पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1165, कुल 1267 में से
संदर्भ में पढ़ें११९८ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् ।
ऐहिकफलं ददाति, अकाम्यकर्म अपरोक्षात् पूर्वभा
वि चेत् ज्ञानसाधनं भवति, उत्तरभावि चेत् मोक्षे अ
तिशयं ददाति ॥ ३-१-७.
(१९) प्र ॥ स्वर्गादिफलं केन भवति ?
उ ॥ देवाद्यंशानां ज्ञानेनैव सर्वफलं भवति, कर्मणा अतिश
यः, इतरेषां तु मोक्षेतरदृष्टादृष्टफलं कर्मणा भवति, ज्ञा
नेन अतिशयः ॥ ३-४-१, ३-४-९.
(२०) प्र ॥ वेदाधिकारिणः के ?
उ ॥ त्रिवर्णानां मध्ये ये विष्णुभक्ताः गुरुभक्ताः शमदमादि
मन्तः त एव वेदाधिकारिणः ॥ ३-४-१२.
(२१) प्र ॥ शूद्राणां वेदविद्याधिकारः नास्ति वा ?
उ ॥ पूर्वजन्मनि प्राप्तापरोक्षज्ञानव्यतिरिक्तशूद्राणां वेदवि
द्याधिकारो नास्ति ॥ १-३-३८.
(२२) प्र ॥ सर्वे वेदाधिकारिणः अपरोक्षयोग्याः किम् ?
उ ॥ न, केचित् जीवा एव स्वभावेन योग्याः तेषां एव भग
वदपरोक्षं भवति, केचित् जीवाः नित्यसंसारिणः के
चित् जीवाः स्वभावेन तमोयोग्याः । तेषां अपरोक्षं क
दाऽपि न भवति । सर्वे जीवाः योग्यताऽनुसारेण कर्म
कुर्वन्ति, सम्यग्ज्ञानं वा विपरीतज्ञानं वा प्राप्नुवन्ति,
तदनुसारेण फलं अनुभवन्ति । श्रवणमननादिषु यत्न
वतामपि अयोग्यानां जीवानां ज्ञानं कदाऽपि न सम्भव
ति, तेषां नित्यनरकस्यैव प्राप्तिः, नित्यसंसारिणां नित्यं
संसार एव स्थितिः ॥ ३-४-३४, ३-४-३५, ३-४-३६,
३-४-३७, ३-४-३८, ३-४-४०.
(२३) प्र ॥ वेदाध्ययनाधिकाराभावे केवलशूद्रादीनां ज्ञानं कथं
सम्भवति ?
उ ॥ भारतादिपुराणश्रवणादिषु तेषां अधिकारः, तच्छ्रवणा
दिना अपरोक्षज्ञानं सम्भवति, अतः मोक्षः ॥ १-१-१०.