पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1074, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ४. ] दीपिकासहितम्. १०२७
‘प्राणः परस्यां देवतायाम्’ ( ) ।
( २ ) मुक्तास्सन्तोऽग्निमाविश्य देवास्सर्वेऽपि भुञ्जते ।
अग्निरिन्द्रं तथेन्द्रश्च वायुमाविश्य सोऽपि तु ॥
आविश्य परमात्मानं भुङ्क्ते भोगांस्तु बाह्यकान् ।
न ह्यानन्दो निजस्तेषां परैर्लभ्यः कथं चन॥
किमु विष्णोः परानन्दो न ते विष्णाविति श्रुतेः॥
प्राणः कस्मिंश्चिदाश्रितः, सोऽन्यं कथमुपाश्रयेत’ इत्यादिप्राणस्वातन्त्र्य
श्रुतीनां सावकाशत्वप्रदर्शनाय ‘सर्वे प्राणमुपगच्छन्ति, प्राणं देवा अ
नुप्रणन्ति’ इत्यंशोदाहरणम् । तथा च ‘सर्वे प्राणमुपगच्छन्ति’ इ
ति श्रुत्युक्तन्यायेन भगवदितरस्वातन्त्र्ये श्रुतितात्पर्यमिति भावः। ‘प्रा
णः परस्यां देवतायाम्’ इति श्रुत्यन्तरं, ‘परस्यां’ विष्ण्वाख्यदेवता
यां ‘प्राणः’ चतुर्मुखो लीयत इत्यर्थः ॥
( २ ) मुक्तास्सन्त इति स्मृतिः ॥ अग्नेरधमास्तत्र लययोग्याः सर्वे
देवाः ‘मुक्ताः’ कर्मक्षयं प्राप्ताः सन्तोऽग्निं प्रविश्य तत्र स्थितान् भोग्या
न् स्वयोग्यानन्दादीन् ‘भुञ्जते’ अनुभवन्तीत्यर्थः । अपिरभिव्याप्तौ,
अग्निरपीति वा । अग्नेरिन्द्रप्रवेशः परम्परया । तथाशब्द उपमायाम् ।
चः समुच्चये । ‘वायुं’ विरिञ्चमाविश्येति पूर्वोक्तसौपर्णीसुपर्णवाणी
द्वारेणेति द्रष्टव्यम् । ‘सः’ वायुः । अपिस्समुच्चये । तुशब्दो हिरण्य
गर्भस्येतरदेवेभ्यः सर्वाङ्गप्रवेशाख्यविशेषार्थः । अवधारणे वा तुः ।
‘बाह्यकान् भोगान्’ भुज्यन्त इति भोगाः परमात्मस्वरूपानन्दात् मु
क्तान्तरानन्दाच्च बाह्यान् स्वयोग्यानन्दानित्यर्थः । बहुवचनमेकत्वार्थे ।
यद्वा—बाह्यप्राकृतविषयभोगानित्यर्थः। उक्तं हि तत्त्वप्रदीपे । परमा
त्मस्वरूपादन्यं मुक्तान्तरानन्दाच्च बाह्यं स्वानन्दं भुङ्क्ते । बहिर्निर्गत
स्तु बाह्यविषयानपि कांश्चित्स्वयोग्यान् भुङ्क्ते इति । पुनस्तुशब्दोऽव
धारणार्थः । बाह्यकानित्येतदेवोपपादयति—न हीति। ‘हि’ यस्मात्
‘तेषां’ मुक्तानां मध्ये एकस्य ‘निजः’ स्वरूपभूत आनन्दः ‘परैः’
अन्यैः ‘कथं चन’ केनाप्युपायेन प्राप्यो न भवति । विष्णोः परान
न्दस्तु न प्राप्य इति किमु वक्तव्यमित्यर्थः। विष्णुसम्बन्ध्यानन्दोऽन्यै
र्न लभ्य इति कुतो ज्ञायत इत्यत आह—न त इति। अन्यथैतच्छ्रुति
विरोधः स्यादिति भावः। व्याख्यातैषा श्रुतिर्जन्माधिकरणे । न च प्र