सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 449, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 449

४०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
लब्धेरप्रामाण्यं तासां युक्तम् ।
( ५ ) चशब्देन भागोपलब्धिरङ्गीकृता ॥ २ ॥
( ६ ) सू—ॐ ॥ एतेन योगः प्रत्युक्तः ॥ ॐ ॥ ३ ॥
योगफलं प्रत्यक्षत उपलभ्यत इति न मन्तव्यम् । उ
त्वादौ स्मृतिविरोधशङ्कितः, तदितरेषां प्रत्यक्षयोग्यानामित्येकत्रैवा-
न्वयः । इतरेषामित्यस्योत्तरस्मृत्युक्तानां इत्यर्थान्तरमभिप्रेत्याह—
तास्विति । अत एवेतरेषां इत्यनुवादेन तास्विति व्याख्यानम् ।
चशब्दोऽनुपलब्धेश्चेत्यन्वेति । ‘तासु’ पाशुपतादिरूपासु फलं पुम-
र्थः । आदिपदेनानर्थो गृह्यते । अनुष्ठानपरित्यागयोः कृतयोरपीति शे-
षः । तथा च ‘इतरेषां’ वैष्णवेतरपशुपत्यादिप्रणीतस्मृत्युक्तानां ‘अनु-
पलब्धेः’ इतरेषां प्रत्यक्षयोग्यानां फलानामर्थानां च मध्ये केषां चि-
दफलत्वात्तदितरेषां च तासूक्तानुष्ठानपरित्यागयोः कृतयोरपि प्रत्य-
क्षतोऽनुपलब्धेरनुपलम्भाच्चेति योजना । आनुमानिकोपलब्धिमादाया-
सिद्धिवारणाय—प्रत्यक्षत इति । अनुपलब्धेश्चेत्यन्वितश्चशब्दः आ-
प्तोक्तत्वानिश्चयादिति हेत्वन्तरसूचकोऽप्ययमेवानुपलब्धिहेतोः सा-
ध्यतया अन्वेतीत्याशयेन अस्य हेतोरन्वययोग्यं प्राग्दोषप्रसङ्गादित्य-
नेनोक्तं परमसाध्यं दर्शयति—अप्रामाण्यमिति । ‘तासां’ पाशुपता-
दिस्मृतीनाम् । एवेति चशब्दस्यार्थः युक्तमेवेत्यन्वेति ॥
( ५ ) ननु पाशुपतादिस्मृतिविहिताचरणे फलस्य तन्निषिद्धाचर-
णेऽनर्थस्य चोपलम्भात्कथं तदनुपलब्धिमसूत्रयत्सूत्रकार इत्यत आ-
ह—चशब्देनेति ॥ इति सूचितं सूत्रकृतेति शेषः । अनेनेतरेषां मध्ये
केषां चिदुपलम्भात्तदितरेषां अनुपलब्भाच्चेति समुच्चयार्थश्चशब्द इ-
त्युक्तं भवति । तथा चेतरस्मृतिषु भागविशेषे उक्तानां फलादीनां उ-
पलम्भेऽपि न तत्राप्तोक्तत्वनिश्चयो युज्यते, अदृष्टफलकभागान्तरवद-
नाप्तोक्तत्वस्यापि सम्भवादिति भावः ॥
( ६ ) ननु तथाऽपि न सर्वासाभवैष्णवस्मृतीनां उक्तनिमित्तादप्रा-
भाण्यम्, योगस्मृत्युक्तफलादीनां नियमेनोपलम्भात्तासामाप्तप्रणीतत्व-
निश्चयोपपत्तेरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—एतेनेति ॥
एतेनेत्यतिदेशोपयुक्ताभ्यधिकाशङ्कां दर्शयति—योगफलमिति । योग-
शब्दस्य व्याख्यानान्तरमेतत् । स्वेदकम्पादिरूपं योगस्मृत्युक्तं योगा-
भ्यासफलमित्यर्थः । सूत्रेऽपेक्षितं पूरयति—प्रत्यक्षोपलभ्यमिति । इ