सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1167, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1167

११९० ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् ।
( ३० ) प्र ॥ अपरोक्षानन्तरं तत्क्षणमेव विष्णुलोकप्राप्तिः भवति वा ?
उ ॥ प्रारब्धकर्मप्रतिबन्धाभावे शरीरपातानन्तरं मुक्तिः, त-
द्भावे तत्फलभोगानन्तरमेव ॥ ३-४-५१.
( ३१ ) प्र ॥ प्रारब्धकर्मसद्भावे अपरोक्षः कथं भवति ?
उ ॥ अपरोक्षप्रतिबन्धकप्रारब्धकर्मसद्भावे अपरोक्षः न भ-
वति, प्रतिबन्धककर्माभावे अपरोक्षो भवति ॥ ३-४-५०.
( ३२ ) प्र ॥ अपरोक्षानन्तरं पूर्वकृतं अप्रारब्धकाम्यकर्म कुत्र गच्छ-
ति ?
उ ॥ तत् पुण्यकर्म सुहृदं प्राप्नोति, पापकर्म द्वेषिणं प्राप्नो-
ति ॥ ४-१-१७.
( ३३ ) प्र ॥ जीवाः केन मार्गेण विष्णुलोकं गच्छन्ति ?
उ ॥ वक्ष्यमाणदेवतादिव्यतिरिक्तज्ञानिनः देहान्ते अर्चिरा-
दिमार्गेण आतिवाहिकवायुलोकं प्राप्य तस्मात् तडिल्लो-
कं ततः वायुलोकं प्राप्नुवन्ति, ततः विरिञ्चिन सह वि-
ष्णुलोकं गच्छन्ति । देवताः शतऋषयः शतगन्धर्वाः
शतं राजानः स्वोत्तमदेहे निलिय परम्परया उत्तमोत्त-
मद्वारेण परमात्मानं प्राप्नुवन्ति ॥ ४-३-१, ४-३-५,
४-३-१०, ४-३-१५, ४-२-१, ४-२-२, ४-२-३, ४-२-४,
४-२-६, ४-२-१५.
( ३४ ) प्र ॥ मुक्ताः विष्णुलोकं प्रविश्य किं कुर्वन्ति ?
उ ॥ विष्णुलोकं प्रविश्य तत्र वा विष्णोरनुज्ञया तदितर-
लोकेषु वा योग्यताऽनुसारेण सालोक्यं वा सारूप्यं
वा सामीप्यं वा सायुज्यं वा प्राप्तास्सन्तः, स्वसंक-
ल्पानुसारेण सृष्ट्यादिव्यतिरिक्तसर्वकामान् चिद्रूपेण
वा शुद्धसत्त्वरूपेण वा देहेन भुञ्जते, सायुज्यभाजस्तु
परब्रह्मदेहेनापि स्वयोग्यभोगान् भुञ्जते, तेषां सर्वेषां
पुनरावृत्तिर्नास्ति ॥ ४-४-५, ४-४-६, ४-४-८, ४-४-११,
४-४-१२, ४-४-१४, ४-४-१७, ४-४-१९, ४-४-२३.
( ३५ ) प्र ॥ कर्मिणां देहान्ते का गतिः ?