पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1163, कुल 1267 में से
संदर्भ में पढ़ें१११६ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् ।
त्र मुख्यार्थग्रहणे बाधकं नास्ति तत्र मुख्यार्थ एव ग्रा-
ह्यः यत्र मुख्यार्थग्रहणे बाधकं तत्र अमुख्यार्थग्रहणं
युक्तम् ॥ १-१-१०, १-१-४, १-३-३, १-४-२, १-१-६,
२-१-१३.
( ६ ) प्र ॥ विष्णुः जगत्कारणमिति भवद्भिः उक्तं, सृष्टेः पूर्वं जी-
वाः सन्ति वा न वा ?
उ ॥ सृष्टेः पूर्वं जीवाः सन्त्येव, यथा परमात्मा अनादिः त-
था जीवा अपि अनादयः, जीवानां बाह्यदेहसम्बन्धः प-
रमात्मना भवति, सैव जीवसृष्टिः ॥ २-३-१८, २-३-१९,
२-३-३०.
( ७ ) प्र ॥ स्वप्नादिषु दृष्टद्रव्याण्यपि परमात्मना सृष्टानि वा, मा-
याकल्पितानि वा ?
उ ॥ तान्यपि परमात्मना सृष्टानि न मायाकल्पितानि तेषां
सृष्टिः विनाशश्च परमात्मना भवति ॥ ३-२-१, ३-२-५.
( ८ ) प्र ॥ तथा सति स्वप्नप्रतीताः यथार्था वा ?
उ ॥ स्वप्नदृष्टपदार्थाः सत्या एव, तथाऽपि जाग्रति दृष्टपदा-
र्थ एव अयमिति यत् ज्ञानं तत् भ्रमात्मकम् ॥ ३-२-१,
३-२-३.
( ९ ) प्र ॥ सृष्ट्या परमात्मनः किं प्रयोजनम् ?
उ ॥ प्रयोजनं नास्ति, लोके आनन्दोद्रेकवतः पुरुषस्य नृत्त-
गानादिवत् प्रयोजनानपेक्षयैव सृष्टिः ॥ २ - १ - ३३,
२-१-३४.
( १० ) प्र ॥ जीवाः परमात्मनः अत्यन्तभिन्ना वा ?
उ ॥ जीवाः परमात्मनः अत्यन्तभिन्नाः ॥ २-३-२८, २-३-४३,
३-२-१८, २-१-१४.
( ११ ) प्र ॥ जीवः अणुर्वा व्यापी वा ?
उ ॥ जीवः अणुरेव । सः हृदये वर्तते । तथाऽपि यथा चन्द