पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1164, कुल 1267 में से
संदर्भ में पढ़ेंप्रतीयमान सिद्धान्तः ॥ १११७
नं एकस्थले वर्तमानमपि अन्यत्र अंशेन व्यापकं भव
ति, यथा दीपः एकत्र विद्यमानोऽपि प्रकाशगुणेन व्याप
को भवति तथा जीवः अंशेन वा गुणेन वा देहे सर्वत्र
व्यापी भवति ॥ २-३-२०, २-३-२४, २-३-२५, २-३-२६.
( १२ ) प्र ॥ जीवस्य स्वरूपं कीदृशम् ?
उ ॥ त्रिविधं, मुक्तियोग्यानां ज्ञानानन्दस्वरूपं, तमोयोग्या
नां अज्ञानदुःखस्वरूपं, नित्यसंसारिणां मिश्रस्वरूपम्॥
२-३-३२.
( १३ ) प्र ॥ एवं सति त्रिविधानां विपरीतानुभवः कथं संभवति ?
उ ॥ स्वरूपं अविद्यया आवृतं, अतः अन्यथाऽनुभवः औपा
धिकः ॥ २-३-३२.
( १४ ) प्र ॥ जीवाः भगवदधीना वा स्वतन्त्रा वा ?
उ ॥ परमात्माधीना एव, तथाऽपि तेषां किञ्चित् भगवद्दत्त
स्वातन्त्र्यं अस्ति, तथा न चेत् शास्त्रस्य निष्प्रयोजन
त्वं स्यात् खलु ॥ २-३-३३, २-३-४१, २-३-४२.
( १५ ) प्र ॥ जीवानां भूतसम्बन्धः देहान्ते निवर्तते वा न वा ?
उ ॥ न निवर्तते, जीवाः कर्मानुसारेण भूयोभूयः जन्मान्तरं
प्राप्नुवन्ति ॥ ३-१-१, ३-१-८.
( १६ ) प्र ॥ जीवानां जन्मान्तरादिक्लेशात् कथं मुक्तिः ?
उ ॥ परमात्मानुग्रहजन्यतदपरोक्षेण मोक्षः सम्भवति ॥
३-२-२३, ३-२-२७, ३-३-४८, ३-३-४९, ३-३-५४.
( १७ ) प्र ॥ परमात्मानुग्रहः कथं सम्भवति ?
उ ॥ श्रवणमननादिभिः हरिगुरुभक्तिशमदमादिभिः सम्भ
वति ॥
( १८ ) प्र ॥ कर्मणः प्रयोजनं नास्ति किम् ?
उ ॥ अस्ति, कर्म द्विविधं काम्यं अकाम्यं इति, काम्यकर्म