सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1073, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1073

१०२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - २. ]
ष्ठः' इति च कौण्डिन्यश्रुतिः ॥ ३ ॥
—::—
३. अधिकरणम् ॥
( १) सू—ॐ॥ सोऽध्यक्षे तदुपगमादिभ्यः ॥ ॐ ॥ ४ ॥
स प्राणः परमात्मनि विलीयते । 'सर्वे प्राणमुपगच्छन्ति
प्राणः परमुपगच्छति प्राणं देवा अनुप्राणन्ति प्राणः प
रमनुप्राणिति तस्मादाहुः प्राणस्य प्राण इति' ( )
ण इति निमित्तसप्तमीति ध्येयम् ॥ २ ॥
॥ इति मनःप्राणाधिकरणम् ॥
—:
:—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे प्राणशब्दोक्त चतुर्मुखस्येश्वरे लयः समर्थ्य
ते । तदधीनत्वानिश्चयान्न परमात्मनि प्राणो लीयत इति पूर्वपक्षे सि
द्धान्तयत्सूत्रमुपन्यस्यति—स इति ॥ सोऽध्यक्षे इति प्रतिज्ञायां स इ
त्यनुवादेन प्राण इति व्याख्यानं कृतम् । 'प्राणो' हिरण्यगर्भः । अध्य
क्षे इत्यस्य 'अध्यक्षोऽधिपतिः श्रेष्ठो यदक्षाण्यस्य चोपरि' इति गीता
तात्पर्येोदाहृतवचनानुसारेणैतज्जगदधिकृत्याक्षाणि यस्य सोऽध्यक्ष इ
ति विग्रहाश्रयेणार्थं दर्शयति—परमात्मनीति । विलीयत इति शेषो
क्तिः । सावधारणमेतत् । कुत इत्यतस्तत्राध्यक्षपदसूचितं तस्य तद्
धीनत्वादिति हेतुमभिप्रेत्य, ननु तन्निश्चयोपायाभाव इत्यतः प्रवृत्तस्य
तदुपगमादिभ्य इति हेतुवाक्यस्य तस्मिन् प्राणे तेषां देवानामुपगमो
लयः तस्मिन् अध्यक्षे तस्य प्राणस्योपगमो वा , आदिपदेन सर्वेषां प्रा
णानुप्राणनं तत्र लयः प्राणस्य अध्यक्षाानुप्राणनं तत्र लयो भोगश्च ग्रा
ह्यः , तदसिद्धिशङ्कायां उपगमादित्यनेन तत्प्रतिपादकश्रुतिस्मृतयो ग्रा
ह्या इत्यर्थमभिप्रेत्य तादृशश्रुतिस्मृत्युदाहरणेन तदुपगमादिभ्य इत्यंशं
व्याचष्टे—सर्वे इति । देवा इत्यत्रापि सम्बध्यते । ईशलक्ष्मीव्यतिरिक्त
सर्वदेवा इत्यर्थः । अन्यथा ‘प्राणः परम्’इत्युत्तरवाक्यविरोधः । 'उपग
च्छन्ति' प्राप्नुवन्ति 'प्राणो' हिरण्यगर्भः । 'परं' परमेश्वरं 'उपग
च्छति',तत्र लीयत इति यावत् । 'देवाः' शेषादयः 'प्राणमनुप्राण
न्ति,'प्राणमनुसृत्य चेष्टां कुर्वन्ति । 'परं' परमात्मानं 'तस्मात्' प्रा
णचेष्टाप्रवर्तकत्वात् । इत्याहुरित्यत्रापि परमिति सम्बध्यते । अत्र 'न