पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1052, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - ८. ] दीपिकासहितम्. १००५
दा विक्षेपाल्पत्वेन सम्भवात् ॥ ७ ॥
( २ ) सू—ॐ ॥ ध्यानाच्च ॥ ॐ ॥ ८ ॥
स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा ।
स्मरणं सर्वदा योग्यं ध्यानोपासनमासने ॥
( ३ ) नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः ।
तच्च आसीन एव कुर्यादित्यर्थः । कुत इत्यतत्सम्भवादिति हेतुं तदाश-
ब्दाध्याहारेण व्याचष्टे—तदेति । सावधारणमेतत् । तस्येति शेषः । त-
था च यद्यपि उपासनस्यैव ज्ञानसाधनत्वम् । तथाऽपि तस्य 'तदैव'
आसने सत्येव 'सम्भवात्' योगात्, अन्यथाऽसम्भवादिति योजना ।
कुत इत्यतोऽनुवृत्तचशब्दसूचितं हेतुसाधकहेतुं दर्शयति—विक्षेपेति ।
तस्येत्यात्रापि सम्बध्यते । तथा च तस्यासीनस्यैव विक्षेपस्य चित्त-
विक्षेपस्य अल्पत्वेन अबहुत्वेनेत्यर्थः । उक्तोपासनविरोधिबहुचित्तवि-
क्षेपाभावादन्यस्य च तन्नियमादिति फलितार्थः । तत्त्वप्रदीपे तु सर्व-
दोपासनं कुर्वन्नयं नाविशेषतः, किन्तु आसीनो विशेषतः कुर्यादित्यु-
क्तम् ॥
( २ ) ननु सर्वदोपासनं कुर्वन्नासीन एवेत्यनेन सर्वदोपासनं का-
र्यम्, आसनं चापेक्षितमित्युक्तम् । तन्न युज्यते । विरुद्धत्वेनोभयोरेक-
दा समावेशायोगात् । तत्रान्यतरस्मिन् त्याज्ये श्रुतिविहितत्वात्सर्व-
दोपासनमुपादायासनमेव त्यज्यते, तद्विधायकश्रुत्यभावादतो नासन-
मावश्यकमित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति—ध्यानाच्चेति ॥ अत्र
ध्यानादिति भावप्रधानो निर्देशः । उपासनविशेषस्येति शेषः । चश-
ब्दोऽनुक्तसमुच्चये, विरोधाभावसमुच्चये चेति भावेन सप्रमाणकं सू-
त्रं व्याचष्टे—स्मरणेति । स्मरणं विच्छेदेन मनोवृत्तिः । यथोक्तं तत्त्व-
प्रदीपे—स्मरणं विच्छेदेन मनसो वृत्तिरिति । स्मरणेति भिन्नपदं, लिङ्ग-
व्यत्ययः छान्दसः । लुप्तविभक्तिको वा निर्देशः । उपासनमिति शेषो
वा । चस्समुच्चये । एवकारो न्यूनसङ्ख्याव्यवच्छेदकः । तथा च उ-
पासनं स्मरणोपासनं ध्यानात्मकं चेति द्विधैवेत्यर्थः । 'सर्वदा' स्थि-
तिगत्यासनादिष्वपि । ध्यानोपासनमिति कर्मधारयः । 'आसने' उप-
वेशने सत्येव । योग्यमित्यनुषज्यते ॥
( ३ ) ध्यानस्वरूपप्रदर्शनपूर्वकं तस्यासिनेसापेक्षत्वमन्वयव्यतिरे-