सूत्र एवोक्तत्वात्त-
मनुपन्यस्य सिद्धान्तयत्तत्सूत्रमुपन्यस्य व्याचष्टे—नेति ॥ एवमित्यनेन
तथात्वमित्येतन्नेत्यनेनापि संयोज्यमिति दर्शितम् । अस्येत्यस्यार्थः
श्रुतेस्स्मृतेश्चेति । चः समुच्चये । पाशुपतादिव्यावर्तनाय-तदनुसारी-
ति । श्रुत्यनुसारीत्यर्थः । न च श्रुत्यादेरित्यादिशब्दविवक्षया सूत्रेऽ-
स्येति प्रयोगात्तद्विवरणरूपे भाष्ये श्रुतेः स्मृतेरिति कथं प्रयोग इति
वाच्यम् । तत्रापि श्रुतेः स्मृतेरित्यस्य श्रुतिवाक्यस्य स्मृतिवाक्यस्ये-
त्यर्थाश्रयणात् । यदेवमित्यनेन तथात्वमिति व्याख्यातम्, तस्य तथात्वं
पाशुपतादिस्मृतिवत् भावस्तदुक्तानुपलब्ध्यप्रामाण्ये इत्यर्थाश्रयणेनै-