सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1166, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1166

प्रतीयमानसिद्धान्तः ॥
(२४) प्र ॥ स्त्रीणां वेदाधिकारः अस्ति वा न वा ? नास्ति चेत्
तासां ज्ञानं कथम् ?
उ ॥ देवऋष्यादिस्त्रीणां वेदाधिकारो वर्तते, इतरासां वेदा-
धिकारो नास्ति, तासां शूद्रवत् पुराणश्रवणादिना ज्ञा-
नं. अतः मोक्षः ॥ १-१-१०.
(२५) प्र ॥ भगवदपरोक्षात् मोक्ष इति भवद्भिः उक्तम्, रामकृष्णा-
द्यवतारकाले अनेकजनानां भगवदपरोक्षं आसीत्खलु.
तेषां सर्वेषां मोक्षः अस्ति किम् ?
उ ॥ तेषां उत्तमलोकप्राप्तिरेव, न मोक्षः, हृदयस्थबिम्बद-
र्शनादेव मुक्तिर्भवति ॥ ३-३-५३.
(२६) प्र ॥ भगवदपरोक्षात्परं ज्ञानिनां यथेच्छानुचरणं युक्तं वा ?
उ ॥ भगवदपरोक्षानन्तरं दुष्कर्मणा मोक्षहानिः नास्ति, कि-
न्तु आनन्दहासः भवति, सत्कर्मानुष्ठानेन मोक्षे फला-
तिशयो भवति, तस्मात् स्वेच्छया सत्कर्मानुष्ठानमेव
कर्तव्यम् ॥ ३-४-१९, ३-४-३३.
(२७) प्र ॥ सत्कर्मानुष्ठानं कर्तव्यं इति भवद्भिः उक्तं तत्कर्म इच्छा-
नुसारेण कर्तव्यं वा विध्यनुसारेण वा ?
उ ॥ मनुष्याः विधिप्रकारेणैव कर्म कुर्युः, देवाः अनुष्ठेयक-
र्ममध्ये यत्कर्मणि इच्छा, तत्कर्म कुर्युः, विरिञ्चस्तु इ-
च्छानुसारेण कर्म कुर्यात् तस्य इच्छैव विधिः ॥
३-४-२२, ३-४-२३, ३-४-२४.
(२८) प्र ॥ मोक्षः कीदृशः ?
उ ॥ भूतबन्धनिवृत्तिरेव मोक्षः ॥ ३-१-१०.
(२९) प्र ॥ मोक्षे फलतारतम्यं अस्ति वा ?
उ ॥ अस्ति, मोक्षे जीवानां योग्यताऽनुसारेण आनन्दः ॥
३-३-३३.