सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 451, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 451

४०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
नैवं श्रुतेस्तदनुसारिस्मृतेश्च तदुक्तानुपलब्धेरप्रामा-
ण्यं वाच्यम् । विलक्षणत्वात् नित्यत्वात् तदनुसारि-
त्वाच्च ।
( २ ) न हि नित्ये दोषाः कल्प्याः । स्वतश्च प्रामाण्यम् । अ-
न्यथाऽनवस्थितेः ।
वमित्युक्तं विवृणोति—तदुक्तेति ॥ श्रुतितदनुसारिस्मृत्युक्तवृष्ट्यादिफ-
लानुपलम्भादित्यर्थः । तदुक्तकारीर्यादिसाधनानुष्ठानेऽपीति शेषः । अ-
नेन सूत्रे प्रतिज्ञान्वितं तथात्वमित्येतदप्रामाण्यस्य तद्धेतोः फलानुप-
लम्भस्य तत्र दृष्टान्तस्य ज्ञापकमित्युक्तं भवति । कुतो नेत्यतस्तत्र हे-
तुत्वेन प्रवृत्तं विलक्षणत्वादित्येतदनूद्य द्वेधा व्याख्याति—विलक्षणत्वा-
दिति। श्रुतेस्स्मृतेरित्यस्ति। तथा च श्रुतेः 'नित्यत्वात्' नित्यत्वाख्यवैल-
क्षण्यवत्वात् स्मृतेः 'तदनुसारित्वात्' श्रुत्यनुसारित्वाख्यवैलक्षण्यव-
त्वादित्यर्थः । क्रमिकहेतुसमुच्चये चशब्दः ॥
( २ ) ननु नित्यत्वादिसद्भावेऽपि कुतोऽप्रामाण्याभावः, तद्धेतोर्दो-
षाभावस्यानिश्चयात् । तथाचाप्रयोजकं हेतुद्वयमित्यतस्तत्रास्य त-
थात्वं पाशुपतादिवत्सद्दोषत्वमपि नेति योजनाश्रयेण लब्धं नित्यत्ववद्धेः
साक्षात्साध्यभूतं प्रामाण्ये साक्षाद्धेतुं दर्शयति—न हीति ॥ ‘हि’ य-
तः 'नित्ये' वेदे। उपलक्षणमेतत्। तदनुसारिस्मृतौ चेत्यपि द्रष्टव्यम्।
अत एव प्राक् तदनुसारीत्युक्तम् । नित्यं इति हेतुगर्भम् । ‘दोषाः' व-
[