सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1072, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1072

[ अधि - २. - सू - ३. ] दीपिकासहितम्. १०२५
नुकूलम्' इति हि गौपवनश्रुतेः ॥ २ ॥
*
२. अधिकरणम् ॥
( १ ) सू-—ॐ ॥ तन्मनः प्राण उत्तरात् ॥ ॐ ॥ ३ ॥
'मनः प्राणे' (छा. ६-१५-१०) इत्युत्तरवचनान्म
नोऽभिमानी रुद्रः प्राणे वायौ विलीयते । 'वायोर्वाव
रुद्र उदेति वायौ विलीयते तस्मादाहुर्वायुर्देवानां श्रे
साक्षादिति ज्ञातव्यम् । विलीयत इति सर्वत्र सम्बध्यते । श्रुतिरित्यान
न्तरं यत इति शेषः । हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः । शब्दात् श्रुते
रिति सामानाधिकरण्यम् ॥ १ ॥
॥ इति वाङ्मनोऽधिकरणम् ॥
*
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे मनसः प्राणे लयस्समर्थ्यते । न प्राणे मनो
लीयते, अविशेषात् इति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—तन्मन
इति ॥ अत्र शब्दादित्यस्यानुवृत्त्या उत्तरादिति हेतुवाक्यं व्याचष्टे—
मन इति । इत्युत्तरवचनादिति । एवंरूपात् ‘वाङ्मनसि सम्पद्यते’
इति पूर्वनयोदाहृतवाक्यापेक्षयोत्तराद्वाक्यादित्यर्थः । तन्मन इति स
मासनिविष्टतच्छब्दस्य पूर्वनयोक्तवाग्लयाधिकरणत्वविशेषितपरत्वे
न स्पष्टार्थत्वात् तं विहाय तन्मनः प्राण इति प्रतिज्ञांशं व्याचष्टे—मन
इति । विलीयत इति शेषोक्तिः, श्रुतौ सम्पद्यत इत्यनुवृत्तपदार्थकथ
नं वा । सावधारणमेतत् । अत्र प्राणवायुपदाभ्यां व्याख्येयव्याख्यान
रूपाभ्यां चतुर्मुखो ग्राह्यः । मनोरुद्रपदाभ्यां शेषो गरुडश्च । तयोश्च वा
णीद्वारा चतुर्मुखे लयो बोध्यः । एवं श्रुतावपि वायुरुद्रशब्दौ मनःप्रा
णशब्दौ व्याख्येयौ । ननु प्राणादनुत्पन्नस्य मनसः कथं प्राणे लय इ
त्यतोऽनुवृत्तं शब्दादित्येतच्छ्रुत्यन्तरपरतयाऽपि व्याचष्टे—वायोरिति ।
वावेत्यवधारणे । ‘उदेति’ उत्पद्यते, तस्मादुत्पन्नतयादेव वायौ विली
यते रुद्रः । तस्मादित्युत्तरत्रापि सम्बध्यते । ‘तस्मात्’ रुद्रोत्पत्तिल
यहेतुत्वादाहुर्बुधाः ‘देवानां’ रुद्रादीनाम् । श्रुतिरित्यानन्तरं यत इति
शेषोऽस्य मनः प्राण इति सिद्धमित्युपस्कृतेनान्वयः । अस्मिन् पक्षे प्रा
१२९