पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1162, कुल 1267 में से
संदर्भ में पढ़ें॥ प्रथमः परिशिष्टः ॥
───:✤:───
॥ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतात् भाष्यात् ॥
॥ प्रतीयमानः सिद्धान्तः ॥
───:✤:───
( १ ) प्र ॥ जगत्कारणं किम् ?
उ ॥ विष्णुः, स एव परं ब्रह्म ॥ १-१-२.
( २ ) प्र ॥ विष्णुरिति कथं ज्ञातव्यम् ?
उ ॥ शास्त्रात् ॥ १-१-३.
( ३ ) प्र ॥ कानि शास्त्राणि प्रमाणानि ?
उ ॥ सर्वे वेदाः भारतं पञ्चरात्रं मूलरामायणं एतानि शा-
स्त्राणि, तेषां अनुकूलानि इतरशास्त्राणि च प्रमाणा-
नि, नेतराणि ॥ १-१-३.
( ४ ) प्र ॥ अन्यशास्त्राणि केन रचितानि, कस्मात् तान्यप्रमाणा-
नि ?
उ ॥ अयोग्यजीवानां मोहनार्थं विष्णोराज्ञया तानि शास्त्रा-
णि रुद्रेण कृतानि कारितानि च ॥ १-१-१०.
( ५ ) प्र ॥ वेदे अनेकपरस्परविरोधाः सन्ति, एकत्र आकाशः ज-
गत्कारणमिति उक्तं, अन्यत्र परमात्मेति । एकत्र पृथिवी
वीस्वर्गाद्याधारः रुद्र इति, अन्यत्र विष्णुरिति उक्तम् ।
इत्यादिपरस्परविरोधाः बहवः सन्ति, एतादृशवेदः
कथं प्रमाणमिति अङ्गीकर्तव्यः ?
उ ॥ यद्यपि वेदे आपाततः परस्परं विरोधाः प्रतीयन्ते, त-
थाऽपि पूर्वापरवाक्यपर्यालोचनया उपक्रमोपसंहारा-
दिभिः विमर्शे कृते सति वेदे एकवाक्यता सिध्यति ।
युष्माभिः उक्ताः आकाशरुद्रादिशब्दाः विष्णुपराः ने-
तरपराः, मुख्यवृत्त्या सर्वे शब्दाः परमात्मवाचकाः, य-