पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1051, कुल 1267 में से
संदर्भ में पढ़ें१००४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ]
( ३ ) स्वोत्पत्त्यङ्गं च देवानां विष्णोश्चिन्त्यं सदैव तु ।
तेषां तत्र प्रवेशो हि मुक्तिरित्युच्यते बुधैः ।
तदाश्रिताश्च ते नित्यं ततश्चिन्त्यं विशेषतः ॥ इति ॥ ६ ॥
--
६. अधिकरणम् ॥
( १ ) सू—ॐ ॥ आसीनस्सम्भवात् ॥ ॐ ॥ ७ ॥
सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । त
( ३ ) एवमतीताधिकरणार्थोपयुक्तांशमुदाहृत्य पतदधिकरणोपयुक्तं
स्मृत्यंशमुदाहरति—स्वोत्पत्त्यङ्गं चेति । 'देवानां' देवैर्विष्णोस्स्वोत्प-
त्त्यङ्गं च सदैव चिन्त्यम् । स्वाश्रयत्वेनेति शेषः । न केवलं ब्रह्मत्वादी-
ति चशब्दार्थः । अत्र हेतुमाह—'तेषां' देवानामिति । 'तत्र' अङ्गेषु
'हि' यतः । न चान्यथोपासनमेतदित्याह—तदाश्रिताश्चेति । 'ते' दे-
वाः 'नित्यं' रूपान्तरेणाङ्गाश्रिता एवेत्यर्थः । 'ततः' तदाश्रितत्वात्
'विशेषतो' विशिष्य सर्वथा देवाश्रयाङ्गं देवैश्चिन्त्यमित्यर्थः । इति ना-
रायणतन्त्र इत्यन्वयः ॥ ५ ॥
॥ इति आदित्याधिकरणम् ॥
-::–
६. अधिकरणम् ॥
( १ ) अत्राधिकरणे आसनादिनियमस्साध्यते । प्रयोजनाभावा-
द्धासनं सर्वथाऽपेक्षितमिति पूर्वपक्षे सिद्धान्तयत्तत्सूत्रमुपन्यस्यति—
आसीन इति ॥ अत्र पूर्वस्माच्चशब्दोऽनुवर्तते । स चाप्यर्थोऽवधारणे
च । जिज्ञासुरुपासनं कुर्यादिति च शेष इति भावेन प्रतिज्ञांशं व्या-
चष्टे—सर्वदोपासनं कुर्वन्निति । 'सर्वदा' स्थितिगत्यासनादिसर्वका-
लेषु 'उपासनं' सामान्यस्मरणादि । कुर्वन्निति । जिज्ञासुरिति शेषः ।
अपिशब्दो हेतुवाक्ये सम्बध्यते । आसीन इति सावधारणम् । तेनानु-
वृत्तचशब्दो व्याख्यातः । 'विशेषतः' सर्वथा कुर्यादिति । अत्रापि उ-
पासनमिति सम्बध्यते । अत्रोपासनं वस्तुतो ध्यानम् । तथा चेत्थं प्र-
तिज्ञावाक्ययोजना—उपासनं कुर्वन् जिज्ञासुः 'आसीनः' उपविश-
न्नेवोपासनं विशेषतः 'सर्वथा' सर्वप्रकारविघ्नेऽपि कुर्यादिति । आ-
सीनस्योपासने सर्वदोपासनाऽभावः स्यादिति शङ्कावारणाय—सर्वदो-
पासनं कुर्वन्नित्याह । तथा चाधिकारी सर्वदोपासनं कुर्वन्नेव भवेत् ।