पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1053, कुल 1267 में से
संदर्भ में पढ़ें१००६ ब्रह्मसूत्रभाष्यम्. [ अध्या -४. पा - १. ]
आसीनस्य भवेत्तत्तु न शयानस्य निद्रया ।
स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् ।
स्मरणात्परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः ।
इति नारायणतन्त्रे । अतो ध्यानत्वाच्च ॥ ८ ॥
(४) सू— ॐ ॥ अचलत्वं चापेक्ष्य ॥ ॐ ॥ ९ ॥
अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम् ।
काङ्क्षामुपपादयति — नैरन्तर्यमित्यादिना ॥ नैरन्तर्यमविच्छेदः । 'त
त्' ध्यानम् । तुशब्दोऽवधारणार्थः । आसीनस्यैवेत्यन्वेति । तद्व्याव
र्त्यमाह —नेति । निद्रया शयानस्येत्यन्वयः । गच्छत इति षष्ठी । वाश
ब्दो विकल्पार्थः । अपिः समुच्चये । कुतो नेत्यत आह —विक्षेपस्येति ।
मनोविक्षेपस्येत्यर्थः । एवकारस्सम्भवादेवेत्यन्वेति । तर्हि सुशकेन सा
र्वकालिकेन स्मरणेनैवालं, किं ध्यानेनेत्यत आह—स्मरणादिति ।
'परमं' अधिकं 'तत्र' आधिक्यविषये । नारायणतन्त्र इति । यतोऽ
मिहितमिति शेषः । ध्यानत्वादिति । तस्य उपासनस्येति शेषः । च
शब्दः आसनस्यावश्यकत्वमविरोधश्चेति साध्यसमुच्चये । तथा चेत्थं
योजना —यतः उपासनं स्मरणं ध्यानात्मकमिति द्विधा भवति । यत
श्च स्मरणोपासनं सर्वदा योग्यम् । यतश्च सर्वदोपासनविधिः सर्व
दोपासनं कुर्वन्नित्युक्तिश्च तद्विषयो भवतीति शेषः । यतो ध्यानं म
नोवृत्तेर्नैरन्तर्यं उपासनविशेषः । तच्चासनाभावे चित्तविक्षेपप्राप्तेरास
ने सत्येव युज्यते । यतश्च स्मरणात् ध्यानमधिकमिति नारायणतन्त्रेऽ
भिहितम् । अतस्तस्यासनसापेक्षतयोच्यमानस्योपासनस्य ध्यानत्वा
त्तद्रूपत्वान्नासननियमसदोपासनयोर्विरोधः । अत एव ध्यानस्यासन
मन्तरेणासम्भवादासनस्यावश्यकत्वं च सिध्यतीति । अत्र सर्वत्र वि
षयानुक्तिः प्रकृतिसिद्धत्वात्परमात्मा हि प्रकृतः ॥
(४) ननु ध्यानार्थमपि नासनमावश्यकम् । न चैवं चित्तविक्षेपा
परिहारः । इन्द्रियाणां विषयेभ्य उपसंहाररूपप्रत्याहारादिना चित्तवि
क्षेपपरिहारादित्याशङ्कां परिहरत्सूत्रं पठति—अचलत्वं चेति ॥ अत्र
मनसो देहस्य भवतीति पदत्रयमध्याहार्यम् । सूत्रपदानामावृत्तिश्च ।
आसीन इत्यनुवर्तते । उपासनं विशेषतः कुर्यादिति च प्रकरणाल्लभ्य
ते । अचलत्वमिति प्रथमान्तं द्वितीयान्तं च । साधनसमुच्चये चशब्दः।
यद्वा—तत्त्वप्रदीपरीत्याऽनिद्रत्वं चकारार्थः । तथा च यतो मनसः 'अ