पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1001, कुल 1267 में से
संदर्भ में पढ़ें९५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
( ३१ ) सू—ॐ ॥ विहितत्वाच्चाश्रमकर्माऽपि ॥ ॐ ॥ ३२ ॥
न केवलं निषिद्धाकरणेन पूर्यते । कर्तव्यं च वर्णाश्र
मविहितं कर्म ।
( ३२ ) पश्यन्नपीममात्मानं कुर्यात्कर्माविचारयन् ।
यदात्मनस्तु नियतमानन्दोत्कर्षमाप्नुयात् ॥
इति कौषारवशभ्रुतौ विहितत्वाच्च ।
अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ ३२ ॥
( ३३ ) सू—ॐ ॥ सहकारित्वेन च ॥ ॐ ॥ ३३ ॥
नेति । वर्ततेत्यावर्तते । तथा च यः ' पूर्णज्ञानफलेच्छया ' पूर्णं यत्
ज्ञानफलं तदिच्छया वर्तेत, तदिच्छुः सन् निषिद्धानि कर्माणि नानु
वर्तेतेत्यर्थः । पाद्म इति । वचन इति शेषः । अस्याल्पफलत्वमित्यादि
नाऽन्वयः ॥
( ३१ ) ननु निषिद्धाचरणे फलह्रासादिबाधक सद्भावादस्तु ज्ञानि
नो निषिद्धं वर्ज्यम्, न तु सत्कर्मकरणमावश्यकम् । न चैवं पूर्णफला
सिद्धिः । ह्रासकारणाभावे ज्ञानादेव तत्सिद्धेरित्याशङ्कां परिहरत्सूत्र
मुपन्यस्यति—विहितत्वादिति ॥ अत्र चशब्दः साध्यांशे कर्तव्यमित्य
ध्याहृतपदेनाऽप्यन्वेतीत्याशयेन तं निषिद्धाकरणसमुच्चयार्थकतया
व्याचष्टे—नेति । ' पूर्यते ' कर्मेति शेषः । पूर्णफलयुक्तो भवति पुरु
ष इति वा । साध्यांशं व्याचष्टे—वर्णेति । वर्णेष्ववाश्रमेषु च कर्तव्यत
या विहितमित्यर्थः । वर्णेत्यपिशब्दार्थोक्तिः ॥
( ३२ ) कुत इत्यतो विहितत्वादिति हेतुं व्याख्याति--पश्यन्निति ॥
‘ इमं ’ हृदयादिगतं परमात्मानं पश्यन्नपि, न केवलमपश्यन्नित्यपेरर्थः ।
‘ अविचारयन् ’ असंशयानः कर्म कुर्यात् । कर्म किमित्यत आह--य
दिति । ‘ आत्मनः ’ कर्तृजीवस्य ‘ सुनियतं ’ वर्णाश्रमोचितम् । फल
माह--आनन्देति । येनेति शेषः । यद्वा--‘ यत् ’ यस्मादात्मनः ‘ सु
नियतं योग्यमानन्दोत्कर्षमाप्नुयादित्यर्थः । विहितत्वाच्चेति । न के
वलमानन्दातिशयार्थत्वादिति चार्थः । वक्ष्यमाणसहकारित्वसमुच्च
यार्थो वा । सूत्रेऽनुक्तो वर्णधर्मः आश्रमधर्मेण सह किमिति भाष्यत
इत्यत आह—अपिशब्द इति ॥
( ३३ ) ननु विहितत्वेऽपि न सत्कर्म ज्ञानिना कार्यं फलाभावात् ।